________________
- स्ववृत्तान्तकथनम् ] लायप्रथमो लम्भः सलिलबुद्रुदसहचरा न सन्ति चिरावस्थायिनः संसारविभ्रमाः। तरुतलपुञ्जिताः पर्णराशय इव प्रबलपवनपरिस्पन्देन सुकृतपरिक्षयेण तत्क्षण एव नश्यन्ति संगताः संपदः । पाकशासनशरासनमिव विशरारु नानारागपल्लवोल्लासविलासोपवनं यौवनम् । जीवितं तु किमिदानीमुद्भाविन्यपि समये स्थायीति जगति न केनापि निश्चेतुं पार्यते । कथमपि कालं कंचिदवस्थितिमाजोऽप्यायुषः क्षय एव नियतः । तदेतत्सर्व स्वयमेव यास्यति । वयमेव निरस्यामः' इति विचार्य विनश्वरश्रीविलास- ५ पराङ्मुखः परनिरपेक्षं निरनभिकमनुमाथिक' च सुसमभवितुमि मन्त्रशिरसि निवेश्य राज्यभार भवसंज्वरपरिहरणविचक्षणां जिनदीक्षा प्राविक्षत् । चक्षुषी यस्य तस्मिन् शोभातिशयदर्शनसमुस्थविस्मयनिभृतनयने तस्मिन् लोकपाले पश्यत्येव विलोकमान एवं नैशान्धकारस्य रजनीतिमिरस्य सोदरः सहोदरः सदृश इति यावत् स पयोधरो जलधरः तरक्षण एव दर्शनकाल एव ननाश नोऽभूत् । तदवलोकनेति-नस्य पयोधरस्यावलोकनेन जनितो निवेदो वैराग्यं १० यस्य तथाभूतः स नृपः 'सर्वधा सर्वप्रकारेण सलिलबुबुदसहचरा जलबुदबुदसदृशाः संसारविनमा भवविलासाः चिरावस्थायिनो दीर्घकालस्थायिनो न सन्ति । तरुतले वृक्षाधस्तात् पुजिता राशीभूताः पर्णराशयः शुष्कपत्रसमूहाः प्रवलपवनस्य प्रबरूसमीरस्य परिस्पन्दनेनेव संचारेणेव सुकृतपरिक्षयेण पुण्यविनाशेन संगताः प्राप्ताः संपदः तत्क्षण एवं तत्काल एवं नश्यन्ति नष्टा मवन्ति । नानारागाः पुत्रमित्रकलत्रप्रभृत्यनुरागा एव पल्लकाः किसलयास्तेषामुल्लासे नवनवीकरणे विलासोपधनं केलिकाननं तथाभूतं यौवनं तारुण्यं पाकशासनशरासनमित्र शक्रधनुरिव विरारु नश्वरम् । जीवितं तु जीवनमपि, इदानों कि सांप्रतं किम् उमाविन्यपि आगामिन्यपि समये स्थाथि स्थिरम् इति न केनापि अनेन निश्वेतुं पायते शक्यते। कथमपि केनापि प्रकारेण कंचिरकालं कमपि समयं यावत् अवस्थितिभाजोऽपि स्थिरस्थापि आयुषो जीवनस्य क्षय एवं विनाश एवं नियतो निश्चितः । तत् तस्मात् कारणान् एतद् दृश्यमानं स्वयमेव स्वत एवं यास्यति गमिष्यति नक्ष्यतीत्यर्थः । वयमेव निरस्यामः त्यजाम' इति विचार्य .. विमृश्य विनश्वरश्रिया मकरराजलक्ष्मी विलासात्परामुखो विमुरू: सन् परनिरपेक्षं स्वायत्तं निरवधिक निरन्तम् अनुपाधिकमुपाधिरहितं सुखम् अनुमचितुमिच्छन् पुत्रशिरसि सुतमूर्ध्नि राज्यमारं निवेश्य स्थापयित्वा भवसंज्वरस्य भवव्याधेः परिहरणे विचक्षणा नियुणा तां तथाभूतां जिनदीक्षां निनन्धमुद्रा प्राविक्षत् प्रविवेश स्वीचकारेति यावत् । गया । उस नश्वर मेषके देखनेसे जिसे वैराग्य उत्पन्न हो गया था ऐसा राजा विचार करने लगा कि ये संसारके विषय सर्वथा पानीके बबूलेके समान हैं इनमें कोई भी चिरकाल तक स्थिर रहनेवाले नहीं हैं। जिस प्रकार प्रबल पवनके चलनेसे वृक्ष के नीचे स्थित पत्तोंकी राशियाँ नष्ट हो जाती हैं उसी प्रकार पुण्यके क्षीण होनेसे प्राप्त संपत्तियाँ तत्काल नष्ट हो जाती हैं। नाना प्रकार के रागरूपी पल्लवोंको उल्लसित करनेके लिए क्रीडावनके समान जो यौवन है वह इन्द्रधनुपके समान नश्वर है। जीवन इस समयकी क्या बात आगामी समयमें भी स्थिर रह सकेगा यह निश्चय किसीके द्वारा नहीं किया जा सकता ? जो किसी तरह २० कुछ काल तक स्थित रहता भी है उसकी भी आयुका क्षय निश्चित होता है । क्योंकि यह सब स्वयं ही नष्ट हो जायेगा इसलिए ही इसे हम छोड़ देते हैं' इस प्रकार विचार कर विनश्वर राजलक्ष्मीके विलाससे विमुख हो परनिरपेक्ष, सीमारहित और स्वाभाविक सुख के उपभोगकी इच्छा करता हुआ वह राजा पुत्रके शिरपर राज्यका भार रख संसाररूप ज्वरको .. दूर करने में निपुग जिनदीक्षामें प्रविष्ट हुआ-उसने जिनदीक्षा ले ली।
१. ग० अनुपादिकम् । २. क० सुखमनुभवितुमिच्छुः ।