SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः क नृपो भरतोऽमरार्चितो भुवनं येन बभूव भारतम् । क्षणिकाः सकलाः समागमाः कृतमेकं हि विवर्तते परम् ।। ८॥ कोति—येन भरतेन आदिनाथपुत्रेण भुवनं भारतं बभूव जातम् । स भरतः नृपः नरेन्द्रः अमरार्चितः देवपूजितः सन् छ ? अत्रास्थिरत्वं भवभाजां सूचितम् । यथा सकलाः समस्ताः समागमाः बन्धुमित्रादयः अणिकाः जलबुद्बुदसदृशाः । एवञ्च सति हि स्फुट कृतं विहितं परं केवलमेकं धो(में) विवर्त्तते परिणमति प्राणिनामिति ।। ८॥ हिममुष्णाहतस्य यत्सुखं शिशिराभ्यर्दितचेतसोऽनलः । क्षणदुःखनिषेधकारण न सुखं नित्यमुशन्ति योगिनः ॥ ९ ॥ हिममिति – यत् यस्मात्कारणाहुणहतस्य धर्मततस्य हिमं सुखं जायते तथा शिक्षा दिनमः तुहिनकदर्थितचित्तस्यानलः ज्वलनः सुखं भवितुमर्हति । तस्मात्कारणात् अणदुःखनिषेधकारणं मुहूर्त्तदुःखनिरासनिमित्तमिन्द्रियव्यापारोत्पन्नं सुखं न नित्यमुशन्ति मन्यन्ते योगिन इति ।। ९ ।। यद पायि पयः सुतेन यद्विसुताभिः ससृजेऽश्रु मातृभिः । मधुरं लवणश्च किं द्वयं न पयः क्षारपयोधितोऽधिकम् ॥१०॥ यदिति--सामान्योत्तया व्याख्यायते यत् पयः क्षीरं कर्मतापन्नं सुतेन पुगापायि पीतं यदश्रु वायजलं मातृभिः ससृजे विसृष्टम् । रुथम्भूताभिः १ विसुताभिः पुत्ररहिताभिः। तन्मधुरं लवणं च किं द्वयं किं नाधिकमपि तु अधिकनेत्र, काभ्यां पयःक्षारपयोधितः क्षीरक्षारसमुद्राभ्याम् । अत्र मोहमाहात्म्यं प्रदर्शितम् ॥१०॥ रिगणय्य तदेवमंहसो विरिरंसन्नभिषेक्त मग्रिपम् । इति तं व्यनयत्सुतं सतामृणनिश्चित्ततया स्वनिवृतिः ॥११॥ विगणय्येति-इति वक्ष्यमाणापेक्षया तं पूर्वोक्तं सुतमग्रिमं रामं युधिष्ठिरञ्च दशरथः पाण्डुश्च व्यनयत् शासितवान् । किं कत्तुम् ? अभिषेक्तं राज्यपट्टाभिषेक कर्तुंम् । किं कुर्वन् ? विरिरतन् विरामं विधातुमिच्छन् । कस्मात् ? अंहसः । किं कृत्वा ! पूर्वमेवमुक्तप्रकारेण तसंसारवृत्तं विगणय्य हेयरूपतया विचार्य । अर्थान्तरमाइ । सतां सत्पुरुषाणां स्वनित्तिः सुखं स्यात् । कया ? ऋणनिश्चिततया ऋणात् निष्क्रान्तं चित्तं यत्य स ऋणनिश्चित्तः तस्य भावस्तया ||११|| युगबद्धमिमं भरं भुवस्त्वमिहैको नृपपुङ्गवः परम् । धवलो वहसे ततोऽधुना न ममाज्ञायवमन्तुमर्हसि ॥१२॥ जिसके नामपर इस देशका नाम भारत एका वह देघौले पूज्य, आदिनाथका पुत्र राजा भरत कहाँ है ? संसारके सलस्त सम्बन्ध तथा पदार्थ क्षणिक है। केवल अपना कर्म ही शेष रहता है॥ ८॥ गर्मीसे सतायेके लिए शीत सुखकर है। शीतसे पथराये व्यक्ति के लिए अग्नि ही सुखद है अतएव एक क्षणभरके दुखके निषेधके कारण सुखको योगी लोग नित्य नहीं मानते हैं ।।९॥ पुत्रके द्वारा माताके रतनसे जो दूध पिया जाता है तथा निपूती माताओंके द्वारा जो आँसू बहाये जाते हैं क्या ये दोनों ही क्रमशः मीठे और क्षार हैं ? वे क्षीरसागर तथा लघणसागरसे बड़े तो नहीं ही हैं! (तथापि संसारी प्राणी इन्हें ही सबसे बड़ा सुख और दुःख मानता है) ॥१०॥ इस प्रकार भाधना करके राजा दशरथ अथवा पाण्डने पापसे वैराग्य लेने के लिए ज्येष्ठ पुत्र राम अथवा युधिष्ठिरको निम्न प्रकारसे उपदेश दिया था। सजनोंको दायित्वोंसे उऋण होनेपर ही आत्मशान्ति सुद्दाती है ॥११॥
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy