________________
६६
द्विसम्धानमहाकाव्यम् धिया बुद्ध्या कृत्वा ईरितः प्रेरित उद्यमो यया सा ताम्,अथ जलेन जडेन धिया कृत्वा ईरितः उद्यमो यस्यास्तां जडबुद्धिप्रेरितोद्यमाम् । पुनः अतिलचिनीमतिक्रमणशीलां पुनः स्खलितप्रायगति मन्दमन्दगमनाम् ॥ ४२ ॥
अनुकूलफलासु भूभुजा पथि शोकापनुदासु विश्रमम् |
ज्यपदिश्य दरीष्वस्थितं तनयानां वसतिष्विव क्षणम् ॥४३॥ ___ अनुकूलेति-पथि भागें भूभुजा रामेण युधिधिरेण च दरीषु कन्दरासु अवस्थितम् । किं कृत्वा ? पूर्व विधर्म ध्यपदिश्य विश्रभितुमुद्दिश्य । कथम् ? क्षण मुहूर्तमेकम् | किं विशिष्टासु दरीषु ? अनुकूलफलासु कूलमनु अनुकूलं तटं तटं प्रति फलान्याम्रादीनि यासु ताः अनुकूलफलात्तासु । पुनः ? शोकापनुदासु चेतोग्लानिस्फेटिकासु । कास्विद ? तनवानां पुत्राणां पुत्रीणां वा अनुकूलफलस्वनायारालभ्यफलसु तथा शोकापनुदासु घरतिष्विव । उत्प्रेक्षालङ्कारः ॥ ४३ ।।
नृपतिं तमवेक्ष्य तापसाः कृपया हृदयेऽश्र तत्यजुः ।
भुवि का किल कशाशयो महतामुत्सहते विपत्तिप ॥४४॥ नृपतिमिति-तं रामं युधिष्ठिरञ्च नृपति नरेश्वरमवेक्ष्य अवलोक्व तापसाः तपस्विनः अश्रु वाष्पजलं तत्यजुः परित्यक्तवन्तः । व ? हृदये चेतसि | कथम्भूते ? आदें द्रवीभूते । कया ? कृपया करुणया । किललोकोक्तौ भुवि पृथिव्यां कः पुमान् कर्कशाशयः निष्ठुरचेताः भूत्वा महतां सत्पुरुषाणां सम्बन्धित्येन विपत्तिषु आपनिमित्तमुत्सहते सोद्यमो जायते । अर्थान्तरन्यासः ॥ ४४ ॥
सरितः सरितो नगानगानवतीर्णः स बहूपकारकः ।
विषयान्विषयानपेक्षितां वशवर्तीच गतो न्यशामयत् ॥ ४५ ॥ सरित इति-स रामः युधितिरश्च विश्वान् विषयान् देशान् देशान् न्यशामयत् ददर्श । कथम्भूतः ? सरितः सरितो नदीः नदीस्तथा नगानगान् पर्वतान् पर्वतान् अवतीर्णः उल्लचितवान् । कथम्भूतः? स बहूपकारकः बहूनां समत्तानां राज्ञानुपकारो यस्मात् सः, अस्यायमर्थः स्थाने स्थाने समस्तानामवनीश्वराणामुपकारित्वेन आनुषङ्गिकी कथानुसभ्यन्वनीति | कथम्भूतान् ? विषयानपेक्षितान'भिलषितान् । क इव ? वशवर्तीव यतिरिव । कथम्भूतः ? विषयानपेक्षितां गतः विषयान् स्रग्बनिताचन्दनादीन् न पेक्षत इत्येवं शील विषयानपेक्षी तस्य मावस्तता तां जितेन्द्रियत्वं गतः प्राप्तः ॥ ४५ ॥
निगमान्निनदैः शिखण्डिनां सुमगान्धैनुकढुङ कृतैरपि ।
स ददशे वनस्य गोचरान कुकवाकूत्पतनक्षमान्नृपः ॥४६॥ मूर्खतापूर्ण कार्य करनेवाली, अवज्ञा करनेमें रत तथा करीब-करीय भ्रष्टाचारको प्राप्त मियाको भी लोग सहज ही छोड़ देते हैं ] ॥४२॥ ___अभीष्ट फलादिसे व्याप्त तथा मार्गकी थकानको दूर करनेमें समर्थ अतएव अपने पुत्रौके मकानोंके सदृश सुखद गुफाओंमें राम या युधिष्ठिरके द्वारा विश्राम किया गया था ॥४३॥
राजा राम अथवा युधिष्ठिरको देखकर तपस्वियोंके भी हदय द्र त हो जाते थे और के आँसू बहा देते थे । संसारमै कौन ऐसा कठोर हृदय है जो पुण्यात्मा पुरुषोंकी विपत्ति देखकर प्रफुल्लित होता हो ॥४४॥
राज्य (इन्द्रियोंके भोग ) के विषयमै उदासीन भावके धारक तथा अनेक लोगोंके उपकारक अतएव इन्द्रियजेता यतिके समान वे राम अथवा युधिष्ठिर एक नदीसे दूसरी नदी तक अथवा एक पर्वतसे दूसरे पर्वततक भूमि पार करते हुए देशोंको देखते चले जाते थे ॥५॥
1. अन्न पादान्तत्वान्नकारस्थानुस्वारश्चिन्त्यः । ५०, द. पुस्तयोस्तु विषयानपेक्षितां गतः इत्येव नृप यतिपक्षयोर्योजितः । २. उपमालङ्कारः-५०, ६० ।