________________
गयचिन्तामणिः
[२८ सत्यंघरप्रति
२७. तद्वचचनमधिक्षिप्य क्षेपीयः क्षितितलादुत्तिष्ठन्काष्ठाङ्गारस्य श्याल: सालप्रांशुकायः कन्द इव हेयतायाः काष्ठेव काठिन्यस्य काक्षितकाश्यपीपतिनिधनो मथन: 'कथयन्तु कामं काका इव वराकाः । न कदाचिदपि देवेन देवतादेशलपिना भवितव्यम् । भवितव्यताबलं तु
पश्चात्पश्येम । किं च किंकराः खलु नरा देवतानाम् । यदिह देवता: परिभूयन्ते नरापचारचा५ कित्येन सोऽयं पाशदर्शनभयपलायितस्य फणिनि पदन्यासः, करिकलभभीतस्य कण्ठीरवकण्ठारोहः
इति रोषपुरुषमभाषिष्ट । तद्वचनं तु तस्य हृदयं तस्करस्येव कर्णीसुतमतप्रदर्शनं सौगतस्येव शून्यबादस्थापनं परिणतकरिण इवाधोरणानुगुण्यमतितरां प्रीणयामास ।
२८. ततः समोहितसाधनाय काष्ठागारः सचिवेषु प्रतीपगामिषु कतिचिदवधीदपधीः ।
२७. तद्वचन मिति–तद्वचनं धर्मदत्तसचिववचनम् अधिक्षिप्य तिरस्कृस्य, क्षेपीयः शीघ्र' १० क्षितितलात्पृथिवीपृष्टात् उत्तिष्ठन् काष्टाङ्गारस्य श्यालः साल इव सर्जतरुरिव पांशुः समुन्नतः कायो यस्य
तथाभूतः, हेयतायाः त्याज्यतायाः कन्द इव मूलमिव, काठिन्यस्य नैष्ठ्यस्य काष्ठेव सीमेव, काक्षित काश्यपीपतैनिधनं यस्य सोऽभिलषितसत्यं धरमहाराजमरणः, मथन एससामा काका घायसा इव वराका दीनाः काम यथेच्छं कथयन्तु यद्यपि तथापि देवेन भवता देवतादेशविना देवाज्ञाव्यतिक्रमकारिणा
कदाचिदपि जातुचिदपि न भवितव्यम् । मवितम्यताया बलं भाग्यप्रमावं तु पश्चात् पश्येम अवलोकेमहि । १५ किंधान्यत् खलु निश्चयेन नरा देवतानां किङ्कराः सेवकाः सन्ति । नरापश्चारचाकित्येन मनुष्यापकारमीत्या
इह लोके यद् देवताः परिभूयन्ते तिरस्क्रियन्ते सोऽयं पाशस्य रजोर्दशनं तस्माद् भयं तेन पलायितस्तस्य तथाभूतस्य जनस्य फणिनि सर्प पदन्यासश्चरणनिक्षेपः, करिकलभभीतस्य सिंहशावकत्रस्तस्य जनस्य
कण्ठीरवकण्ठारोहो मृगेन्द्रप्रीवारोहणम् इतीत्थं रोषपरुषं क्रोधतीक्ष्णं यथा स्यात्तथा अभाषिष्ट जगाद । . तद्वचनमिति-तद्धनं तु मथनवचस्तु तस्य काष्ठागारस्य हृदयं स्वान्तं कणीसुतमतप्रदर्शनमिव २० कर्णीसुतश्वीयशास्त्रप्रदशकस्तस्य मतस्य सिद्धान्तस्य प्रदर्शनं प्रकटीकरणं तस्करस्येव चोरस्येव, शून्यवाद.
स्थापनं शून्यवादसमर्थनं सौगतस्येव बौद्धस्येव, आधोरणानुगुण्य हस्तिपकानुकूल्यं आधोरणा हस्तिपका 'हस्त्यारोहा निषादिनः' इत्यमरः । परिणतकरिणा इव तिर्यग्दम्तमहारासतगजस्येव अतितरां सातिशयं प्रीणयामास तर्पयामास ।
२८. तत इति--ततस्तदनन्तरम्, अपगता धीर्यस्य सोऽपधीवुद्धिशून्यः काष्टाङ्गारः समीहित२५ साधनाय वान्छितसिद्धयर्थ प्रतीपं प्रतिफूलं गच्छन्तीति प्रतीपगामिनस्तेषु सथाभूतेषु सचिवेषु मन्त्रिषु
६२७. उसकी बात काटकर शीघ्र ही पृथिवीसे उठता हुआ काष्ठांगारका साला मथन, जो कि सागौनके वृक्ष के समान ऊँचा था, हेयताका-घृणाका मानो कन्द था, कठोरताकी मानो अन्तिम सीमा था, और राजा सत्यन्धरका मारा जाना जिसे अभीष्ट था, क्रोधसे कर्कश
स्वरमें बोला कि 'कौओंके समान दीन मनुष्य इच्छानुसार कुछ भी कहते रहे पर आपको . ३० देवताकी आज्ञाका उल्लंघन करनेवाला कभी नहीं होना चाहिए । भवितव्यताका वल पीछे
देख सकते हैं। फिर मनुष्य तो देवताओंके किंकर हैं। मनुष्य कृत अपकार के भयसे यहाँ जो देवताओंका तिरस्कार करना है, वह पाश देखनेके भयसे भागते हुए मनुष्यका साँपके ऊपर पैर रखना है, अथवा हाथीके बच्चेसे भयभीत मनुष्यका सिंहकी ग्रीवापर आरूढ़ होना है।' जिस प्रकार कीसुतके मतका प्रदर्शन चोरके हृदयको, शुन्यवादका स्थापन बौद्धके हृदयको
और महावतका अनुकूलाचरण मदोन्मत्त हाथीके हृदयको अत्यन्त सन्तुष्ट करता है, उसी प्रकार मथनके उक्त कथनने काष्ठांगारके हृदयको अत्यन्त सन्तुष्ट किया ।
६२८. तदनन्तर दुर्बुद्धि काष्ठांगारने अपना मनोरथ सिद्ध करनेके लिए, विरुद्ध जाने