________________
- विद्याध्ययनम् ] लाय"प्रथमो लम्भः कायवस्तुवास्तवावबोधसिद्धयुपायमपि सिद्धान्तं यथावदध्यैष्ट । अधिष्ठाय पृष्टपीठमतिकठोरकुम्भतटनिवेशिताङ्कुशनखरः कुर्वन्नुर्वीधर मित्र जङ्गमं मातङ्गमपगतमदचापलमात्मवशगामिनमनन्यसुलभपराक्रमपरिशङ्कितां प्रकटीचकार राजसिंहता राजकुमार: । अतिरभसचटुलखुरपुटबिदलितधरणोरङ्गेण तुरङ्गेण युगपदाक्रमन्दिशां चक्रमक्रमेण निखिलनिजराज्यहरणदक्षमात्मानमनक्षरमभाषिष्ट । अनवरतयोग्यापरेण कूमारेणारूढः प्रतिभटमनोरथानपि धरामिब दारयिष्याम्यचिरादिति ५ कथयन्निव रथश्चक्रचीत्कारव्याजेन व्यराजिष्ट। आकर्णाकृष्टः कणे समुपदिशनिव मौर्वीस्वनेन समरविजयकलामविरलशरासारवर्षी राजसूनोरलक्ष्यत लक्ष्यभेदचतुरस्य चापदण्डः । आरम्भसमय विस्तारो येषां तथाभूता ये पवास्तिकाया जीवपुद्गलधर्माधर्माकाशद्व्याणि त एव वस्तूनि पदार्थास्तेषां वास्तवावयाँधस्य यथार्थज्ञानस्य या सिद्धिस्तस्या उपायं हेतुभूतं सिद्धान्तमपि सिद्धान्तशास्त्रमपि यथावत् यथार्थम् अध्यष्ट पठितवान् । अधिष्ठायेति-पृष्ठपीठं पृष्टासनम् अधिष्ठाय तन्न स्थितो भूत्वा अतिकठोरे. १० ऽतिकको कुम्भतटे गण्डस्थल पावें निवेशितं स्थापितमङ्गुशनखरं सृणिभूतनखं येन तथाभूतः सन् जङ्गमं गतिशीलम् उवीधरमिध पर्वतमिव विशालमिति यावत् , भातनं गजम् अपगतं विनष्टं मदचापलं मदजन्यचाचल्यं यस्य तम्, आत्मवशं गच्छतीत्येवं शीलस्तं तथाभूतं कुर्वन् राजकुमारो जीवंधरः, अनन्यसुलभेन इतरजनदुष्प्राप्येण पराक्रमेण सामध्यन परिशतितां शङ्काविषयीकृतां राजसिंहतां नृपतिश्रेष्टता प्रकटीचकार प्रकटयामास । अतिरभसेति-अतिरमसेन तीनवेगेन चटुलैश्चपलैः खुरपुटैः शफपुटैर्विदलित: खण्डितो १५ धरणोरङ्गो भूमितलं येन तेन तुरङ्गेण हयेन युगपदेककालावच्छेदेन दिशां चक्र काष्ठानां वलयम् आक्रमत् आक्रान्त कुर्वन् आत्मानं स्वम् , अक्रमण युगपत्, निखिल समस्तं यनिजराज्यं स्वकीयसाम्राज्यं तस्य हरणे स्वायत्तीकरणे दक्षं समर्थम् , अनक्षरम् एकमप्यक्षरमनुक्त्वेति यावत् अभाषिष्ट कथयामास । अनवरतेति-अनवरतं निरन्तरं योग्यायां गुणनिकायां पुनः पुनरभ्यासकरण इति यावत् परेण सकेन कुमारण जीवधरेण आरूढोऽधिष्ठितो रथः, चीत्कारच्याजेन अव्यक्तशब्दविशेषग्छलेन घरामिव पृथिवीमिव प्रतिमटमनोरथानपि शत्रवान्छितान्यपि अचिराच्छीघ्रमेव दारयिष्यामि खण्डयिष्यामि, इति कथयन्निव व्यराजिष्ट शशों 1 आकाँका इति-लक्ष्याणां शरव्याणां मंद विदारणे चतरो विदग्धस्तस्य राजसनो नरेन्द्रनन्दन स्थ जीवंधरस्य अविरल शरासारं निरन्तरबाणसंगतं वतीत्येवं शील. चापदण्डो धनुर्दण्डः कर्णमभिव्याप्ये
स्तिकाय आदि वस्तुओं के वास्तविक तत्वज्ञानकी सिद्धि के उपायभूत सिद्धान्तशास्त्रको भी उन्होंने अच्छी तरह पढ़ा था। जब कभी राजकुमार हाथीकी पीठरूपी आसनपर बैठकर २५ उसके अत्यन्त कठोर गण्डस्थल के तट में तीक्ष्ण अंकुशके समान नारखूनको गड़ा देते थे और चलते-फिरते पर्वतके समान उस हार्थीको मदसम्बन्धी चपलतासे रहित एवं इच्छानुकूल गमन करनेवाला बनाकर अनन्य सुलभपराक्रमसे शंकित अपनी श्रेष्ठ सिंहता अथवा श्रेष्ठ राजताको प्रकट करते थे। भावार्थ इनके अन्य जन दुर्लभ पराक्रमको देखकर लोग शंका करने लगते थे कि क्या यह राजाका पुत्र हैं! अत्यन्त चञ्चल खरपुटके द्वारा प्रथिवी तलको ३० खोदनेवाले घोड़ेसे एक साथ समग्त दिशाओंपर आक्रमण करता हुआ वह अपने-आपको चुपचाप अपने समस्त राज्य के छीनने में समर्थ बतलाता था । निरन्तर अभ्यासमें तत्पर कुमार के द्वारा अधिष्ठित रथ, चक्रके चीत्कार शब्दके बहाने 'मैं पृथिवी के समान शत्रुओंके मनोरथोंको भी झीव्र ही विदीर्ण कर दूंगा' यह कहता हुआ सुशोभित होता था। लक्ष्यके भेदनेमें चतुर राजपुत्र जीवन्धर कुमारका कान तक खिचा एवं लगातार बाणोंकी वर्षा करने. ३५
१. फ० चक्रमनुक्रमेण ।