________________
५
[ ५७-५८ आर्यनन्दिगुरुणा -
$ ५७. अथ शिक्षावचनतीक्ष्णाङ्कुशनिपातनिवृत्तसंरम्भमेनं समदमिव मातङ्गं प्रियवचनेन प्रकृतिमानीय विनतविरोधियोवनवित्तमत्त बनानर्थं प्रदर्शनपटीयसीं वाचमाचार्य: स चतुरमभिधातुमारेभे ।
१०६
गद्यचिन्तामणिः
५८. वत्स, बलनिषूदनपुरोधसमपि स्वभावतीक्ष्णया धिषणया धिक्कुर्वति सर्वपथीनपाण्डित्ये भवति पश्यामि नावकाशमुपदेशानाम् । तदपि कलशभव सहस्रेणापि कबलयितुमशक्य: प्रलयतरणिपरिषदाप्यशोष्यो योवनजन्मा मोहमहोदधिः । अशेषभेषजप्रयोगवैफल्य निष्पादनदक्षो लक्ष्मीकटाक्षविक्षेपविसर्पी दर्पज्वरः । पुरोवर्त्यपि वस्तु न विलोकयितुं प्रभवतः प्रभूतैश्वर्यमदकाचकञ्चुक्तिरोचिषी चक्षुषी । मन्दीकृतमणिमन्त्रौषधिप्रभावः प्रभावनाटकनटनसूत्रधारः स्मयाप
§ ५७. अथेति—- अथानन्तरम् शिक्षावचनमेव तीक्ष्णाङ्कुशो निशितसृणिस्तस्य निपातेन निवृतो १० दूरीभूतः संरम्भः क्रोधो यस्य तं तथाभूतम् एनं जीवंधरं समदं मदस्त्राविणं मातङ्गमिव गजमित्र प्रिय
वचनेन प्रीतिपूर्णवस्था प्रकृतिं स्वस्थताम् आनीय प्रापय्य विनयविरोधिम्यां यौवनवित्ताभ्यां तारुण्यधनाभ्यां मत्ता उद्दण्डस्वभावा ये जनास्तेषामनर्थानां प्रदर्शने प्रकटने पटीय सीमतिशयेन पचों वाचं वाणीभू, स पूर्वोक्त आचार्यो गुरुः चतुरं यथा स्यात्तथा अभिधातुं कथयितुम आरेभे तत्परोऽभूत् ।
५८. वत्सेति - वस्स, स्त्रभावेन निसर्गेण तीक्ष्णा तथा तथाभूतया धिषणया बुबुधा बलनिषद१५ नस्य पुरन्दरस्य पुरोधास्तमपि पुरोहितमपि धिक्कुर्वति तिरस्कुर्वति सर्वपथीनं सर्वतोमुखं पाण्डित्यं यस्य तस्मिन् भवति भवद्विषये उपदेशानां हितवाक्यानाम् अवकाशमवसरं न पश्यामि यद्यपीति शेषः । तदपि तथापि यौवनाज्जन्म यस्य तथाभूतो मोहमहोदधिः मोहमहासागरः कलशभवसहत्रेणापि अगस्त्यषिसहस्रेणापि कवलयितुम् अशक्यः प्रलयतरणिपरिषदापि कल्पान्तसूर्यसमूहेनापि अशोध्यः शोषवितुमनः । लक्ष्म्या राज्यश्रियाः कटाक्षाणां विक्षेपेण विसपतीत्येवंशीको दर्पज्वरो गर्वश्वरः अशेषभेषजानां निखिलौष२० धान प्रयोगस्य बैफहयं नैरर्थक्यं तस्य निष्पादने दक्षः समर्थः अस्तीति शेषः । प्रभूतस्य विपुलस्य
ऐश्वर्यस्य मद एव काचो नेत्ररोगविशेषस्तेन कबुकितं समावृतं रोचिदतिर्ययोस्ते तथाभूते चक्षुषी कोचने पुरोवत्यपि पुरस्ताद् वर्तमानमपि वस्तु धिलोकयितुं न प्रभवतः समर्थे न जायेते । समय एवापस्मार इति स्मयापस्मारः गर्वापस्मारो मन्दीकृतो मणिमन्त्रौषधीनां प्रभावो येन तथाभूतः, प्रभाव एव नाटकं तस्य
५७. तदनन्तर शिक्षावचन रूप तीक्ष्ण अंकुश के पड़नेसे जिनका क्रोध दूर हो गया २५ था ऐसे मदसहित हाथीके समान कुमारको प्रिय वचनोंसे शान्त कर आचार्य महाराज बड़ी चतुराई के साथ, विनयके विरोधी यौवन और धनसे मत्त मनुष्योंके ऊपर आनेवाले अनथके दिखाने में अत्यन्त निपुण वचन कहने लगे
५८. उन्होंने कहा कि वत्स ! आप स्वभावसे तीक्ष्ण बुद्धिके द्वारा इन्द्रके पुरोहितबृहस्पतिको भी तिरस्कृत कर रहे हैं तथा आप सर्वपथीन - सर्व पदार्थोंको विषय करनेवाले ३० पाण्डित्य से सहित हैं अतः आपमें उपदेशोंका अवकाश नहीं देख रहा हूँ। तथापि यौवन से उत्पन्न मोहरूपी महासागर, हजारों अगस्त्य ऋषियोंके द्वारा भी नहीं पिया जा सकता और प्रलय कालीन सूर्योके समूहसे भी नहीं सुखाया जा सकता। लक्ष्मीके कटाक्षों के प्रसार से फैलनेवाला गर्व रूपी अवर, समस्त औषधियोंके प्रयोगकी निष्फलता करने में समर्थ है । अत्यधिक ऐश्वर्य से उत्पन्न गर्न रूपी काचसे व्याधिविशेषसे जिनकी कान्ति रुक गयी हैं ऐसे नेत्र सामने ३५ रखी हुई भी वस्तुको देखनेके लिए समर्थ नहीं होते हैं। प्रभाव रूपी नाटकके अभिनय के लिए