SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ६७ निगमानिति - स रामः युधिष्ठिरश्च निगमान् भक्तग्रामान् ददर्श दृष्टवान् । कथम्भूतान् ? शिखण्डिनां मयूराणां निनदैः शब्दैः तथा धेनुकहुङ्कृतैरपि धेनुकदम्बहम्भारयैः सुभगान् मनोहरान् । पुनः कथम्भूतान् ? वनस्य गोचरान् विषयान् । पुनः कृकवाकृत्पतनश्चमान् 'कुक्कुटोत्पात योग्यान् । समुच्चयः ॥ ४६ ॥ स विषाणविधूतरोधसं सहसा पस्किर माणक्षत | शिरसि स्थितपङ्कमिच्छया धनस्येव भटं गवां पतिम् ॥४७॥ स इति स रामः युधिष्ठिरश्च गवां पतिं वृषभमैक्षत ददर्श । कथम्भूतं विपाणविधूतरोधसं शृङ्गीक्षिप्ततटम् । पुनः शिरसि स्थितपङ्कम् मूर्ध्निस्थितकर्दमम् । पुनः । प्रधनस्य रणस्य इच्छया वाञ्छ्या सहसा - परिकरमाणमग्रन्चरणेन भूमिमुल्लिखन्तम् | कमिव ? भटभिव वीरभिव' ॥ ४७ || तृणकौतुककङ्कणोचितां विलुलोके स विनृत्य गोपिकाम् । स्तनभारनतां प्रजापतेः श्रममस्थानगतं विचिन्तयन् ॥४८॥ तृणेति - स नृपः रामो युधिष्ठिरश्च गोपिकां गोपभार्या विलोकेऽपश्यत् । किं कृत्वा ? विवृत्य पूर्व परानृत्य | किं कुर्वन् ? प्रजापतेर्विधातुरस्थानगतमयोग्यपदवीमायान्तं श्रमं विचिन्तयन् चिन्ताविषयं नयन् । कीदृशीम् ? तृणकौतुक कङ्कगो चिताम् पुनः स्तनभारनतां कुचभारनम्रामिति ॥ ४८ ॥ 2 अमुनाभिशपन्धनं रुदअभिधावन्पृथुकोऽभिसादयन् । बुबुधे पथि सस्यमापतन्नववर्णीव दुरीहितं तपः ॥४९॥ अमुनेति - अमुना रामेण युधिष्ठिरेण च कर्त्रा पृथुकः बालः कर्मतापन्नः पथि मार्गे बुबुधे ज्ञातः । किं कुर्वन् ? अभिशपत्राक्रोशन् । किम् ? धनं गोमहिप्यादिकम् पुनः, रुदन्नश्रु विमोचयन् । पुनः १ इतस्ततोऽभिवान् पलायमानः । पुनः अभिसादयन् अभ्याजयन् । पुनः आपतन्नागच्छन् । किम् ? सस्यं धान्यम् । उपमार्थः प्रदर्श्यते । क इव १ नववर्णीव नूतनमुनिरिव, यथा नूतनमुनिः लोकैर्बुध्यते । किं कुर्वन् ? धनम् अभिशपन् स्दन् अभिधावन्न भिसादयन्नापतन् । किम् ? तपः । कथम्भूतम् ! दुरीहितं दुश्चेष्टितम् ॥ ४९ ॥ मयूरोकी के कासे तथा गायके बछड़ों के रंभानेके द्वारा अत्यन्त सुन्दर नागरिकोंके ग्रामों तथा मुगके उड़ने और रहने योग्य वन्य प्रदेशोंको राजा राम अथवा युधिष्ठिरने देखा था ॥४६॥ सीके द्वारा नदी-नालेके किनारेको खोदते हुए तथा शिरपर कीचड़ अथवा मिट्टीको लगाये हुए तथा लड़ने की इच्छासे आगे के खुरोंसे भूमिको कुरेदते हुए अतएव योद्धा समान सांड़को राजा राम या युधिष्ठिरने देखा था [ योद्धा भी हस्तिदन्त शस्त्र के प्रहारसे शत्रुओंको भगा देता है, अनेक हत्याओंका पाप उसके शिरपर रहता है, युद्धकी कल्पनासे वह भूमिपर व्यूह आदि लिखता रहता है ] ॥४७॥ दूर्वा तथा विवाह सूत्र से ग्रहण करके कंकड़ आदि आभूषण पहिराने योग्य और उन्नत स्तनोंके भारसे झुकी ग्वालिनको राम अथवा युधिष्ठिरने मुड़कर देखा था । तथा उनके मनमें विचार आया था कि सृष्टिकर्त्ताने अस्थानमें इतनी कुशलता क्यों दिखायी ॥४८॥ मार्ग चलते हुए राजा राम अथवा युधिष्ठिर द्वारा खूब विलपता-चिल्लाता, रोता हुआ इधर-उधर दौड़ता, अनको खाता हुआ तथा गिरता पड़ता फलतः नये ब्रह्मचारीके समान कष्टकर तपस्या में प्रवृत्त बालक देखा गया था [ नया ब्रह्मचारी भी बात-बात में अभिशाप देता है, खेद या पश्चात्तापमें रोता है, अशान्तिके कारण इधर-उधर आता जाता है, भोजनपर गिरता है तथा तपस्या में स्खलित होता है ] ॥४९॥ १. 'कृकवाकुस्तानचूढः कुक्कुटश्चरणायुधः' ( अमरकोष २।१७ ) २. उत्प्रेक्षाऽलङ्कारः - प०, ६० । ३. उपमालङ्कारः- प०, दृ० 1 अतएव कुक्कुट इति ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy