SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ -विजयवृत्तान्तः] द्विसीयो लम्भः वानस्मीति विस्मयस्नेहमुखरे पितरि, वितर्कयति कथमुदकः स्याग्निसर्गवीरकुमारवीर्यस्येति विचारनिष्ठे काष्ठाङ्गारे, प्रतिदिशं प्रतिदेश' प्रत्यगारं च कुरुकुलशिखामणेः कुवलयकुटीरसंकटनिवासनिबिडिताभोगां भोगावलीमुपलालयति बाले जरति यूनि च जने, रामभद्रमिव भ्रात्रा प्रलयसमयमिव मित्रमण्डलेन महोधमिव वंशजातेन चन्द्रमसमिव सद्भिः सकलगुणनिकरपरिपूरितैर्वयस्यैः परिवृतं कुमारमभिवन्द्य नन्दगोपः स्वसंतानस्य पुरातनतां राजकुलभृत्यतां च ५ पुरातनपण्मुखमुखविशिष्टानामविशिष्टजातिजाताङ्गनासंगमसंकथां च कथयन् 'भवद्विहितनिर्हेतुकोपकारस्य प्रत्युपकारमपश्यता मया दिश्यमानां परिणयतु मे कन्याम् । न मन्येतान्यत्' इति सदैन्यमयाचत । स च कुरुवंशनभोंशुमाली नीचकुलललनासंपर्कमविवेकिवर्गसुलभमाकलयन् कुतो भाग्याद् भागधेयाद् अहं प्रथितयशसा प्रसिदकीर्तिना तेजसा प्रतापानां निधिना भाण्डारेण पुत्रेण जीवकेन पुत्रवान् सपुत्रोऽस्मीति विस्मयस्नेहाभ्यां मुखरस्तस्मिन् तथाभूते सति, निसर्गेण वीरो निसर्गवीरः १० स चासो कुमारस्सस्य वीर्यस्य पराक्रमस्य उदकः परिणामः कथं की रक् स्यात् इति विचारनिष्ठे काष्ठाङ्गारेवितर्कयति विचारयति सति, प्रतिविशं प्रतिकाटं, प्रतिदेश प्रतिजनपदं प्रतिस्थानं वा प्रत्यगारं च प्रति. भवनं च पाले, जरति वृद्ध यूनि तरुणे च जने कुरुकुलशिखामणेः कुरुवंशशिरोरत्नस्य स्वामिनः, कुवलयं महीमण्डलमेव कटीरं तत्र संकटनिवासेन संकीणांवासेन निषिद्वित: सान्द्रीभूत आभोगो विस्तारो यस्यास्तां भोगावली कीसिंगाथाम् उपळालयति सति, रामममिव दाशरथिमिव भात्रा नन्दायेन पक्षे लक्ष्मणादिना, १५ गलपसमयमिव कल्पान्तकालमिव मित्रमण्डलेन सुहृत्समूहेन पक्षे सूर्यसमूहेन, महीध्रमिय पर्वतमिव बंशजातेन कुलोरपनेन पके वेणुसमूहेन, चन्द्रमसमिव चन्द्रमिव समिः नक्षत्रैः पक्षे सजनैः, सकलगुणानां निखिल गुणानां निकरण समूहेन परिपूरितास्तथाभूतैर्वयस्यैः परिवृतं कुमारं जीवंधरम् अभिवन्ध नमस्कृत्य नन्दगोपः स्वसंतानस्य निजसंततेः पुरातना प्राचीनतां राजकुलस्य राजवंशस्य भृत्यतां दासतां च पुरातनाः पूर्वभवाः षण्मुलमुखाः षण्मुखप्रधाना ये विशिष्ट विशिष्टपुरुषारतेषाम् भविशिष्टजाति जातानानाम् २० असमानजातिसमुत्पन्ननारीणी संगमकथा या समागमवार्ता तां च कथयन् 'भवता विहितो यो निहतुव उपकारस्तस्य प्रत्युपकारम् अपश्यताऽनवलोकमानेन मया दिश्यमानां प्रदीयवानां मे कन्या परिणयतु विबहतु । अन्यत् अन्यथा न मन्धेत' इति सदैन्यं यथा स्यात्तथाऽयाचत । कुरुवंशनोऽशुमाली कुरुवंशतपके धारक जनोंके योग्य किस भाग्यसे पुत्रवान् हुआ हूँ' इस प्रकार पिता गन्धोत्कट जय आश्चर्य और स्नेहसे मुखर हो रहे थे-उक्त शब्द प्रकट कर रहे थे। काष्ठांगार जब इस २५ प्रकारके विचारमें निमग्न था कि स्वभावसे वीर जीवन्धर कुमारके पराक्रमका परिणाम किस प्रकार होगा ? दिशा-दिशामें, देश-देशमें और घर-घर में जब बालक, बूढ़े और तरुण पुरुष कुरुवंशके शिरोमणि जीवन्धर कुमारकी उस विरुदावलीको प्रशंसा कर रहे थे कि जिसका विस्तार पृथिवीमण्डलरूपी छोटी-सी कुटिया में संकीर्णता पूर्ण निवास करनेसे सान्द्रताको प्राप्त हो रहा था। तदनन्तर जो रामचन्द्रजीके समान अपने भाईसे सहित थे, प्रलयकालक ३० समान मित्रमण्डल-सूर्यमण्डल (पझमें मित्रगण) से युक्त थे, पर्वतके समान वंशजात-बाँसोंके समूह (पक्षमें उत्तम कुलों के समूह) से सहित थे, चन्द्रमाके समान नक्षत्रों (पक्षमें सज्जनों) से युक्त थे और समस्त गुणोंके समूहसे परिपूर्ण मित्रोंसे घिरे हुए थे ऐसे जीवन्धर कुमारको नमस्कार कर नन्दगोपने बड़ी दीनतासे यह याचना की कि आप मेरी कन्याको स्वीकृत कीजिएअन्यथा न समझिए। याचना करते समय उसने अपने वंशको प्राचीनता बतलायी । मैं राज-31 १. ख० प्रतिप्रदेश, प्रतीपदेशम् । क. प्रतिदिशं प्रतोपदेशम् । ग. प्रतिदिशं प्रतिप्रदेशम् । २. म० राजकुलकुलभूत्यताञ्च ।
SR No.090172
Book TitleGadyachintamani
Original Sutra AuthorVadibhsinhsuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1968
Total Pages495
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy