________________
-४१ जीवन्धरस्य नामकरणम् ] प्रथमो लम्मा
४१. अजः स तु काष्ठाङ्गार: स्वराज्यलाभजन्मना हर्षेण विहितोऽयमुत्सव इति मन्वानस्तस्मै सगौरवं कुरुकुलमहीपालपरम्परापरिपालितमखिलमपि राजकोशमदिशत् । आदिशच्च तदपेक्षया तत्क्षणे तन्नगरजांश्च जातान्गन्धोत्कटगृह एव तत्सुतेन सह संवर्धयितुम् । तदेवं स्वापतेयेनैव स्वकीयेन सहितस्याहि सप्तमे सप्तसप्तिसमतेजसस्तनयस्य जीवन्धर इति प्रथमसंकल्पितं नाम चकार चक्रवर्ती वणिजाम् ।
६४२. ततश्च क्रमेण तैश्च समानवयोभिर्वयस्यैरनु जैन सुनन्दानन्दनेन नन्दाढयेन सममाट्यारिबुढस्य गन्धोत्कटस्य सअनि वत्मनि दिविषदामोषधीनाथ इव नक्षत्रः, पाकशासनवेश्मनि पारिजात इव कल्पद्रुमैः, उदन्वति कौस्तुभ इन मणिभिरनुवासरं वर्धमानलावण्यः पुण्येन
४१. अज्ञः स त्वति--तु किन्तु अज्ञो विवेकशून्यः स काष्टाङ्गारः स्वराज्यस्य लाभाजन्म यस्य तेन स्वकीयराज्यमाप्तिसमुत्पन्चेन हर्षेण भयमुत्सवो विहितः कृत इति मन्यानो सम्यमानस्तस्मै गन्धोत्कटाय १० कुरुकुलस्य कुरुवंशस्य महीपालपरम्परा भूपालसन्ततिस्तया परिपालितं रक्षितम् अखिलमपि समग्रमपि राजकोशं नृपतिनिधानम् अदिशत् ददौ। तदपेक्षया गन्धोत्कटानुरोधेन च तन्क्षणे तत्समये सन्नगरजान् तनगहुँत्पन्नान् जातान् पुन्नान् गन्धोत्कटगृह एष तरसुतेन श्मशानप्राप्तेन सह संवर्धयितुं पोषयितुम् आदिशत् आज्ञपयामास । तदेवं तदित्थं स्वकीयेनैव स्वापतेयेन धनेन सहितस्य सससप्तिसमं सूर्यसलं तेजो यस्य तस्य तनयस्य सप्तमेऽह्नि दिवसे पणिजां चक्रवर्ती प्रधानो गन्धोत्कटो वणिक्पति रिति यावत् 'जीवन्धर' । इति प्रथमसंकल्पितं पूर्वनिश्चितं नाम चकार ।
४२. ततश्चेति-ततश्च तदनन्तरं च क्रमेण समान वयो येषां तैर्वयस्यैः सखिमिः अनुजेन लघुसहोदरेण सुनन्दाया गन्धोत्कटपरन्या नन्दनस्तेन नन्दायेन तन्नाम्ना समं सार्धम् आग्यपरिवृहस्य वैश्यरसे: गन्धोकटस्य समनि भवने दिविषदां देवानां वर्मनि मार्गे गगन इत्यर्थः नक्षत्रैः समम् ओषधीनाथ इन चन्द्र इव, पाकशासनस्य पुरन्दरस्य वेश्मनि मवने कल्पद्रुमैः सार्ध पारिजात इव कल्पवृक्ष इव, २० उदन्वति सागरे मणिभिः सह कौस्तुभ इव कौस्तुममणि स्वि अनुवासरं वासरं वासरं प्रति अनुवासरं वर्धमान लावण्यं यस्य स एवंभूतो जीवन्धरः प्रजानां पुण्येन अवधंत वृद्धि जगाम । प्रतिदिवसं प्रतिवासरम्
४१. उधर मूर्ख काष्ठांगारने समझा कि यह उत्सब हमारे लिए राज्यकी प्राप्तिसे उत्पन्न हर्ष के कारण किया गया है इसलिए उसने कुरुवंशकी राजपरम्परासे परिपालित सबका-सब राजखजाना गन्धोत्कट को दे दिया। साथ हो गन्धोत्कटके कहे अनुसार उसने २५ यह आज्ञा भी दे दी कि उस समय उस नगरमें जितने बालक उत्पन्न हुए हों उन सबका गन्धोत्कट के घरमें ही उसके पुत्रके साथ लालन-पालन हो । इस प्रकार अपने ही धनसे सहित एवं सर्यके समान तेजके धारक उस पुत्रका वैश्यपंतिने सातवें दिन पहलेसे ही संकल्पित 'जीवन्धर' यह नाम रखा ।
४२. तदनन्तर क्रमसे समान अवस्थावाले उन मित्रों और छोटे भाई सुनन्दाके पुत्र ३० नन्द्रायके साथ वैश्यशिरोमणि गन्धोत्कटके घर, जीवन्धर, प्रजाओंके पुण्यसे उस प्रकार बढ़ने लगे जिस प्रकार कि आकाशमें नक्षत्रों के साथ चन्द्रमा बढ़ता है, इन्द्र के घर कल्पवृक्षोंके साथ पारिजात बढ़ता है, और समुद्रमें अनेक मणियोंके साथ कौस्तुभ मणि बढ़ता है। उस
१. क० ख० ग० अथाज्ञः । २. क० 'स तु नास्ति । ३. क० ख० ग० चकारो नास्ति । ४, क खः ग० पाकशासनपारिजात इव ।