________________
माग
द्विसन्धानमहाकाव्यम्
भारतीयः- ततः युधिष्टिर भीमार्जुनोत्पत्तित्र्यावर्णनान्तरं सुमित्रोदयहेतुभूता सुमित्राणां सुहृदामुदयहेतुभूता माद्री ( मद्री) राशी तं सूनुमसूत । कथम्भूतमुन्नतिं प्राप्तम् । यः नकुल इत्याख्यामपप्रथत् प्रकटीचकार । केन कृत्वा श्रीलक्ष्मणा श्री लक्ष्माणि लक्षणानि अत्र समाहारापेक्षयैकत्वं श्रीलक्ष्म तेन श्रीलक्ष्मणा । पुनः सहदेवचर्यः सहदेवेन चर्या गमनं यस्य सः तथोक्तः सन् । पुनः अदितारिः अदिता भक्षिता अरयो येन सः कालकरालवदनार्पितशत्रुः । "अद भक्षणे" इत्यस्य धातोः प्रयोगः । यद्वा दिताः खण्डिताः अस्यः शत्रवः येन स तथोक्तः । “दो अवलण्डने" इत्यस्य प्रयोगः | श्लेषः ||२९||
राज्ञस्तथा सुप्रजसः कुलस्य सर्वस्य सोऽतीय जनस्य जातः । शत्रु नामाऽभ्युदयैकहेतुः पुत्रं पुनानं हि कुलं निराहुः ||३०||
४६
राज्ञ इति-यथा रामलक्ष्मण द्वौ पुत्रौ जातौ तथा राज्ञो दशरथस्य सुप्रजसः कामिन्याः स लोकप्रसिद्धः शत्रुघ्ननामा पुत्रो जातः । यत्तदोर्नित्यसम्बन्धात् यथेत्यध्याहार्यमत्र | काकाक्षिगोलकन्यायेन जात इति क्रिया पूर्वपरसम्बन्धपदपरामर्शिनी । तेनायमर्थः - यः अतीव अतिशयेन अभ्युदयैकहेतुः जातः । कस्य कुलस्य वंशस्य सर्वंस्य जनस्त्र च । इदानीमर्थान्तरन्यासः । हि कुटं कुलं पुनानं पुत्रं निराहुर्वदन्त्याचार्याः ।
भारतीय:--स नकुलः शत्रुघ्ननामा शत्रून् हतवत् शत्रुघ्नं नाम यस्यासौ शत्रुघ्ननामा भूत्या सुप्रजसः शोभना प्रजा यस्यास सुप्रजाः तस्य " प्रजामेवादस्" [जै० सू० ४ २ १२४ ] पाण्डो राज्ञः सम्बन्धित्वेन कुलस्व तथा तेन प्रकारेण सर्वस्य समस्तस्य जनस्य अतीव अभ्युदयैकहेतुर्जातः । अर्थान्तरं न्यस्यति कुलं पुनानं हि स्फुटं पुत्रं निराहुः । उक्तञ्च
"पुष्णाति धर्म हि फुलक्रमेण समागतं यः कृपया प्रभूतम् । कुलं पुनीसे जनकस्य की पुत्रं पवित्रं प्रवदन्ति शिष्टाः " ॥ १॥
अर्थान्तरन्यासः ||३०|
को जन्म दिया था। पीढ़ियोंसे ख्यात अपने वंशके शत्रुओंका संहारक तथा देवताओंसे अनुगत उस राजपुत्रने अभ्युदयकी प्रेरक श्रीलक्ष्मण संशाको धारण किया था।
अन्वय- ततः सुमित्रोदयहेतुभूता सही उसतिं प्राप्तं सूनुम् असूत । अदितारिः सन् यः सहदेवचर्यः नकुलः श्रीलक्ष्मणाख्यां अपप्रधत् ।
भीम-अर्जुन के जन्म के बाद शिष्ट बन्धु बान्धवोंके उत्कर्षकी सहायक महारानी महीने परम विकासको प्राप्त पुत्रको जन्म दिया था । शत्रुओंके मान-मर्दक होकर भी 'सहदेव' से अनुगत इस नकुल पाण्डुपुत्रने अपने नामको लक्ष्मी और सल्लक्षणोंके लिए प्रसिद्ध किया था ||२९||
अन्धय-तथा राज्ञः सुप्रजलः कुलस्य सर्वस्य जनस्य अतीव अभ्युदयैकहेतुः सः शत्रुघ्ननामा जातः । हि कुलं पुनानं पुत्रं निराहुः ।
जैसे दशरथ राजाके भरतादि हुए थे वैसे ही सुमित्रा महारानीसे अपने वंश तथा समस्त जनता के अत्यन्त उत्कर्षका साधक वह शत्रुघ्न नामका पुत्र हुआ था। ठीक हैं, कुलको पवित्र करनेवालेको ही वास्तविक पुच कहते हैं I
अन्त्रय-राज्ञः सुप्रअक्षः तथा जातः शत्रुघ्ननामा सः कुलस्य सर्वस्य जनस्य अभ्युदयैकद्देतुः ।
महाराज पाण्डुकी भट्टी महारानी से पूर्वोक्त प्रकार से उत्पन्न शत्रुओंके विनाशके कारक ख्यात वह सहदेव अपने वंश तथा समस्त जनताकी उच्चतिका प्रधान कारण था । निश्चयसे पुत्र वही है जो वंशको पवित्र करे ||३०||
१. रामभरतलक्ष्मणाः त्रयः पुत्राः जाता इति चिन्त्यम् । २. स सहदेवः नकुलसहचर इति ।