________________
चतुर्थः सर्गः
| कथम्भूते हृदये प्रागपि पूर्वमपि कोपधूमिते । क्व पितरि दशरथे पाण्डुनृपे च । अत्र तास रामस्य युधिष्ठिरस्य च राज्यपट्टाभिषेकं श्रुत्वा द्विषतां हृदयानि "क यामः किं कुर्मः" इति चिन्ता भरनिर्भराणि बभूवुः । उपमालङ्कारः || ३० ॥
स नवाजिषु लब्धविक्रमः कृतरूडिर्न गजेषु दन्तिषु ।
निजघान तथापि विद्विषं सहसा पत्तिचयेन वर्जितः ||३१||
स इति - वाजिन्वश्वेषु न लब्धविक्रमः गजेषु दन्तिषु । दन्तिष्विति विशेषणेन माणिक्यदण्डसमुद्रवानां हस्तिनां ग्रहणं न तु मरवद्वीपसमुद्भवानां दन्तरहितानामिति विशेषणं सार्थकम् । तेषु तथाभूतेषु गजेषु न कृतरूढिः । पत्तित्रयेन पदातिसमूहेन वर्जितः परित्यक्त इति विशेषणेन विशिष्टः सन् सहसा शीघ्रं तथापि स कुमारः विद्विषं निजघान हतवानिति विरुद्धं परिहियते । नवाश्च ता आजयश्च नवाजयः तासु नवाजिषु नूतनसङ्ग्रामेषु व्यविक्रमः नगजेषु गिरिसमुद्भवेषु दन्तिषु हस्तिषु कृतरूदिः अभ्यस्तावरोहणः आपत्तिचयेन वर्जितः इति विशेषणत्रयेण युक्तस्तथापि सहसा स रामः युधिष्ठिरश्च विद्विषं निजघानेति । विरोधाभासः ||३१|| अजरोऽवनिवृतचेष्टितस्ततपोद्भवविष्टरागतः ।
सपितामहतां च सङ्गतो विधिरप्येकमुखत्वमागमत् ||३२||
अजर इति - सः अजरः न विद्यते जरा वार्द्धक्यं यस्य स अजरः तरुणः कुमारः राङ्गतः प्राप्तः कां पितामहतां प्रजापतित्वम् । कथम्भूतः सन् १ अवनिवृत्तचेष्टितः अवनौ धरायां वृत्तम्प्रवृत्तचेष्टितमाज्ञा यस्य सः । पुनः ततपङ्कोद्भवविष्टरागतः तते विस्तीर्णे पोद्भवे दुर्यशसि विष्टानां प्रविष्टानां रागमिष्टवस्तुपु प्रीतिं तस्यति क्षयं नयतीति किप् स तथोक्तः वित्तीर्णदुर्यशः प्रविष्टरागविनाशकः तथा स पिता दशरथः पाण्डुश्व महतां महस्य भावो महता तां महतामुत्यवतां च सङ्गतः । कथम्भूतः अजरोऽजे ब्रह्मणि रः शब्दो यस्य सोऽजरोः व्रह्मैकनिष्ठ बन्वनः । पुनः अबनिवृत्तचेष्टितोऽय समन्तान्निवृत्तं चेष्टितं यस्य सः सकल्यावस्तुनिवृत्तव्यापारः । पुनः ततपङ्कोद्भवविष्टरागतः पङ्कात्यापादुद्भवो येषां ते पोद्भवाः विशश्च ते रागाथ विष्टरागाः तताश्च ते पङ्को वष्टिरागाश्च ते ततपोद्भवविष्टरागास्तान् तत्वति क्षत्रं नयतीति किप स तथोक्तः । विस्तीर्ण पापसमुद्भवरागोच्छेदक इत्यर्थः । सोपस्करत्येन व्याख्यायते - अजरो नित्यत्वात् जगज्ज्येष्टत्वात् प्राप्ततपोऽतिशयत्वाच न जीर्यत्यजरः ।
अथवा पाण्डुके समय से ही धुँधाती शत्रुताकी अग्नि शत्रु राजाओं के हृदय में प्रलयकालकी अग्नि के समान जोर से प्रज्वलित हो उठी थी ॥ ३० ॥
उस राजाने न तो अश्वारोही युद्धमें पराक्रम दिखाया था, न बड़े-बड़े दाँतोंवाले हाथियोंके ऊपर चढ़कर हरितयुद्ध किया था और न जिसके साथ पैदल सेना ही थी तथापि उसने अकस्मात् शत्रुओंका विध्वंस कर दिया था । पर्वतों में उत्पन्न नूतन युद्धों में ( नव-आजिषु ) किये गये पराक्रम के लिए ख्यात, ( नगजेपु), उत्तम हाथियोंपर चढ़ने में दक्ष तथा अनायास ही आपत्ति ( सहसा आपत्ति ) को दूर हटानेवाले इस राजाने शत्रुओंका विनाश कर दिया था ॥ ३१ ॥
अन्वय-अवनिवृत्तचेष्टितः ततपकोद्भवविष्टरागतः अजरोऽपि स पितामहतां सङ्गतः च विधिरपि एकमुख आगमत् ।
I
समस्त पृथ्वीपर शासन चलाते तथा मद्दान् अपकार्यों में रत लोगोंके विनाश करनेके कारण वह राम अथवा युधिष्ठिर युवक होते हुए भी भले बाबा (पितामह ब्रह्मा) बन गये थे । [यह हुआ एक विरोध । और जब वह ब्रह्मा हुए तो चतुर्मुख होना चाहिये था वह हुआ नहीं अपव] ब्रह्मा भी एक मुख हो गये थे। [ यह हुआ दूसरा विरोध ] क्योंकि ब्रह्मा भी कूटस्थ होनेके कारण वृद्ध नहीं होते हैं, पृथ्वीको सृष्टिके लिए प्रयत्न करते हैं, विकसित पंकजरूपी आसनपर बैठते हैं, संसारके पिता (गुरु) हैं और विष्णु आदि महापुरुषोंकी संगति में रहते हैं । परिहार