________________
----
--
गयचिन्तामणिः
[३० श्रीदसवैश्यस्थ९०. अस्मपितृपितामहादिभिरजितमस्तोकमस्ति चेदपि वस्तु स्वहस्ताजितमिवोन्नतचित्तस्य न चित्तप्रसादमावहति । आवहतु वा । कथं तदायरहितं धनमव्ययं स्यात्, शश्वदुपभोगे गिरिरपि नश्यतीति जनवादश्रुतेः । बीतवित्ततायाश्च किमपरमरुन्तुदम् । असुभृतां हि दारिद्रय
मसुभिर्युक्तं मरणमशस्त्रसंपाचं हृच्छल्यमनात्मप्रशंसनं हास्यतानिदानमनाचारपरिक्षय उपेक्षा५ हेतुरपित्तोद्रेकज मुन्मादान्ध्यमक्षपास्फुरणममित्रतानिमित्तम् । किमपरमुदीर्यते । रिक्तस्य न चचो
जीवति, नाभिजात्यं जागति, न पौरुषं परिस्फुरति, न विद्या विद्योतते, न शोलमुन्मोलति, न शेमुषो समुन्मिषति, न धार्मिकता संभाव्यते, नाभिरूप्यं निरूप्यते, न प्रश्रयः प्रशस्यते, न कारुण्यं गण्यते, पाकः पलायते, विवेको विनश्यति, किमन्यन्न भ्रश्यति । धनोपचये तु लोकद्व
९०. अस्मदिति-अस्मपितृपितामहादिमिर्यपूर्व पुरुषैर्जितम् अस्तोकं विपुलं वस्तु वित्तम् १. अस्ति चदपि तथापि स्वहस्तनार्जितं संचितमिवोन्नतचित्तस्य उदाराशयस्य चित्तप्रसादं मनोहर नावहति ।
आवतु वा। आयरहितं वृद्धिरहितं तद्धनम् अव्ययं विनाशरहितं कथं स्यात् । शश्वदुपभोगे निरन्तरीपमोगे गिरिरपि पर्वतोऽपि नश्यतीति जनवादश्रुतेः लोकोक्तिश्रवणात् । वीतं वित्तं यस्य तस्य भावस्तस्या निर्धनतायाश्च अपरमन्यत् अरुंतुदं ममेव्यथकं किम् । असुभृतां प्राणिनां हि दारिद्रय निधनरवम्
असुमिः प्राणयुक्तं मरणम जीवितसरणतुल्यमित्यर्थः, न शस्त्रेण संपायमियशस्त्रसंपाचं हृच्छल्पम् , न १५ विद्यत आत्मप्रशंसनं यस्मिन् तत् अनात्मप्रशंसनम् आत्मश्लाघारहितं हास्यतानिदानं हास्यताकारणम्,
न विद्यत श्राचारस्य परिक्षयो यस्मिन् तथाभूतं उपेक्षाहेतुरनादरनिमित्तम्, न पित्तस्योद्रकेण जातमिरयपित्तोडेकजम् उन्मादान्धरामुन्मादजनितान्धत्वम्, न विद्यते क्षपायां निशायां स्फुरणं यस्य तथाभूतम् अमित्रतानिमित्तं सूर्याभावकारणं पक्षे शत्रुताकारणम् अपरं किम् उदीयते निगद्यते । रिक्तस्य
दरिद्रस्य न वचो जीवति, न आभिजात्यं कुलीनत्वं जागर्ति प्रकटीभवति, न पौरुवं पुरुषत्वं परिस्फुरति २० योतते, न विद्या पाण्उिस्यं विद्योतते प्रकाशते, न शीलं सौजन्यम् उन्मीलति प्रकटोभवति, न शेमुषी
मनीषा समुन्मिपति विकसति, न धार्मिकता धर्म चरति धार्मिकस्तस्य भायो धर्माचरणं संभाव्यतेऽ. नुमीयते, न आमिरूप्यमानुकूल्यं निरूप्यते, न प्रश्रयो विनयः प्रशस्यते श्लाध्यते, न कारुण्यं दयालुता गण्यते प्राद्रियते, पाको निष्ठा मर्यादेत्यर्थः पलायते विद्रवति, 'पाको जरापरीपाके स्थाल्यादौ क्लेद
६६०. यद्यपि हमारे पिता और पितामह आदिके द्वारा संचित बहुत धन विद्यमान हैं २५ तथापि वह अपने हाथसे संचितके समान उदात्तचित्त मनुष्य के चित्तमें प्रसन्नता
उत्पन्न नहीं करता। अथवा करे भी। परन्तु आयसे रहित वह धन अविनाशी कैसे हो सकता है। निरन्तर उपभोग होनेपर पर्वत भी नष्ट हो जाता है ऐसा लोगोंका कहना सुना जाता है। और निर्धनतासे बढ़कर मर्मको भेदन करनेवाली अन्य वस्तु क्या हो सकती है। यथार्थ में
प्राणियोंकी दरिद्रता प्राणोंसे सहित मरण है, शस्त्रके बिना की हुई हृदयकी शल्य है, अपनी प्रशंसा३० से रहित हास्यका कारण है, आचरणके विनाशसे रहित उपेक्षाका कारण है. पित्तके उदेकले
बिना ही होनेवाला उन्माद सम्बन्धी अन्धोपन है, और रात्रिके आविर्भावके बिना ही प्रकट होनेवाली अमित्रता ( पक्षमें सूर्याभाव ) का निमित्त है। अधिक क्या कहा जाये, दरिद्र मनुष्यका न वचन जीवित रहता है न उसकी कुलीनता जागृत रहती है, न उसका पुरुषार्थ
देदीप्यमान रहता है, न उसकी विद्या प्रकाशमान रहती है, न शील प्रकट होता है, न बुद्धि ३५ विकसित रहती है, न उसमें धार्मिकताकी सम्भावना रहती है, न सुन्दरता देखी जाती है, न विनय प्रशंसनीय होती है, न दया गिनी जाती है, निष्ठा-श्रद्धा भाग जाती है, विवेक नष्ट हो
१. क० नहि वचो जीवति । ख० ग० रिक्तस्य हि वनो जीवति ।