SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ म तृतीयः सर्गः ४९ उत्प्रेक्षण इति - एतद्राजन्यकं चापेऽपि धनुरभ्यासेऽपि काव्यकर्म न तत्याज न मुञ्चति स्म । कथम्भूतं राजन्यकम् ? उत्प्रेक्षणे उत्प्रेक्षाऽलङ्कारे लक्ष्यविधौ अर्थनिरूपणायाञ्च दक्षम् । पुनः नदीष्णं प्रवीणम् । क नर्मे अष्टादशस्यलव्यावर्णनलक्षणे अथवा धर्मस्योपलक्षणत्वादर्थं कामयोर्ग्रहणम् । तेनायमर्थः- धर्मे धर्मार्थकामलक्षणे वर्गे । पुनः पटु । क ? शब्दभेदे मातरिश्वेत्येवमादौ । पुनः उच्चै रचनासु सङ्गचक्राङ्गमुरजा दिबन्धेषु निष्णातम् । श्लेषार्थोऽधुना प्रदर्श्यते कीदृशं राजन्यकमुत्प्रेक्षणे दृढमुष्टयोरवलोकने लक्ष्यविधौ च येथे व्यधायाश्च दक्षम् | धर्मे धनुर्गुणे (नदोष्ण) शब्द भेदे शब्द मेत्र लक्ष्यं कृत्वा शरमोक्षणं यत्र विधीयते स खलु शब्दभेदः तस्मिन् पटु । उच्चै रचनासु दण्डस्वस्तिका हितुरगचक्रव्यूहादिषु सैन्यरचनासु निष्णातमिति । अत्र राजन्यकस्य काव्यविद्या पुरस्सरत्वेन धनुर्विद्यापरिज्ञान कौशल्यमुपदर्शितम् ॥३७॥ ज्याघातवित्रासितदिग्गजस्य । मण्डीदारास त्रैलोक्यमालीढपदस्य मध्यमापत्य लीनं तदमंस्त रुष्टम् ||३८|| आमण्डलीति–तत् राजन्यकं कत्तु रुष्टं कुपितं सत् त्रैलोक्यं भुवनत्रयस्त मन्यते सा । कथम्भूतं भि अभावेन परिणतं (इव ) । किं कृत्वा आपत्य आगत्य किं मध्यं अन्तः कस्य संबन्धित्वेन ? आलीदपदस्य आलीढस्थानविशेषस्य । कथम्भूतस्य आमण्डलीभूतशरासनस्य आ समन्तात् मण्डलीभूतं शरासनं धनुर्यस्य ( यस्मिन्) तस्य । पुनः कथम्भूतस्य ज्याघातचित्रा सित दिग्गजत्य ज्याघातेन प्रत्यञ्चाविस्फारणेन वित्रासिता भयं नीता दिग्गजाः भाशाकरिणो येन ( यस्मिन् ) तस्य । उत्प्रेक्षा ||३८|| एवं चूड़ाताड़ितपादं परभूपा भक्त्यै कैकेयेयमुपेयुः शरणं यम् । सोऽभीतोऽयं तत्र समन्ताद् भरतोऽभूत्पुत्रः सर्वोपायविधानैर्जितशत्रुः ||३९|| एवमिति एवं 'रामलक्ष्मणशत्रुघ्नोत्पत्तिप्रकारेण सः अयमभीतः निर्भयो भरतो नाम पुत्रः अभूत् 'अजनि । क तत्र दशरथे नृपे । कथम्भूतः ? जितशत्रुः जिताः शत्रवो येन सः । कैः कृत्वा ? सर्वोपायविधानैः सामभेददण्डादिप्रयोगैः 1 कथं समन्तात् सामत्येन । यं कैकेथेयं कैकेयस्य नरपतेरपत्यं स्त्री कैकेयी कैकेय्या अपत्यं पुमान् कैकेयेयः कुमारः तं कैकेयेयं परभूपाः रिपवः शरणमुपेयुरागताः । कस्यै भक्त्यै सेवानिमित्तम् । कथं यथा भवति चूड़ाताड़ितपादं मुकुटाग्रमणिचुम्बितचरणम् । धनुष चलाने तथा लक्ष्यके भेदनमें प्रवीण, युद्धके धर्म ( कर्त्तव्य अकर्त्तव्य ) में पारंगत, शब्दभेदी बाण-संचालनमें दक्ष, अहि-तुरग-चक्र आदि व्यूहॉकी रचनायें कुशल राजपुत्रोंने चापविद्या में भी कवित्व ला दिया था । उत्प्रेक्षादि अलंकार तथा अर्थप्ररूपण में प्रवीण, धर्म पुरुषार्थ में सफल, शब्दालंकारोंके पण्डित तथा उत्तमसे उत्तम प्रवन्धकी रचना में समर्थ कवि लोग भी काव्य-कर्तृत्वको धनुविद्या समान कर देते हैं ||३७|| वे राजपुत्र धनुषको खींचकर गोल कर देते थे, उनके धनुषकी डोरीकी फटकार से दिग्गज डर जाते थे और बलपूर्वक पैर जमा देनेपर तीनों लोक सिकुड़कर एक जगह समा जाते थे तथा इन्हें रुष्ट समझते थे || ३८ ॥ अन्वय-- पूर्वं तत्र सर्वोपायविधानैर्जितशत्रुः समन्ताद् भरतः अयं पुत्रः अभीतोऽभूत् । चूड़ातादितपादं यं कैकेयेयं परभूपा भक्तयै शरणं उपेयुः । इस प्रकार से उन सब भाइयोंमें सामानादि उपायों द्वारा शत्रुओंका विजेता, लघ प्रकारसे कान्तिमान यह भरत नामका पुत्र अभय हुआ था । राजमुकुटोंके ऊपर लात मारने वाले इस कैकेयी के पुत्र की शरण में शत्रु राजा भी भक्तिपूर्वक आते थे । १. लेपाऽलङ्कारः - प०, ६० २ रामादिसमस्तसुतानां शिक्षादिक्रमेणेति चिन्त्यम् । ३. मातुलादिपक्षस्य प्रबलता सर्वेषु सुतेष्वधिकसमर्थ इति । ७
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy