SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ द्विसन्धानमहाकाव्यम् भारतीयः - असौ कीचकः कार्यं जग्राह । कस्य ? भरतान्वयस्य भरतस्य चक्रवर्त्तिनोऽन्वयो यस्य तस्य सोमवंशस्य भीमस्येत्यर्थः । किं कृत्वा १ पूर्वमित्युक्तप्रकारेण ईरयित्वा । आहित कम्पवेगमित्यादीनि क्रियापद - विशेषणानि बोद्धव्यानि ॥ ३० ॥ चकम्पिरे किंपुरुषा भयेन दिशां विनेशुर्नगजा गजाश्र । मर्मप्रहारैः परुषैर्वचोभिस्तयोरभूत्तत्र महान्विमर्दः || ३१ ॥ चकम्पिर इति किंपुरुषाः देवविशेषाः चकम्पिरे कम्पिताः । (क्रेन) भयेन । नगजाः पर्वतजाताः गजाः इस्तिनः विनेशुः विनष्टाः । नकारेण समुच्चयो गृह्यते, तेनायमर्थः दिशां सम्बन्धित्वेन गजाश्च विनष्टाः । तयोः लक्ष्मणशूर्पणखयोः- परपैः कठिनैः वचोभिर्महान् विमर्दों युद्धमभूत् । क्क ! तत्र दण्डकारण्ये । कथंभूतैः ? मर्मप्रहारैः मर्मघातैः । भारतीयः -- भयेन किम् पुरुषाः युधिष्ठिरादयः चकम्पिरे अपि तु न । मर्मप्रहारः कृत्वा, दिशां गजा नगजा गजाश्च किं बिनेलुः १ अपि तु न । कः तयोः कीचक भीमयोर्वचोभिः । तत्र विराटभूमौ । महान् विमर्दोऽभूदिति सम्बन्धः ||३१|| असंस्तुतं प्राप्य ततो निकारं भीमेन तेनोपहतात्मवृत्तिः । देशादयासीन्नियमेन कर्त्तुं पादौ विग्रहपीडियानि ॥३२॥ असंस्तुतमिति । असौ रावणभगिनी अयासीत् गतवती । कस्मात् ? देशात् दण्डकारण्य प्रदेशात् ! किं कर्तुम् ? कर्तुं विधातुम् । कानि ? विग्रहपीडितानि युद्धमर्दनानि । कथम् ? क्षणात् अन्तर्मुहूतात् । न कृत्या ? नियमेन निश्चयेन । कथंभूता सती ? उपहतात्मवृत्तिः उपहतस्वप्रवर्तना । केन कृत्वा ? तेन लक्ष्मणेन । कथम्भूतेन ! भीमेन भयङ्करेण । किं कृत्वा ? पूर्वं प्राप्य । कम् ? निकारं पराभवम् । कथम्भूतम् ? असंस्तुतम् अपरिचितम् । कस्याः १ ततः तस्याः शूर्पणखायाः सकाशादिति सम्बन्धः । समान गर्जती (ता) उस सूर्पणखा अथवा कीचकने भरतके वंश में उत्पन्न लक्ष्मण अथवा भीम शरीरको बलपूर्वक पकड़ लिया था ||३०| किंपुरुष आदि व्यन्तर देव उरसे काँप उठे थे, दशों दिशाओंके पार्वतीय विशाल हाथी भी भाग चले थे तथा उस सूर्पणखा और लक्ष्मणका हृदयको छेदनेवाले कठोर शब्दोंद्वारा महान् वाक्युद्ध हुआ था । लोकोत्तर पुरुष युधिष्ठिर आदि उक्त बातको सुनकर आश्चर्यले क्या काँप उठे थे ? अर्थात् नहीं काँपे थे। क्योंकि कितने ही मर्मभेदी आघात किये जानेपर दिग्गजों के समान उत्तम पार्वतीय हाथी पलायन नहीं करते हैं। इस प्रकार विराट् भूमिमें कीचक और भीमका कठोर और लम्बा संघर्ष हुआ था ॥ ३१ ॥ अन्वय- भीमेन तेनोपहतात्मवृत्तिः ततः असंस्तुतं निकारं प्राप्य असौ क्षणात् नियमेन विग्रहपीडितानि करूं, देशात् अयासीत् । अत्यन्त उग्र लक्ष्मणके द्वारा मनोरथ विफल कर दिये जानेके बाद अत्यन्त निन्दनीय रूपसे अपमानित की गयी वह सूर्पणखा तुरन्त ही; युद्ध के द्वारा इसे निश्चित रूपसे सर्वथा कट देने के संकल्पपूर्वक दण्डक वनसे चली गयी थी । अन्वय- ततः असंस्तुतं निकारं प्राप्य तेन भीमेन उपहतात्मवृत्तिः असौ क्षणात नियमेन विग्रहपीडितानि कर्त्ती देशास अयासीत् । १. श्लेषाऽलङ्कारः-प, द० | २. श्लेषाऽलङ्कारः- प०, ६० ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy