SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ६९ विपत्तिमुपनीताः । अनुजाः बान्धवाः विनयेन विगतो नयः विनयः दुर्नयस्तेन भूषिताः भुवि उषिताः तेन कृत्वा इत एभ्यः प्रकारेभ्यः नास्ति काचन परागृतिरभिभवः अन्येति पदमध्याहार्यम् ॥ ५२ ॥ यदि राजतयाविना नृपाः कृतराज्या इव सानुभावनाः । यशसा च युतास्तदेतया बहुचिन्ताहतया किमु श्रिया ॥ ५३ ॥ यदीति यदि राजतया राजभावेन विना कृतराज्या इव नृपाः नरेश्वराः सानुभावना समाहात्म्याः यशसा च युक्ताः भवेयुन्तत् तस्मात् उ अहो किभेतया श्रिया लक्ष्म्या कथम्भूतया बहुचिन्ताहतया वही या चिन्ता तया हतया नष्टया ! भारतीय:-वत् यस्मात्कारणात् सानुभावना सानुषु पर्वत नितस्त्रेषु भावना स्थितिर्येषां ते पर्वतनितम्बस्थितिकाः सन्तः नृपाः कृतराज्या इव भवेयुः । कथम्भूताः १ अविना न विद्यते विना येषां ते अविना युक्ता इत्यर्थः । कया इराजतया इरायाः अजः क्षेपः यस्वाऽसाविराजः पृथिवीपरित्यागयुक्तः पुरुष इत्यर्थः । इराजभ्य भावः इरायता तथा पृथिवीपरित्यागत्येनेत्यर्थः । यशसा युताश्च स्युः तत् तस्मात् किमु अहो एवयाऽनया श्रिया । कथम्भूतया ? बहुचिन्ताहतया बहूनां स्वपरवर्गीयाणां चिन्ता बहुचिन्ता तया तया हुचिन्ताहराया । पालङ्कारः ॥ ५३ ॥ चमरा व्यजनेन वीजयन्ति द्विरदास्ते दधते च नित्यसेवाम् । शवराः शिविरेषु वद्धगेयाः किमु राज्येन गतेन वा स्थितेन ॥ ५४ ॥ नमरेति-शिविशेषु निवेशेषु चमराः चमः व्यजनेन कृत्वा वीजयन्ति । ते प्रसिद्धाः 'कान्तारसमुद्भवाः द्विरदा हस्तिनः नित्यसेवां अनवरतवानं न दमते घरन्ति तथा शवराः पुलिन्दाः बद्धगेयाः विरचितगीताः भूत्वा दधते धरन्ति नित्यसेवाम् । पुप्रकारेंषु सत्सु उ अहो कि गलेन वा अथवा स्थितेज राज्येनेति सम्बन्धः | भारतीय: वा उपमार्थे स्थितेन राज्येनेव गतेन राज्येन उ अहो युधिष्ठिर ते तब सम्बन्धित्वेन शिविरेषु वसतिस्थानेषु लक्षितलक्षणानिरूपणात् चमराः पुरुषाः व्यजनेन चागंरेण कृत्वा किं वीजयन्ति १ स्वकारेण समुच्चयार्थी गग्यते । तथा द्विरदाः किं नित्यसेवां दधते ? तथा शराः गीतेन कृत्वा शं सुखं वृण्वते • कौरवोंपर छोड़कर मद्दा विपत्तिमें डाल दिया है और नीतिसे काम न करके हम छोटे भाइयोंको भूमिपर सोनेके लिए बाध्य किया है ॥५२॥ यदि राजाके कार्यादिके बिना ही राजाका प्रभाव, माहात्म्य आदि राज्य करनेवालोंके समान हो जाय और कीर्तिको प्राप्त करले तो अनेक चिन्ताओंसे साबाध इस राज्य लक्ष्मीले क्या प्रयोजन है ? अन्वय-यत इराजतया विना सानुभावना नृपाः कृतराज्या इव यशसा च युताः तत् बहुचिन्ताहांवा श्रिया किमु । यतः पृथ्वी के राज्य के त्यागले भूषित अतएव पर्वतोंपर निवास करने में प्रसन्न मन त्यागी राजा राज्य करनेवालोंके समान यशके भागी होते हैं अतः अपनों तथा परायों; सभीको चिन्तामें डालनेवाली इस लौकिक सम्पत्तिसे हे धर्मराज ! क्या लाभ है ॥५३॥ मरी मृग अपनी पूँछाँसे चमर ढोरते हैं । जंगली हाथी प्रतिदिन सवारीकी सेवामें रहते हैं । जहाँ पड़ाव डालते हैं वहीं भील आदि ग्राम्यगीत गाते हैं । तब राज्यके रहने या चले जाने से क्या अन्तर हुआ ? राज्यपदपर रहने के समान (वा) राज्य खो देनेपर आपको चमरधारी क्या १. लेपाऽलङ्कारः - प० द० । २. रेवातीरसमुद्भवा-प० द० ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy