________________
५.
१५४
गद्यचिन्तामणिः
[ ९५ विजयार्ध
$ ६५ अथ सा कल्याणी कदाचन पञ्चकल्याणोपवासपारणादिवसे परिवारेण साधं विजयार्धभूभृतः किरीटायमानं सिद्धकूटजिनचैत्यसदनं सपर्याविधानपुरःसरमधिकभक्तिरभिप्रणम्य समागत्य चतुर्गतिभ्रमण प्रशमनभेषजं जिनाङ्घ्रिपङ्केरुहस्पर्शनेन पावनं प्रसूनं सविनयं पित्रे समर्पयामास । राजापि सप्रश्रयं प्रतिगृह्य तां शेषामशेषदोषक्षयायेति शिरसा वहन्संप्राप्तगौवनसामान्यामिमां निर्दयं जामनिर्देदो निवर्तयंश्चक्षुष्यमपि जनं महिष्या सममेकान्ते चिन्तयामास - 'आसीदियं तरुणी तारुण्याम्रेडितलावण्या । भवन्ति चास्याः पश्यन्तः पयोधरोन्नति पार्थिवजाताश्चातका इव जातास्थाः । इदं हि संसारिणां सांसारिकप्रसूतिजातेष्वरुन्तुदं दुर्जातं यदात्मसंभवानामात्माभिर्वाधितानां च कन्यानामन्येन केनाप्यदृष्टपूर्वेण घटनं तस्मादप्यनुरूपवरा
8. अथेति - अथानन्तरं सा कल्याणी कल्याणवतो गन्धर्वदत्ता कदाचन जातुचिद् पञ्चकल्याणं १० व्रतविशेषस्तस्योपवासस्य पारणादिवसो व्रतान्तभोजनवासरस्तस्मिन् परिवारेण परिजनेन सार्धं विजयार्धभूभृत: खेचराः किरीटायमानं मुकुटायमानं सिद्धकूटजिनचैन्यसदनं सिकूटजिनालयं सपर्याविधान पुरःसरं पूजाविधिसहितम् अधिका भक्तिस्यास्तथाभूता सती अभिप्रणम्य नमस्कृत्य समागत्य च चतुर्गतिभ्रमणस्य नरकादिगतिचतुष्कपर्यटनस्य प्रशमनभेषजं शाम्य्यौषधं जिनापिरुहस्पर्शनेन जिनेन्द्रचरणारविन्दस्पर्शनेन पावनं पवित्रं प्रसूनं पुष्पं सविनयं पित्रे जनकाय समर्पयामास । राजापि गरुडवे गोऽपि १५ तां शेष पुष्परूप सश्रयं सविनयं गृहीत्वा अशेषदोषाणां निखिलटुप्कर्मणां क्षयस्तस्मा इति हेतो: शिरसा मूर्ध्ना वहन् संप्राप्तं यौवन साम्राज्यं यया तां पूर्णयौवनवतीम् इमां कन्यां निर्वर्ण्य दृष्ट्वा जातो निर्वेदो यस्य तथाभूतः समुत्पन्नखेदः सन् चक्षुष्यमप्यनुकूलमपि जनं निवर्तयन् विसर्जयन् महिष्या राया समभू एकान्ते विजने स्थाने चिन्तयामास विचारयामास - ' तारुण्येन यौवनेनावेदितं द्विगुणितं कावण्यं यस्यास्तथाभूता इयं तरुणी यौवनवती आसीत् । अस्याः पयोधरोहतिं कुचोन्नति पक्षे मेवोमसिं २० पश्यन्तः पार्थिवजाता राजसमूहाः चातका व जाता समुत्पन्ना आस्था आदरबुद्धिर्येषां तथाभूता भवन्ति । संसारिणां प्राणिनामिदं हि सांसारिकप्रसूतिजातेषु सांसारिकसन्ततिसमूहेषु अरुन्तुदं मर्मष्यथकं दुर्जातं दुष्कर्म अस्ति यद् आत्मसंभवानां स्वसमुत्पन्नानाम् आत्माभिवर्धितानां स्वपोषितानां च कन्यानां पति
६ ९५. तदनन्तर किसी समय उस कल्याणवती कन्याने पंचकल्याणक व्रतका उपवास किया और उसकी पारणाके दिन परिवार के साथ विजयार्ध पर्वतके मुकुटके समान आचरण २५ करनेवाले सिद्धकूट जिनालय में जाकर जिनेन्द्र भगवानकी पूजा की, बहुत भारी भक्ति से नमस्कार किया और वहाँ से आकर चतुर्गति के भ्रमणको शान्त करनेकी ओषधिस्वरूप, जिनेन्द्र भगवान के चरणकमलोंके स्पर्शसे पवित्र पुष्प विनयपूर्वक पिता के लिए समर्पित किया । राजाने भी उस आशीर्वादात्मक पुष्पको विनयसे लेकर 'यह समस्त दोषोंका क्षय करने के लिए हैं' ऐसा निश्चय कर शिरपर रख लिया। उसी समय यौवनके साम्राज्यको ३० प्राप्त हुई इस कन्याको देखकर राजाको कुछ निर्वेद उत्पन्न हुआ और वह प्रीतिपात्र मनुष्यों को
भी अलग कर एकान्तमें रानीके साथ इस प्रकार विचार करने लगा । 'यौवनसे जिसका सौन्दर्य पुनरुक्त हो रहा है ऐसी यह कन्या अब तमणी हो चुकी । जिस प्रकार पयोधरमेोंकी उन्नतिको देखते हुए पपीछे प्रीति से युक्त होते हैं उसी प्रकार इसके पयोधर - स्तनोंकी उन्नतिको देखते हुए राजा लोग प्रीति से युक्त हो रहे होंगे। सांसारिक प्रसूतियों के समूह में ३५. संसारी जीवों को यह बात सबसे अधिक मर्मभेदी पीड़ा देनेवाली है कि अपने से उत्पन्न एवं अपने द्वारा बढ़ायी हुई कन्याओंका जो पहले कभी देखने में नहीं आया ऐसे किसी अन्य