SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ R द्विसन्धानमहाकाव्यम् a inmentaininindia । तस्मिन्काले । किं कृत्वा ? पूर्व मुक्त्वा परित्यज्य । कां महीं पृथिवीम् । कथम् ? सह सार्द्धम् । कैः ? अदरैः नदरः भयं विद्यते येषां तेऽदरा अभयास्तैः अदरैनिभयमैटैः । कथम् १ लघु शीघ्रम् । कथम्भूतां महीम् ? । अजितामनभिभूताम् । केन ? परेण शत्रुणेति । भारतीय:-तदा तस्मिन्काले स युधिष्ठिरः भातृबलेन काननं प्रययौ लघु शीघ्रम् | कथम्भूतम् ? स्वगुरु स्थितिभङ्गभीरकः स्वस्यात्मनः गुर्वी या स्थितिस्तस्याः मने भीरुकः । किं कृत्वा ? पूर्व मुक्त्वा । काम् ? महीम् । कथम् ? सहसा शीघ्रम् । कथम्भूताम् ? परेण दुर्योधनेन दरोदरैः पाशकैर्जिताम् ।। ३६ ॥ स निवर्त्य समन्वितान्नृपांस्तलवर्गान्सचिवान्पुरोधसः । स्थितवान्पथि सीतयाच्युतो गहने द्रौपदिकानुजान्वितः ॥३७।। स इति—स रामः गहने बनेऽद्री पर्वते च स्थितवान् । कथम्भूतः अच्युतो परित्यक्तः युक्त इत्यर्थः । , कया ? सीतया जानक्या । पुनः १ पदिकानुजान्वितः पदाभ्यां चरतीति पदिकः स चासावनुजश्च तेनान्विता युक्तोऽनुचरलक्ष्मणान्वित इत्यर्थः । किं कृत्वा ? पूर्व निवर्त्य पश्चात् प्रस्थाप्य । कान् ? नृपान् । नरेन्द्रान् तलबर्गान् तरपनि योगीतुगतापन्नि (नाम पनिमादीन् , तथा सचिवानमाथान् पुरोधसः पुरोहितान् | एतान्कथम्भूतान् ? समन्वितान् अनुवजितुमागतान् । भारतीयः-स युधिष्ठिरः स्थितवान् । छ ? गहने । कीदृशः सन् ? सीतया भूम्या च्युतः परित्यक्तः । पुनः ! द्रौपदिकानुजान्वितः द्रौपदिका द्रौपदी द्रुपदतनया अनुजा भीमादयस्तैर्युतः। किं कृत्वा ? पथि मार्गे समन्वितान्नृपादीनिवर्त्य । श्लेषालङ्कारः ॥ ३७ ॥ अपि यस्य जगाम मुद्रया सकलो वारिनिधिः समुद्रताम् । हृदि पश्यत संसृतेः स्थिति स नरेन्द्रोऽपि पदातिताङ्गतः ॥३८॥ अपोति—यस्य रामस्य युधिष्ठिरत्य च सुट्ट्या सकलोऽपि बारिनिधिः समुद्रतां मुद्रया सह वर्त्तत इति समुद्रः तस्य भावः तत्ता तां मुद्रायुक्तिमत्त्वं जगाम ययौ । संसृतेः संसारस्य स्थितिं इदि हृदये पश्यत । स पूर्वोक्तः नरेन्द्रोऽपि पदासितां पदाभ्यामतति पदातिस्तस्य भावं पदिकत्वं गत इति ।। ३८ ॥ अन्वय-तदा दरोदरैः परेण सहसा जितां महीं लधु मुक्त्वा स्वगुरुस्थितिभनभीरुकः स ातृवलेन काननं प्रययौ । द्यूतके पाशोंसे शत्रुके द्वारा अकस्मात् जीते गये हस्तिनापुरके विशाल राज्यको तुरन्त छोड़कर वह धर्मराज युधिष्ठिर केवल भाइयोंके भरोसे ही वनवासमें चले गये थे क्योंकि उन्हें इस बातका भय था कि कहीं इनकी महान् सत्यनिष्ठाका उल्लंघन न हो जाय ॥ ३६॥ अन्वय-समन्वितान् नृपान् , तलवन् , सचिवान् पुरोधसः पथि निवर्त्य सीतयाच्युतः पदिकअनुजान्वितः स गहने-अद्रौ स्थितवान् । साथ चलनेके लिए आये राजाओं, अश्वारोहियों-गजारूढ़ी, मंत्रियों तथा पुरोहितोंको थोड़े रास्तेसे ही यापस करके मीनाको साथ लिये पैदल चलते छोटे भाई लक्ष्मणको ही अनुगामी रूपले लिये वह राम गहनचन अथवा पर्वतोपर रहने लगे थे। अन्धय-पथि समन्वितान् निवर्त्य सीतयाच्युतः द्रौपदिकानुजाम्धितः स गहने स्थितवान् । वनवासके मार्गमे आकर मिलनेवाले मित्रराजाओ, सेनापतियों, मंत्रियों तथा पुरोहित आदिको घर लौट जाने के लिए कहकर राज्यके द्वारा परित्यक्त वह धर्मराज द्रौपदी तथा भीम आदि छोटे भाइयों के साथ वनमें वास करने लगे थे ॥३७॥ जिसकी राजमुद्राके द्वारा शत्रुओंके समस्त वैभयपर मुद्रा लगायी गयी थी अथवा समस्त सागर भी जिसके राज-चिह्नसे अंकित थे वह राजराजेश्वर भी पदाति-(पैदल चलनेवाला) हो गया था। संसारकी वास्तविकतापर मनमें विचार तो कीजिये ॥३८॥ १. श्लेषोपमाञ्लकारः ५०, द० । - - -. -.
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy