________________
द्विसन्धान महाकाव्यम्
युगेति — यस्मात्कारणात् इह लोके परं केवलं भुवः पृथिव्या इमं प्रत्यक्षीभूतं भरं भारं युगबद्धमेको सहायः नृपपुङ्गवो नरेन्द्राग्रणी ः भारवहनक्षमः धवलः सन् बहसे । ततस्तस्मात् | अधुनेदानीं ममाशामादेशमवमन्तुमवज्ञातुं नार्हसि न योग्यो भवसीति ॥१२॥
५६
विजयाय जय स्वमादितो निजकर्म प्रकृति ततो रिपुम् । गमिनः परलोकसाधनं तथ मेऽपि स्थितिरीदृशी मता ॥ १३ ॥
विजयायेति - आदितः प्रथमतो विजयाय जयनिमित्तं स्वभात्मानं जय प्रशमय । ततः पश्चानिजकर्म दिवसरा त्रिविभागक्रियाम् । ततः प्रकृतिममात्यससकम् । तो रिपुं कामादिषट्कम् इत्येतसर्वे जयेति क्रियाया कर्म बोद्धव्यम् । ईदृशी स्थितिर्मता परलोकसाधनं शत्रुलोकसाधनं स्यात् । कस्य ? तव । कथम्भूतस्य तब ? गमिनो गन्तुमिच्छतः । तथाऽऽदितः विजयाय स्वभात्मानं जयामि । ततो निजकर्मप्रकृतिमात्मीय कर्मस्वभावम् । ततो रिपुं मोहनीय कर्मेत्येवमीदृशी स्थितिर्मता परलोकसाधनम् । कस्य ! मे ममापि । कथम्भूतस्य मम ? गमिनः गन्तुमुद्यतस्येति ॥१३॥
विहिताखिलसच्चरक्षणं धृतसत्यस्थिति वीतमत्सरम् ।
त्वमितोऽमिवाभमैक नागसिधाराव्रतधर्ममाचर ॥ १४ ॥
विहितेति -- इतोऽद्य प्रभृति दे पुत्र अभयैकवागभयैकवचनः सन् त्वमसिधाराव्रतधर्ममाचर । असिधारैव व्रतं यस्मिन्सोऽसिधाराव्रतः, स चासौ धर्मश्व तमसिधारातधर्मे वीरवतमित्यर्थः । कीदृशं विहिताऽखित्टसच्चरक्षणं कृतसंकल्पाणिपालनम् । कथं यथा भवति धृतसत्यस्थिति धृता सत्येन स्थितिर्यत्र आचरणकर्मणि तद्यथा भवति धृतसत्यस्थिति घृतसत्यगुणावस्थमित्यर्थः । पुनरपि कथम्भूतम् ? वीतमत्सरं विशेषेण इतः प्राप्तः मत्सरोऽहङ्कारो येन स तं विशेषणमासा- हमहमिकम् । न हि मत्सरमन्तरेण वीरमतं सभ्भवतीति वचनात् । उपमार्थः प्रदर्श्यते । अहमिव यथाऽहमभयैकवाक् आचरिष्यामि । किमसिधाराव्रतधर्मम् । व्रतं सर्वदर्शनसंमतं ब्रह्मचर्यम् । धर्मो जीवदया । व्रतञ्च धर्मदच व्रतधर्मम् । अत्र समाहारापेक्षयैकवचनम् । असिधारेव व्रतधर्ममसि धारावतधर्मम् अत्र धर्त्तुं कर्त्तुं मल्पसौरशक्यत्वात् व्रतधर्मयोरतएव तौ खङ्गधारयोपमीयेते । कथम्भूतं तत् विहिताखिलसत्यरक्षणम् । सत्वा एकेन्द्रियादयः पञ्चेन्द्रियपर्यन्ता: जन्तवः अखित्यश्च ते सच्चाश्च अखिल सवाः विहितमखिलसत्त्वेषु, रक्षणं यस्मिन् तत्तथोक्तम् । पुनः धृतसत्यस्थिति । धृता सत्येऽनलीकवचने स्थितिर्यस्मिन् तत् । कथम्भूतं पुनः वीतमत्सरं विशेषेण इतः गतः मत्सरः आत्ममन्यता यत्र तथोक्तम् । विनष्टात्ममन्यत - मित्यर्थः । श्लेषोपमा || १४ ||
युगोंसे चले आये पृथ्वीके राज्यके इस दायित्वको अब तुम अकेले ही इस संसार में प्रशान्त रूपसे धारण करोगे और अष्ठ राजा बनोगे अतएव इस समय तुम्हें मेरी आज्ञाकी अवहेलना नहीं करनी चाहिये ॥ १२॥
शत्रुओं को वश में करनेके लिए जाने वाले तुम और परलोककी सिद्धिके लिए गृहत्यागी मेरे लिए भी ऐसी परिस्थिति है कि विजयके लिए सबसे पहिले अपनेको संयमित करो, तब अपनी दिनचर्याको व्यवस्थित करो, इसके बाद मंत्री आदि जनताका विश्वास प्राप्त करो। तब शत्रुओंको जीतो [ मुनिको भी आत्मविजय, कर्मोंकी प्रकृतियोंको जीतने के बाद ही रिपु मोहनीयपर विजय प्राप्त होती है ] ॥ १३॥
मेरे समान तुम भी समस्त प्राणियोंकी सुरक्षाकी व्यवस्था करके आदर्श मर्यादाओं का पालन करते हुए, विशिष्ट मात्मगौरवको भावनाके साथ अभयका एकमात्र नारा देते हुए आज से ही खड्ग धारण व्रतके कर्त्तव्योंका पालन करो। मैं भी तुम्हारे समान षट्कायके जीवोंकी रक्षा करता हुआ सत्य महाव्रतको पालूँगा । ईर्ष्या द्वेषको छोड़कर सबको अभयदान दूँगा और असिधारात ( ब्रह्मचर्य ) का तथा क्षमादि धर्मोका पालन करूँगा ||१४||