SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४० तृतीयः सर्गः सर्वः कुमारः सुकुमारमूर्तिः सोष्णीषमूर्दोन्नतिरौणिकीभ्रूः । आलिङ्गितश्रीकरकङ्कणाङ्कमार्गादिवावर्तितकण्ठरेखः ||३१|| लङ्के इत्यनया क्रियया वृत्तत्रयेण सम्बन्धं दर्शयति - सर्वं इति । सर्वः समस्तः कुमारः सुकुमारमूत्तिः सुकुमारा मूर्तिर्यस्य सः सोष्णीप्रसूधन्नतिः उष्णीषः ब्रह्मद्वारस्योन्यप्रदेशग्रन्थिलक्षणविशेषः सहोणीषेण मूर्द्धानतिर्यस्य सः पुनः और्णिकी भ्रूः ऊर्णायां नियुक्तः "तत्र नियुकः " [जै० सू० ३।३११।६ ] इति उम् औणिकी । औणिक्य सूक्ष्म बहु यस्य सः और्षिकी भ्रूः "न वुहकोड: " [जै० सू० ४।३।१४९ ] इति पुंवद्भावनिषेधः । आवर्तितकण्टरेखः आवर्तिताः कण्ठरेखा यस्य सः । कस्मादिव आलिङ्गितश्रीकरकङ्कणाङ्गमार्गात् आलिङ्गिता चासौ श्री लक्ष्मीः शोभा वा तस्याः करकङ्कणस्य अङ्कं चिह्नं यत्र स चासौ मार्गः | तस्मादिव उत्प्रेक्षा ||३१|| ऊर्जखलः पर्वतभित्तिवक्षा निगूढजानुद्वयलम्बबाहुः | गम्भीरनाभिः सवृहनितम्बः श्रीगोपुरस्तम्भनिभायतोरुः ||३२|| ऊर्जस्वल इति-स सर्वः कुमारः ऊर्जस्वलः बलवान् । पर्वतभित्तिवक्षाः विस्तीर्णाच्च भूधरसदृशोरस्क इत्यर्थः । निगूढं जानुद्वयं यस्य सः लम्बौ बाहू यस्य सः निगूढ जानुद्रयश्चासौ लम्बबाहुरच निगूढजानुद्वयलम्बबाहुः अव्यक्तसुबद्धजानुद्वित्तयदीर्घतरभुज इत्यर्थः । गम्भीरा नाभिस्तुन्दिर्यस्य सः । सवृहन्नितम्बः सह बृहन्नितम्पेन वर्त्तत इति । तथा श्रीगोपुरस्तम्भेन निभे तुल्ये आयते दीर्घे ऊरू जङ्घे यस्य सः तथोक्तः । उपमा ||३२|| चतुर्दशद्वन्द्वसमान देहः सर्वेषु शास्त्रेषु कृतावतारः । गुणाधिकः प्रश्रयमङ्गभीरुः पितुः कथञ्चिद्गुरुतां ललङ्घ े ||३३|| चतुर्दशेति पुनः कीदृशः चतुर्दशद्वन्द्वसमान देहः चतुर्दशन्देन समानो न्यूनाधिक्यरहितो देहः शरीरं यस्य सः । भ्रूलोचननासाक पोल्कर्णोष्ठस्कन्धबाहुपाणिस्तनपार्श्वोरुजङ्घापादाः एतेषां चतुर्दशानां द्वन्द्व तेन । पुनः कृतावतारः कृतोऽवतारो येन सः विहिताभ्यासः । केषु सर्वेषु शास्त्रेषु । गुणाधिकः गुणपरिपूर्णः । प्रश्रयभङ्गभीरुः विनयनाशभीलुकः । इत्थम्भूतः सन् पितुः जनकस्य कथञ्चित् केनापि प्रकारेण गुरुतां गौरव ल लङ्घितवान् इति । अन्त्यदीपकम् ॥३३॥ तत्याज पुत्रो विनयं कथञ्चिजहाँ पिता नानुनयं कदाचित् । यतः पिता पुत्रमनन्यदाशं कस्यापि नाभूदपरुद्धवृत्तम् ||३४|| तत्याजेति — यतः यस्मात् कारणात् कश्चित् रामादिकः युधिष्ठिरादिको वा पुत्रः स्वपितरि विनवं न तत्याज नात्याक्षीत् तथा पिता च स्वपुत्रेषु अनुनयं प्रसादं कदाचित् काले न जहाँ न त्यक्तवान् । तस्मात् सभी राजपुत्रोंकी काया सुकुमार थी, मुकुट बाँधनेले शिर उन्नत थे, भ्रुकुटियों में ज थी, गलेमें सब ओर गोल रेखाएँ थीं जो गलेमें आलिंगन करती हुई लक्ष्मीके हाथके कंकणके निशानकी रेखाओंके समान लगती थीं ॥ ३१ ॥ वे सबके सब बलवान् थे, पर्वतके पार्श्व के समान विशाल और उभरी छाती थी, खूब पुष्ट अतपव आवृत जानुओं- पर्यन्त लम्बी भुजाएँ थीं । नाभि गहरी थी, पौद बड़े और पुष्ट थे तथा प्रवेश-द्वारके स्तम्भोंके समान विशाल जंघाएँ थीं ॥३२॥ उनके शरीरके, नेत्र, नासिका आदि चौदहों अंग एक सदृश थे, समस्त शास्त्रोंका इन्होंने गम्भीर अध्ययन किया था, अधिकतम गुणोंसे भूषित थे तथा शिष्टता के अतिक्रमणले सदैव डरते थे । अतएव अपने गुणोंके कारण इन्होंने पिताकी गुरुताको भी मात कर दिया था ॥३३॥ पुत्रने रंचमात्र भी चिनयको नहीं छोड़ा था तथा पिताने कभी भी इनपर स्नेहकी
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy