________________
द्विसन्धानमहाकाव्यम् __ अधिरोति-अनवकाशकारणात् पुरः नगर्या उपरि नगरी तस्थुषीव स्थितक्तीव । अत्र बभूवेति क्रियाऽध्याहार्या । केन ? पश्यताऽवलोकमानेन जनेन । किं कृत्वा ? पूर्व परितः सामस्त्येन अधिरुख । किम् ? गृहचैत्यद्रुमशालगोपुरं मन्दिरदेवकुलवृक्षप्राकारतोरणद्वारम् । अत्र समाहारापेक्षयैकत्वम् ॥ २६ ॥
अभिषेकजलप्लवेन सा वसुधा दीर्घमुदश्वसीत्तदा ।
नवसङ्गमधर्मवारिणा स्नपिताङ्गाभिनवा वधरिव ॥ २७ ॥ अभिषेकेति तदा तस्मिन् काले अभिषेकजलाप्लवेन राज्यपदाभिषेकवारिणा कृत्वा सा बसुधा पृथ्वी दी बहुतरकालम् उदश्वसीदुच्छ्वसितक्ती । केव अभिनवा संभवयौवनभरा वधूरिव । कथम्भूता सती ? नवसङ्गमधर्मवारिणा नूतनसंयोगस्वेदजलेन स्नापिताङ्गाऽभिषिक्तशरीरा' ।। २७ ।।
कमला च दलान्तरस्वजलविन्दज्ज्वललम्बमौक्तिकम् ।
कमलातपवारणं तदा शशिशुभ्रं बिभरांबभूव तत ॥ २८ ।। कमलेति-तदा तस्मिन् काले कमला लक्ष्मीः कमलातपवारणं कमलच्छनं बिभराम्बभूव धृतवती । कीदृशं दलान्तरस्रवजलबिन्दूज्ज्वलटलम्बमौक्तिकम् । दलान्तरेभ्यः पत्रान्तरालेभ्यः सवन्तश्च ते जलबिन्दवश्चेति दलान्तरखवज्जलबिन्दवः तद्वदुज्ज्वलानि लम्बानि मौक्तिकानि यस्य तत् । पुनः शशिशुभ्रमिन्दुधवलम् ||२८||
हरिविष्टरमध्यमास्थितः प्रचलचामरचारुसंहतिः ।
स जिगाय समुद्रवीचिभिः खलु वेलाचलयाहतं युवा ।। २९ ॥ हरीति–स युवा रामः युधिष्ठिरश्च खलु निश्चयेन समुद्रवीचिभिः जलधिकल्लोलैराहतं ताडित वेलाचलं जिगाय जितवान् । कथम्भूतः सन् ? हरिविष्टरमध्यं सिंहासनमध्यमास्थितः उपविष्टः । पुनः प्रचलनासरनारसंहतिः प्रचलन्ती चामराणाश्चा: मनोज्ञा संहतिः श्रेणी यस्यासौ ॥ २९ ।।
उपकर्ण्य तथा नरेश्वरं पितरि प्रागपि कोपधूमिते ।
हृदये द्विषतां समुत्थितः प्रलयज्वाल इवानलोऽधिकः ।। ३० ।। उपकायेति-द्विषतां शत्रूणां सम्बन्धित्वेन तथा तेनैव प्रकारेण हृदयेऽधिकः प्रचुरोऽनलोऽग्निः समु. स्थितः उत्पन्नः । क इव ? प्रलयज्वाल इव प्रल्यानल इव | किं कृत्वा ? पूर्व नरेश्वरं रामं युधिष्ठिरञ्चोपकर्ण्य
भवन, देवालय, वृक्ष, प्राकार तथा तोरण-द्वारके ऊपर चढ़कर जब लोग चारों ओर दृष्टि डालते थे तो ऐसा प्रतीत होता था कि स्थानकी कमीके कारण नगरीके ऊपर दूसरी नगरी-सी बस गयी है ॥२६॥
राज्याभिषेकके जलके प्रवाहके द्वारा वह कोशल अथवा कुरुक्षेत्रकी भूमि उस समय हर्षके रोमाञ्च और पसीनेसे अभिभूत होकर नूतन वधूके सामान लगती थी । क्योंकि प्रथम संयोनाये पसीनेसे वह भी लथपथ रहती है ॥२७॥
लक्ष्मी स्वयमेव चन्द्रमाके समान श्वेत कमलके छत्रको लेकर खड़ी हुई थी। जिसकी पंखुड़ियोंके बीचसे टपकती हुई पानीकी बूंदें ही लटकते हुए मोतियोंकी छटाको प्राप्त हो रही थीं ॥२८॥
सिंहासनके मध्य में विराजमान और दुरते हुए चमरोंकी पंक्तिसे शोभायमान उस युवक राम अथवा युधिष्ठिर राजाने समुद्र की लहरोंसे ताडित तीरस्थ पर्वतोंको ही जीत लिया था ॥२१॥
पूर्वोक्त प्रकारसे राम अथवा युधिष्ठिरके राज्याभिषेकको सुनकर इनके पिता दशरथ १. उत्प्रेक्षालङ्कारः ६०, द.। २. उपमालङ्कारः १०, द० । ३. स्वभावाख्यानम्-५०, दुः।