________________
द्विसन्धानमहाकाव्यम् वृण्वन्तीति शवराः गायनाः अथवा शेन सुखेन ब्रियन्ते इति शवराः सुखिनः बद्धगेयाः सन्तः नित्यसेवां कि दधते ! अपि तु नेति सर्वत्र सम्बन्धः । अत्रैतत्तात्यर्थम-यथा स्थितेन राज्येन चामरधरादयः सम्भवन्ति तथा न गतेन राज्येनेति । आक्षेपालङ्कारः ॥ ५४॥ त्वामभ्युपैतु पुनरभ्युदयाय दीप्ति
रौत्सुक्यमागतवतीव रवि दिनादौ । ध्वान्तं विसर्पति तवानुदयानयत्वं
कालेऽभिवृद्धिमभिमानधनञ्जयञ्च ॥५५॥ इति श्री द्विसन्धानकवेधनञ्जयस्य कृतौ राघवपाण्डवीये महाकाव्येऽरण्य
वासवर्णनं नाम चतुर्थः सर्गः ॥४॥ स्वामिति-हे राम हे युधिष्टिर च वो भवन्तं च पुनः दीप्तिः प्रतापक्षापारभ्युपैतु व्याकृत्यागच्छतु । कस्मै १ अभ्युदयाय विभवाय । कथम्भूता राती ? औत्सुक्यं रामस्य आगतवती । उपमार्थः-श्व यथा रविमादित्यं दिनादौ दिवसस्य प्रथमारम्भे दीप्तिः पुनरभ्युपैति । कथम्भूता ? औत्सुक्यमागतवती । उत्तरार्द्ध सोपस्करतया व्याख्यानं विधीयते-तथा तव भवतः सम्बन्धित्वेन अनुदयादभिभवात् वान्तमनीतिलक्षणतमः विसर्पति सामरत्वेन प्रवर्तते । यथा रखेरनुयात् ध्वान्तमन्धकारः विसर्पति । अतएव काले समये तथा अभिमानधनम् अभिमान एव धनम् अथवा अभिमानश्च धनञ्च अभिमानधनं समाहारापेक्षवैकत्वमत्र । जयञ्चेति कर्म, अभिवृद्धिं नय स्वं भवान् । यथा रविः अभिमानधनमामि सामस्त्येन मानं प्रमाणं यस्य तत् अभिमानञ्च तद्धनञ्चाभिमानधनं सप्रमाणकिरणसन्दोहमित्यर्थः । जय तमस्तोमनिराकरणलक्षणश्च कर्मद्वयम् अभिवृद्धि नयति क काल इति ॥ उपमालङ्कारः || ५५ ।। इति निश्वविद्यामण्डनमण्डितमण्डलीडितस्य पट्तर्क चक्रवर्तिनः श्रीमविनयचन्द्रपण्डितस्प गुरोरन्तेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोद्भवचारधातुरीचन्द्रिकाघकोरेण नेमिचन्द्रेण विरचितायां पदकौमुदीनामदधानायां टीकायां द्विसंधानकवेर्धनञ्जयस्य कृतौ राघवपाण्डवीये महाकाव्ये राघवपाण्डवारण्यगमनवर्णनो नाम
चतुर्थः सर्गः ॥४॥
हवा करते हैं ? हाथी आदिको प्रतिदिन सवारी प्राप्त होती है क्या। राजमहलके समान शिविर में भी क्या गायक गीत सुनाते हैं ? अर्थात् नहीं ॥५४॥
द्वे राम अथवा युधिष्ठिर लौकिक अभ्युदयके लिए मिलनकी उत्कण्ठाले प्रेरितके समान प्रभुता फिर आपको उसी तरह प्राप्त हो जैसे प्रातःकाल कान्ति सूर्यसे मिलती है, आपके वनमें रहने के कारण कोशल अथवा कुरु देशमें अनीतिरूपी अन्धकार सब ओर छाया है अतएव आप उचित समयपर सर्वथा विकास, आत्मगौरव रूपी धन और अनीतिकी जयको करें। [ सूर्य भी रात्रि में फैले हुए अन्धकारको पूर्ण विस्तृत किरणोंरूपी सम्पत्तिसे जीतता है और समस्त पदार्थों की वृद्धिका कारण होता है ] ॥५५॥ निर्दोषविद्याभूषणभूषित पण्डितमण्डलीके पूज्य, पट्तचक्रवती, श्रीमान् पण्डित विनयचन्द्र गुरुके शिष्य देवनन्दिके शिष्य, सकलकलाको चातुर्यचन्द्रिकाके चकोर नेमिचन्द्र द्वारा विरचित कवि धनञ्जयके राघवपाण्डवीय नामसे ख्यात द्विसंधानकाध्यकी पदकौमुदी टीकामें राधव-पाण्डवारण्यगमन
नामक चतुर्थ सर्ग समाप्त । १. काले इति सम्बन्धः-प०, द० ।