SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ततो वनं देशमनेकमेव पुण्याश्रमं तीर्थमतीत्य राजा । गूढः प्रदीप्त्यारविराटभूमि स्फीतांसको दण्डकलक्षितां सः ॥१॥ तत इति-ततो रामलक्ष्मणसीता सम्बन्धिल्वेन स्वदेशपरित्यागक्रान्तारप्रदेशवर्णनानन्तरं स राजा रामः दाइकलक्षितां भूमिमाट गतवान् । कथंभूतः ? सतीतासकः पीनोन्नतस्कन्धः। पुनः ? रमिरिच रविः अथवा स्वयमेव प्रदीप्त्या क्षात्रतेजसा रविः । पुनः मूढः प्रच्छन्नत्तिकः । लिः कृत्वा ? पूर्व गतवान् रामः अतीत्यातिकम्य । किम् ? बनमरण्यं तथा देश विषयं तथा पुण्याथगं तारसवराति तथा तीर्थम् । येन दृप्टेनाश्रितेन वा अपारसंसारपारावारतीयते तत्तीथ ऊर्जयन्तादि सर्वम् । कथंभूतम् ? विशेष्यभनेकमेव नानाप्रकारमेव । भारतीयः-ततः पाण्डवानां सम्बन्धित्वेन स्वदेशपरित्यागकान्तारप्रवेशवर्णनानन्तरमनेकमेय वनं देशं पुण्याश्रमं तीर्थमतीत्य स जगद्विख्यातो राजा युधिष्ठिरः स्फीतो लोकविख्यातां विराटभूमि मत्स्यदेशमार गतवान् । कथंभूतः १ कोदण्दकलक्षितांसः कोदण्डकेन धनुषा लक्षितः अंसः स्कन्धो यस्य सः । पुनः गूढः संवृतः कया प्रदीप्त्या प्रलापेनेति लोपालङ्कारः ॥५॥ विहाय चापव्यवहारमुग्रं यथा नियोगं प्रयतो जितास्मा । निरूप्य तस्यां स कुलायभूमि योगीव कश्चित समयं निनाय ॥२।। विहायेति-तस्यां दण्डकारण्यभूमौ स रामः कञ्चित्समयं काले निनाय नीतवान् । किं कृत्वा ? पूर्व निरूप्य समयं, का भूमिम् कस्मै ? कुलाय अन्वयाय भरताय । किं कृत्वा ? पुनश्च (च पुनः) विहाय परित्यज्य । कम् ? अपव्यवहारं दुनीतिम् । कथम्भूतम् ? उम्र सोढुमशक्यम् । कथम्भूतो रामः ? जितात्मा जितेन्द्रियः । पुनः प्रयतः प्रयत्नवान् । कथम् ? यथा नियोगं यथा स्वाभिप्रायण नियोगो व्यापारो यत्र कर्मणि तत् यथा नियोगम् । उपमार्थः प्रदर्यते । योगीव यथा योगीन्द्रः तस्यां लौकिकप्रसिद्धायां भूमौ सकुलाय अन्यय-ततो अनेकमेव वन, देश, तीर्थ, पुण्याश्रमं अतीत्य, स्फीतासको प्रदीसभा रविः सः गूढः राजा दण्डकलक्षितां भूमि आट। उक्त प्रकारसे भ्रमण करते हुए अनेक वनों, देशों, ऋषियोंके पवित्र आश्रमों तथा प्रयाग आदि तीर्थों को पार करके पुष्ट उन्नत स्कन्धधारी, तेजमें सूर्य समान वह गुप्त धेशधारी राजा राम दण्डक नामसे ख्यात प्रदेशमें पहुंचे थे। अन्वय-......कोदण्डलक्षितांसः प्रदीप्त्या गूढः स राजा स्मीतां विराटभूमि आर । गुप्तवासके प्रसंगले अनेक देशों, वनों, तपोभूमियों और ऊर्जयन्त आदि तीर्थोसे निकलता हुआ पुष्ट कन्धेपर धनुष लटकाये तथापि प्रताप शौर्यको दृष्टिसे अज्ञात वह राजा युधिष्ठिर विस्तृत तथा ख्यात मत्स्य देशमें पहुंचा था ॥१॥ अन्वय-उग्रं चापव्यवहारं विहाय यथा नियोग प्रयतः जितात्मा स तस्यां कुलायभूमि निरूप्य योगीच कञ्चित् कालं निनाय।। दारुण धनुषके प्रयोगको छोड़कर अपने स्वभावानुसार जीवन व्यतीत करने में लीन तथा आत्मजेता राजा रामने दण्डकारण्यमें झोपड़ीके लायक भूमिको चुनकर योगीके समान कुछ समय व्यतीत किया था [आत्मापर विजय न पानेके कारण योगी भी बुरे आचरण तथा उग्रताको छोड़कर किसी घनमें कुटिया बनाता है और योगशास्त्रके अनुसार क्रिया करता है और अभ्यासमें कुछ समय बिताता है ] । १. किञ्चित्--द।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy