SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ रायचिन्तामणिः [६० आर्यनन्दिगुरुणा - भृतामास्थानमण्डपोद्देशाः । सुजनास्तत्र कथमत्रस्ताः पदं निधातुं पारयन्ति ? पारयन्तोऽपि स्वकार्यपारवश्यनश्यद्विवेकाः काश्यपोभुजां पाश्वं कथमप्याश्रयितुमाश्रयाशातिशायिशक्तिप्रज्वलदस्थानरोषभोषणां तेषां वाचं वाचस्पतिदेश्या अपि शुका इव स्वयमनुवदन्ति । वदन्ति चेदपि चेतस्विनः परितः परहितपरतया विरसीकृत्य निरसनकतानं वचनं वचनीयधुराधरणक्षमा: ५ क्षमापतयः क्षितितलप्राप्तिक्षणसमारोपितप्रतापज्वररयबधिरितकर्णा इव तनावकर्णयन्ति । कथंचिदाकर्णयन्तोऽपि मधुमदमत्तमत्तकाशिनीवदनशीधुसंपर्कशिथिलितचित्तवृत्तय इव नूनमदत्तावधानाः खेदयन्तः स्वहितोपदेशकारिणः सूरोन् तदुक्तं नानुतिष्ठन्ति । अनुतिष्ठन्तोऽपि न फलपर्यन्तं पृथिवीपतीनां हिताहितं श्रेयोऽश्रेयः उपदिशन्तो निगदन्तः सन्तः सजनाः सुदुर्लभा अतिशयेन दुष्प्रायाः सन्ति । खलु निश्चयन महीभृतां राज्ञाम् आस्थानमण्डपोदेशाः सभामण्डपस्थानानि खलजनकण्टकै १० टुंजनशल्यैः खिलौकृताः शिथिलीकृता उपद्रुता इति तथाभूताः सन्ति । सत्र खलशल्यखिलीकृते राज सभामण्डऐ सुजनाः साध्वः अवस्ता अभीताः सन्त; पदं चरणं निधातुं स्थापयितुं कथं पारयन्ति समर्था जायन्ते । न कथमपीत्यर्थः । पारयन्तोऽपि समर्था भवन्तोऽपि स्वकार्यस्य पारवश्यन परतन्त्रत्वेन नश्यन् विवेको येषां तथाभूता, सन्तः काश्यपीभुजां पृथिवीपतीनां पाश्र्व समीपं कथमपि केनापि प्रकारेग आक्ष यितुं प्राप्तुम् आश्रयाशोऽग्निस्तदतिशायिनी या शक्तिस्तया प्रज्वलन देदीप्यमानो योऽस्थानरोषस्तेन भीषण १५ भयावहां तेषां पृथिवीपतीनां वाचं गिरं बृहस्पतिदेश्या अपि सुरगुरुकल्पा अपि शुका व कारविहगा इव स्वयम अप्रेरिता पुष अनुवन्ति समर्थयन्ति । चेतस्विनो मनस्विनो जनाः चदपि यद्यपि परितः समन्तात् परहितपरतया परकल्याणोन्मुखतया विरसीकृस्य स्नेहामावं कृत्वा निरसनैकत्तानं तिरस्कारप्रधानं वचनं वदन्ति कथयन्ति तथापि चचनीयधुराया निन्दाभारस्य धरणे क्षमाः समर्धाः क्षमापसयो राजानः क्षितितलस्य पृथिवीतलस्य प्राप्तिक्षणे प्राप्स्यवसरे समारोपितः समुचटितो यः प्रतापज्वरस्तस्य रयण वेगेन बधिरिती २० श्रवणशक्तिरहितौ कृतौ कणों येषां तथाभूता इव तद् वचनं नावकर्णयन्ति न शृण्वन्ति । कथंचित्केनापि - प्रकारेण आकर्णयन्तोऽपि शृण्वन्तोऽपि मधुमदन मदिरामोहेन मत्ता या मुत्तकाशिन्यः सुन्दर्यस्तासां वदनानि मुखानि तेषां शीधुसंपर्केण मदिरासंपर्केण शिथिलता मन्दीभूता चित्तवृत्तियेषां तथाभूता इव नूनं निश्चयेन अदत्तावधाना अहकामयाः स्वहितोपदेशकारिणः स्वकल्याणपथप्रदर्शकान् सूरीनाचार्यान् 'पण्डितः सरिराचार्य' इति धनंजय', खेदयन्तो दुःखीकुर्वन्त: तदुकं सूयुकं नानुतिष्ठन्ति न कुर्वन्ति । अनुतिष्ठन्तोऽपि २५ राजाओंके सभामण्डपोंके प्रदेश दुर्जन रूपी काँटोसे व्याप्त रहते हैं अतः सज्जन पुरुष निःशंक होकर उनमें पैर रखने के लिए कैसे समर्थ हो सकते हैं ? यदि समर्थ भी होते हैं तो अपने कार्यकी परवशतासे उनका विवेक नष्ट होने लगता है और वे बृहस्पतिके तुल्य होनेपर भी किसी तरह राजाओंके समीप आश्रय पानेके लिए अग्निको भी अतिक्रान्त करनेवाली शक्तिसे प्रज्वलित अनवसर क्रोधसे भयंकर उन्हींके घचनोंका तोताओं के समान स्वयं अनुवाद करने ३० लगते हैं-उन्हीं के स्वर में अपना स्वर मिला देते हैं। यदि कोई तेजस्वी मनुष्य सब ओरसे परहित में तत्पर होने के कारण निराकरण प्रधान वचनोंकी उपेक्षा कर उपदेशके वचन कहते भी हैं तो निन्दाका भार धारण करने में समर्थ राजा, पृथिवीतलकी प्राप्तिके समय चढ़े हुए प्रताप रूप ज्वरके वेगसे कान बहरे हो जाने के कारण ही मानो उसे सुनते नहीं हैं। किसी तरह सुनते भी हैं तो मदिराके नशासे मत्त सुन्दरी स्त्रियोंके मुखकी मदिराके संपर्क से चित्तवृत्तिके ३५ शिथिल हो जाने के कारण ही मानो उस ओर ध्यान नहीं देते और अपने लिए हितका उपदेश ___ करनेवाले विद्वानोंको खेद-खिन्न करते हुए उनके कहे अनुसार आचरण नहीं करते। यदि करते १. तेजस्विनः म०।
SR No.090172
Book TitleGadyachintamani
Original Sutra AuthorVadibhsinhsuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1968
Total Pages495
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy