________________
2
तस्योपदेशः ]
द्वितीयो कम्मः
गर्हितं क्षयैकशरणशरीरजीविकामात्रमास्थानवशीकरणचतुरचतुर्विधपाण्डित्यलाभं च शास्त्रावगतेः प्रयोजनमाकलयन्तः केवलं विक्रीणानाः प्रकृष्टमूल्यानि मुष्टयन्धसे मुक्ताफलानि नाफला इव विफल प्रयासाः प्रेक्षावदुपेक्ष्यतां कक्षीकुर्वन्ति । दुर्लभाः खलु हेयोपादेयपरिज्ञानफलाः शास्त्रावगतीनिश्चिन्वाना विपश्चितः । ततः प्रत्यासन्नभव्यो भवान्भवान्धकारविहरणरजनीमुखं रागद्वेषादिरूपं यं विलयविरहितनिरवधिकानन्दमूलकन्दं श्रीरत्नत्रयाभिधानं धनमुपादेयं च यथावदवगम्य गार्हस्थ्यधममनुष्ठेयमनुष्ठातुमर्हति' इति ।
५६. एवं गुरूपदेशपरिगृहीतसमुचित सम्यग्दर्शनज्ञानचारित्रस्य सकलरहस्योपदेशनिक्षेप
१०३
५
प्राशजनहितं विद्वज्जननिन्दितं क्षय एव विनाश एवं एकं शरणं यस्य तथाभूतं यच्छरीरं तस्य जीविकामा भरणोपायमात्रम्, आस्थानस्य समाया वशीकरणे चतुरं निपुणं यच्चतुर्विधपाण्डित्यं चतुर्मुखयं तस्य लाभस्तं च शास्त्रावगतेः शास्त्रज्ञानस्य प्रयोजनम् आकलयन्तो मन्यमानाः केवलं मात्रं मुष्ट्यन्धसे मुष्टिप्रमितान्नाथ प्रकृष्टमूल्यानि महार्षाणि मुक्ताफलानि मौक्तिकानि विक्रीणाना नाफला इव व्याधा इव विफलप्रयासा मोघप्रयत्नाः सन्तः प्रेक्षावतां बुद्धिमताम् उपेक्ष्यतामनादरणीयताम् कक्षोकुर्वन्ति अङ्गीकुर्वन्ति । दुर्लभा इति - हेयोपादेययोस्त्याज्यात्माज्यपदार्थयोः परिज्ञानमेव फलं प्रयोजनं यासां ताः शास्त्रावगतीः शास्त्रज्ञानानि निश्चिन्वानाः प्रतियन्तो विपश्चितो विgiसः खलु निश्वयेन दुर्लभाः सन्तीति शेषः । ततस्तस्मात् कारणात् प्रत्यासन्नमन्यो निकटमन्यो १५. भवान् भव पुत्र संसार एवान्धकारस्तिमिरं तस्य विहरणाय रजनीमुखं प्रदोषं रागद्वेषादिरूपम् इष्टपदानुकूल परिणामो रागः, अनिष्टपदार्थेषु प्रतिकूल परिणामो द्वेषः वदादिरूपं हेयं स्याज्यं विकयविरहितोऽविनाशी निरवधिक समय मानन्दस्तस्य मूलकन्दं मूलनिमित्तं श्रीरत्नश्रयाभिधानं सम्यग्दर्शनसम्यग्ज्ञानसम्यक्चास्थिनामधेयं धनम् उपादेयं ग्राह्मं च यथावद् यथार्थतया अवगम्य बुद्ध्वा गार्हस्थ्यधर्मा गृहिधर्मानुकूलम् अनुष्ठातुं योग्यमनुष्ठेयम् भाचारम् अनुष्ठातुं कर्तुम् अर्हति योग्यो २० वर्तते' इति ।
५६. एवमिति एवमनेन प्रकारेण गुरूपदेशेन परिगृहीतानि सम्यकप्रकारेण एतानि समुचितानि योग्यानि सम्यग्दर्शनज्ञानचारिश्राणि येन तथाभूतस्य, सकल रहस्योपदेशानां निखिलगूढतत्रोपदेशानां
१०
और इन्द्रियों के दासके दीक्षा के प्रारम्भके समान यह समस्त प्रयास व्यर्थ है । इस संसार में कोमल बुद्धिको धारण करनेवाले कितने ही लोग, बुद्धिमानोंके द्वारा निन्दित, नश्वर शरीरकी २५ जीविका मात्र और सभाको वश करने में चतुर चार प्रकारके पाण्डित्य की प्राप्ति कर लेना ही शास्त्रज्ञानका प्रयोजन समझते हैं। ऐसे लोग केवल मुट्ठी भर अन्नके लिए बहुमूल्य मुक्ताफलों को बेचनेवाले किरातोंके समान निष्प्रयत्न होते हुए विद्वानोंकी उपेक्षाको स्वीकृत करते हैं - विद्वानों की दृष्टिमें अनादर के पात्र होते हैं। वास्तव में हेय और उपादेयके परिज्ञान रूप फलसे युक्त शास्त्रज्ञानका निश्चय करनेवाले विद्वान् दुर्लभ हैं- जो विद्वान् ३० शास्त्रज्ञानका प्रयोजन हेय और उपादेयका ज्ञान होना गानते हैं वे दुर्लभ हैं। अतः आप संसार रूप अन्धकारके फैलने के लिए रात्रिके प्रारम्भके समान राग-द्वेषादि रूप हेय और अविनाशी - अनन्त आनन्द के मूल कारण रत्नत्रय रूप धनको उपादेय समझकर गृहस्थ धर्म के अनुरूप आचरण करने के योग्य हैं। आप निकट भव्य हैं ।'
५६. इस प्रकार गुरु के उपदेशसे जिन्होंने अनुरूप सम्यग्दर्शन, सम्यग्ज्ञान और ३५ सम्यक्चारित्र को अच्छी तरह ग्रहण किया था तथा जो समस्त रहस्यका उपदेश रखनेके क्षेत्रके