________________
दिसन्धानमहाकाव्यम्
आकारमादाय विनीतवेषं शृङ्गारमारोप्य यथाभिजातम् । कथश्चिदभ्येत्य कृतावगूढं प्रचक्रमे वक्तुमिति प्रसन्नम् ||१६||
आकारमिति - इति वक्ष्यमाणापेक्षया शूर्पणखा कीचकश्च वक्तु भाषितुं प्रचक्रमे प्रारे । कथं यथा प्रसन्नम् । किं कृत्वा ? पूर्वमभ्येत्यागत्य | कथम् ? कथञ्चिन्महता कष्टेन । कथम् ? यथा कृतावगृढ़ किञ्चिलोचने चरणौ च बहिः कृत्वा कृतशरीरावरणं यथा भवति । किं कृत्वा ? पूर्वमारोग्य गृहीत्वा । कम् ? शृङ्गारम् | कथम्भूतम् ? विनीतवेषं विनीतो वेषो यत्र तम् । कथम् ? यथाऽभिजात्तभवसरोचितम् । किं कृत्वा ! पूर्वमाकारकोपप्रसादजनितशरीर प्रकृतिमादाय गृहीत्वा ॥ १६ ॥
७८
जानामि किञ्चिन्त्रपया न वक्तुं विवक्षितं सूचयति व्यवस्था |
सत्यां कियत्यामपि संवृतौ हि दुःखं सुखं वा निगदन्ति चेष्टाः ||१७|| जानामीति - त्रपया लज्जया किञ्चिद्वत्तुं न जानामि न वेद्मिविवक्षितं वक्तुमिष्ट' व्यवस्था दशा कर्त्री सूचयति कथयति । हि स्फुटं कियत्यामपि संवृतौ कल्पनायां सत्यां सुखं दुःखं वा कर्म चेष्टाः प्रवर्त्तनाः निगदन्ति कथयन्ति ॥ १७॥
श्रव्याणि वाचालतयैव तन्व्या त्वया मयोक्तानि मनीषितानि ।
गवाक्षजालीकृतचेतसो मे स्मरस्य वाणैः शरणं भव त्वम् ॥१८॥
श्रव्याणीति-तन्व्या कृशाङ्ग्या मया शूर्पणखया वाचालतयैव मुखरतयैव उक्तान्यभिहितानि मनीषितानि अभिलषितानि स्वया लक्ष्मणेन श्रव्याणि अतएव स्मरस्य मदनत्त्व वाणैः गवाक्षजालीकृतचेतसः छिद्रीकृतमनसः मे त्वं शरणं भव ॥१८॥
शाङ्ग पिनाकं धनुरिन्द्रचापं दिव्यं वहन्तोऽपि न जेतुमीशाः । शरासनं पौष्पमयं दधानस्त्रैलोक्यमालीढगतं करोति ॥ १९ ॥
शार्ङ्गमिति - शार्ङ्ग शृङ्खविकारं धनुः नारायणः पिनाकम् अपि समन्तात् नाके स्वर्गे भवं पिनाक पृष्ठोदरादित्वादाद्यस्य अकारस्य लोपः । लोकप्रसिद्ध पिनाक धनुरीश्वरः, इन्द्रचापं दिव्यं दिवि भवं गगनसमुद्भवं धनुः इन्द्रः, एवमेते हरिहरसुरेन्द्राः स्वकीयं स्वकीयं धनुः कर्मभूतं वहन्तोऽपि त्रैलोक्यं त्रिभुवनं कर्म
शिष्ट वेष बनाकर, कुलीनोंके उपयुक्त शृङ्गार करके तथा प्रसन्न मुखादिकी मुद्रा करके अपने वास्तविक रूपको सर्वथा छिपाकर किसी प्रकारसे लक्ष्मण अथवा द्रौपदीके पास पहुँचकर उस सूर्पणखा अथवा कीचकने निम्न प्रकारसे बातें कहनी प्रारम्भ की श्रीं ॥ १६ ॥
मैं लज्जाके कारण कुछ भी कहना नहीं जानती (ता) हूँ। मेरी शारीरिक दशा ही मेरे भावको स्पष्ट कर रही है। कितना भी छिपानेका भगीरथ प्रयत्न करनेपर प्राणीकी चेष्टाएँ उसके सुख अथवा दुःखको प्रकट कर देती हैं ॥ १७ ॥
कामवेदना कृश शरीर मुझ सूर्पणखाद्वारा वाचालता पूर्वक प्रकट किये गये मनके भाव तुम्हें सुनना ही चाहिये । कामदेवके याणौने मेरे मनको छलनी बना दिया है अतएव आप मुझे शरण देवें ।
पुरुष सुलभ वावदूकता पूर्वक मुझ कीचक द्वारा कही गयी मनकी बातको कृशांगी तुम्हें ध्यान से सुनना चाहिये ॥ १८ ॥
लोकोत्तर (शाङ्ग) सींगसे बने धनुषका धारी तथा स्वर्गीय इन्द्र धनुषधारी देवेन्द्र भी त्रिलोकको जीतनेमें समर्थ नहीं होते हैं किन्तु यह कामदेव केवल फूलोंसे बने धनुषको ही उठाकर तीनों लोकोंको अपने एकतन्त्रमें मिला लेता है ॥ १९ ॥
१. अर्थान्तरन्यासाऽलंकारः - प०, ६० ।