SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः विविधानि वसूनि वाहनं बहुदेशो दिशतीति वर्णितः । स यथोक्तिपिपामुपप्लवैर्न विहास्यत्यभिरक्ष्यतां तथा ॥१५॥ विविधानीति-विविधानि नानाप्रकाराणि वसूनि द्रव्याणि वाहनश्च मत्तमातङ्गतुरङ्गमं कर्मतया परिणतं सर्वे बहु दिशति ददातीति निरुत्त्या देशो वर्णितः कथितः । यथा इमामुक्ति निर्वचनं स देशः न अधिहास्यति न त्यक्ष्यति । कैः कृत्वा ? उपप्लवैरुपद्रवैः कृत्वा । तथा हे पुत्र ! त्वया रक्ष्यतामिति । स्वरूपात्यानम् ॥ १५ ॥ उपसान्त्वय कृत्यमात्मनस्तमस्थ मयवृद्धिमृद्धिभिः। उभयं परकीयमात्मसात् कुरु नीतेः प्रथमोऽयमुद्यमः ॥१६॥ उपेति-उपसान्त्वय प्रशमय त्वम् । कम् ? कृत्यम् । परैः कर्तुं मात्मनः शक्यः अथवा परैः कत्ति चुं शक्यः कृत्यः तं कृत्यं भेद्यम् | कस्य ? आत्मनः । तथा ऋद्धिभिः कृत्वा वृद्धि नय प्रापय ल्यम् । कम् ? लोकविख्यातम् अकृत्यमभेद्यम् । कस्यात्मनः । तथा उभयं कृत्याकृत्यं परकीय शात्रचीयं कुरु विधेहि काथमात्मसादात्मायत्तम् । इति नीते: अयं प्रथमः आद्य उद्यमः इति । स्वभावाख्यानम् ॥ १६ ।। विधिना खलु दीयतेऽखिलं न नृपो दत्त इति स मा भवत् । विधिरे सतां यमोऽसतामिति भूयाजनतासु ते कथा ॥१७॥ ॐ विधिनेति-स्म मा भवत् । मा स्म भक्त् भवान् । कथमिति ? विधिना दैवेन खलु निश्चयेन दीयते अखिल वस्तुजातम् । न दत्ते न ददाति नृपो राजा इति । तथा हे पुत्र ते तव इति इत्थम्भूता कथा स्वभावा सागं जनतासु लोकसमूहेषु विषये भूयात्स्यात् । कथमिति एष सतां महतां पुंसां विधि दैवं तथा एष असताममें वृत्तिकारणं यमः यमस्येव कार्यक्रत्तृत्वात् यमो मृत्युरिति । स्वभावाख्यानम् ॥ १७ ॥ वसुनोपचितेन सम्भवेदिह धर्मेण परत्र तु त्रयम् । उभयत्र न तन्मनोभुवा भुवि येन त्रयमत्र तरिक्रयाः ॥१८॥ वसुनेति--इह लोके वसुना अर्थेन उपचितेन पुष्टिं नीतेन अयं धर्मार्थकामलक्षणं सम्भवेत् समुत्पद्यते ! तु पुनः परत्र परलोके धर्मेणोपचितेन त्रयं सम्भवेत् । उभयत्र इह लोके परलोके च मनोभुवा कामेनोपचितेन तस्वयं च सम्भवेत् । भुवि पृथिव्यां हे पुत्र येन तेषां मध्ये येनाचरितेन अत्र इह लोके परलोके च त्रयं स्यात्तनियाः कुरु त्वम् ।। १८ ॥ नाना प्रकारको सम्पत्ति तथा अनेक अश्वादि वाहनोंको प्रचुर मात्रामें जो दे उसे वेश कहते है। उपद्रवों और संकटोंके कारण यह देश जिस प्रकार इस व्याख्याको न छोड़े उस प्रकारसे ही इसका राज्य करना ॥१५॥ . अपने छिद्रों अथवा शत्रुके आघातोंको शान्त कर दो तथा विभवके द्वारा अपने पक्ष, दुर्ग, आदि अथवा शत्रुपर किये प्रबल पहारोंको सुपुष्ट करो! तथा शत्रुकी दुर्बलताओं और समर्थकोंको अपने वशमें करो, नीतिशास्त्रका यही प्रथम पाठ है ॥१६॥ अपने-अपने भाग्यसे सबको सब कुल मिलता है अतएव हे पुत्र ! 'राजा नहीं देता है। है ऐसा तुम्हारा अपवाद न हो । 'यह राजा सजनौंका विधाता है और दुर्जनौका काल है' यही जनतामें तुम्हारे विषयमें कहा जाय ॥१७॥ . इस लोकमें पर्याप्त सम्पत्ति संकलित करनेसे धर्म-अर्थ-काम संभव हो सकेंगे। यहाँ धर्म संचय करनेसे परलोक में तीनों वर्ग निभ जायेंगे। काम पुरुषार्थके द्वारा दोनों लोकों में सबका विद्यात होगा अतएव वहीं करना जिससे दोनों लोकोंमें तीनो पुरुषााँका साधन हो सके ॥१८॥
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy