SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ द्विसन्धानमहाकाव्यम् इदमेवमनादिगोचरं चिरमुच्चरितरेतराश्रयम् । विषयं वनमप्यनेकशः स सुखं दुःखमिवात्यगान्नृपः ॥५०॥ इदमिति–स नृपः रामः युधिष्टिरश्च इदमेवं विषयं देशं वनमपि अरण्यञ्च अत्यगादतिचक्राम । कथम् ? अनेकशः बहून्यारान् । कथम्भूतं विषयं कनञ्च ? अनादिगोचरं न आदेर्गोचरो विषयो यस्य सः तं तच्च । कथम् ? चिरं बहुतरकालं यथा भवति अल्यगात् । इतरेतरमाश्रयो यस्मिन् गमनकर्मणि तदितरेतराश्रवम् । एनबिषयं पुनर्चन मिति कृत्वा अन्योन्याश्रयमिति क्रियाविशेषणं यथा कथमुच्चैतिशयेन | अधुना उपमार्थः पदर्शते । सुग्नु दुःखीव राधाऽनिकामनि पाणी तथा सुखं यथा सुखं तथा दुःखमत्र पूर्वोक्तानि विशेषणानि योज्यानि | उपमालङ्कारः ।। ५० ॥ पथि सोज्वरजोऽग्रज वचः स्फुटमित्यादित वीक्ष्य तादृशम् । विदिशं विशता विशां दिशं त्यजता सत्यमलङ्कृतं त्वया ॥५१॥ पथीति-पथि मार्गे स पूर्वोक्तोऽवरजः लक्ष्मणः अग्रज राम तादृशं देशवनान्युल्लङ्घयन्तं वीक्ष्यावलोक्य इति वक्ष्यमाणापेक्षया स्फुट प्रत्यक्तं यथा भवति वचः वचनमादित उक्तवान् । त्वया भवता सत्यमलकृतं भूषितम् । किं कुर्वता सता ? विश देशानां विदिशं विशता प्रविशता दिशं त्यजता । भारतीयः-पथि तादृशमग्रज युधिष्टिरं वीक्ष्य स लोकप्रसिद्धः अवरजो भीमो वाऽर्जुनः इति वक्ष्यमाणं बचः स्फुटमादित गृहीतवान् । विशां देशानां सम्बन्धित्वेन निदिशं दिशं विशता त्यजता च त्वया सत्यमलकृतमिति ।। ५१ ॥ स्वकुलं समलंकृतं गुणैरुपनीताश्च महापदं जनाः । ... अनुजा विनयेन भूषिता न पराभूतिरितोऽस्ति काचन ॥५२॥ स्वेति-त्वया गुणैरौदायर्यादिभिः स्वकुलं समलंकृतं सम्यकप्रकारेण विभूषितम् । जनाः महापदं महापदवीमुपनीताः प्रापिताः । अनुजाः भ्रातरः विनयेन भूषिताः इत एभ्यः प्रकारेभ्यः नास्ति काचन परा अन्या भूतिर्विभूतिरिति । ____भारतीयः-स्वकुलं समलं सलाञ्छनं त्वया गुणैः कृतम् । जनाश्च महापदं महतीम् आपदं अनादि कालसे चले आये तथा अनन्त कालतक चलते रहने योग्य यद्द संसारके सुख और दुःखके इस इतरेतर आश्रय (सुखके बाद दुःख और दुःखके बाद सुख) के समान ही राजा राम अथवा युधिष्ठिर अनेक बार देशसे घनमें और वनसे देशमें होते चले जाते थे ॥५०॥ उक्त प्रकारसे चले जाते ज्येष्ठ भ्राताको देखकर मार्ग में छोटे भाई लक्ष्मण अथवा भीम अर्जुनने स्पष्ट कहा था कि हे अग्रज, इस प्रकार देशोंकी सीमाओंमें प्रवेश करके तथा उनको छोड़कर आपने इन्हें सचमुच विभूषित ही किया है ॥५१॥ __ अन्वय-गुणैः स्वकुलं समलंकृतं, घ जनाः महापद नाताः अनुजा विनयेन भूषिताः इतः परा काचन भूसि: नास्ति। पितृभक्ति आदि गुणोंके द्वारा अपने कुल की शोभा बढ़ायी है। जनताका पद ऊँचा किया है। छोटे भाइयों को अनुशासनसे दीक्षित किया है। फलतः संसारमें इससे बड़ी कोई विभूति नहीं है। ___ अन्वय-गुणैः स्वकुल समलं कृतं, च जनाः महा-आपदं नीताः, विनयेन अनुजाः भूषि[शि ] ताः इतः परा काचन अभूतिः नास्ति । ___ द्यूतके पाशोंके द्वारा हे धर्मराज, आपने अपने कुलको दूषित किया है। जनताको १. श्लेपाऽलङ्कारः-प०, द० । २. एतेषां पद्यानामनुकूलप्रतिकूलार्थत्वात् पक्षद्वयम्, न तु राघवभारतीयापेक्षयेति । - ---- --- ---- ------- -- ---- ---
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy