________________
६५ गयचिन्तामणिः
[ २९ राश्यः - विधुतधवलचम रबालपवननर्तितचेलाञ्चलम्, अन्तिकणिदर्पणप्रतिबिम्बनिभेनानङ्गसुखानुभवाय नालमेकेनेति देहान्तरमिव धारयन्तम्, अनवरतताम्बूलसेवाद्विगुणितेन स्फुटितबन्धुजीवलोहितिमसुच्छायेन दशनच्छदालोकेन प्रभूततया मनस्यमान्तं रागसंभारमिब बहिरुद्वमन्तम्, निजमुखलक्ष्मीदिदृक्षोपनतेन क्षोरजलराशिनेव स्निग्धधवलगम्भीरेण कटाक्षेण विकसितपुण्डरीकदलनिवघवलित५ मिव सं प्रदेशं दर्शयन्तम्, नृत्तरङ्गमिव शृङ्गारनटस्य निवासप्रासादमिव विलासस्य साम्राज्यमिव सौभाग्यस्थ संकल्पसिद्धिक्षेत्रामव कंदयस्य साराभव संसारस्य दृश्यमानं मानवेश्वरं विश्वभरातलविनमितमोलिरभिप्रणम्य प्रतीहारः सप्रश्रयमब्रवीत्
व्याप्तो मूर्धा यस्य तम् । उभयसविधगतयोस्तटद्वयस्थितयोर्वारयुवत्योविलासिन्योः करत लाभ्यां विधुताः
कम्पिता ये धवलचमरवालाः शुक्ल चमरकेशास्तेषां पवनेन वायुना नर्तितानि चेलाञ्जलानि वस्त्राबलानि १० यस्य तम् | अन्तिके समीपे विद्यमानो यो मणिदर्पणस्तस्मिन् प्रतिबिम्ब प्रतिफलनं तस्य निभेन ब्याजेन
अनङ्गसुखानुभवाय कामसुखोपभोगाय एकेन देहेन भलं समर्थो न इति हेतोः देहान्तरं शरीरान्तर धारयन्तमिव । अनवरतं निरन्तरं ताम्बूलसेवया नागवल्लीदलमक्षणेन द्विगुणितस्तेन, स्फुटितानां विकसितानां बन्धुजीवानां रक्तवर्णपुष्पविशेषाणां यो लोहितिमा रक्तिमा तस्य सुच्छायेन सुन्दरेण, दशनच्छदालोकेन
ओष्टारुणप्रकाशेन प्रभूततया प्रचुरतया मनसि चेतसि अमान्सं रागसंभारं बहिरुदमन्तमिव प्रकटयन्तमिव । १५ निजमुखस्य स्वकीय वदनस्य या लक्ष्मीः क्षीरोदजा तस्या दिक्षया अबलोकनेछयोपनतः समुपस्थितस्तेन
क्षीरजलराशिनेत्र क्षीरसागरणेव स्निग्धधबलगम्भीरेण मसृणशुक्लगभीरेण कटाक्षेण अपाङ्गन तं प्रदेश तरस्थानं विकसितानां पुण्डरीकदलानां श्वेतपयोजपत्राणां निवहन समूहन धवलितं शुक्लीकृतमिव दर्शयन्सम् । शृङ्गार एवं नटस्तस्य शृङ्गाररसशैलूपस्य नृत्तरङ्गमिव लास्यस्थानमिव, विलासस्य चेष्टाविशेषस्य
निवासमासादमिव निवासमन्दिरमिद । 'यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् । विशेषस्तु विलासः २० स्यादिष्टसंदर्शनादिना' । इति साहित्यदर्पणे विलासलक्षणम् । खौभाग्यस्य वनिताजनप्रेम्णः साम्राज्यमित्र,
कन्दर्पस्य कामस्थ संकल्पानां सिद्धिक्षेत्रमिव साफल्य स्थानमिव, संसारस्य सारमिव दृश्यमानमवलोक्यमानम् मानवेश्वरं नरेन्द्रं सत्यंधरमहाराजम् , विश्वम्भरातले महीपृष्ठे विनमितो मौलिमूर्धा यस्य तथाभूतः सन् अभिप्रणम्य नमस्कृत्य प्रतीहारीद्वास्थः सप्रश्रयं सविनयम अब्रवीत् ।
ओर स्थित वेश्याओंके करतलसे कम्पित चमरोंकी मन्द-मन्द्र पवनसे जिसके वस्त्रके छोर २५ हिल रहे थे। समीपमें स्थित मणिमय दर्पणमें पड़ते हुए प्रतिबिम्बके बहाने जो 'काम सुखके
उपभोगके लिए एक शरीर पर्याप्त नहीं है, इसलिए मानो दूसरा ही शरीर धारण कर रहा था । निरन्तर पान खानेसे द्विगुणित खिले हुए दुपहरियाके फूलकी लालिमासे सुन्दर ओठके
प्रकाशसे जो प्रचरताके कारण हृदय में नहीं समाते हए रागके समहको मानो बाहर ही ३० उगल रहा था। अपने मुखकी लक्ष्मीको देखनेकी इच्छासे उपस्थित क्षीरसागरके समान
स्निग्ध, सफेद एवं गम्भीर कटाक्षोंसे जो उस प्रदेशको खिले हुए सफेद कमलकी कलिकाओंके समूहसे सफ़ेद जैसा दिखला रहा था। जो श्रृंगाररूपी नटके नृत्यकी रंगभूमिके समान, विलासके निवासभवनके समान, सौभाग्यके साम्राज्यके समान, कामदेव के संकल्पसम्बन्धी सिद्धिके क्षेत्रके समान, और संसार के सारके समान दिखाई देता था, ऐसे राजा सत्यन्धरको पृथ्वीतलमें मस्तक झुकानेवाले द्वारपालने प्रणाम कर विनय-पूर्वक कहा
१.क० ख० ग०-अनुभवनाय !