________________
तृतीयः सर्गः दिनानि लब्ध्वा ववृधे शशीव कुब्जानवष्टभ्य विचक्रमे च ।
किश्चिद्वभाषे सवयोभिरल्पं यात्रा जनस्योपदिशनिवासीत् ॥२१॥ । दिनानीति-दिनानि दिवसानि लब्ध्वा प्राप्य स पुत्रः ववृधे वृद्धि गतवान् । क इव शशीव चन्द्र इव । विचक्रमे चरणाम्यां चचाल । किं कृत्वा कुब्जान अवष्टम्य अवलम्ब्य । चकारोऽत्र समुच्चये । तेनायमर्थः । न केवलं विचक्रमे बभाषे च उक्तवान् । किं किञ्चित् अल्पम् । कथं सक्योभिर्मित्रैः सह सार्द्ध जनस्य लोकस्य यात्रां लोकस्थितिम् उपदिशन्निवासीत् बभूवेति । समुच्चयः ॥२१॥
कपोलयोमूनि पादयोस्तं निमीलिताक्षं नृपतिश्चुचुम्ब । _स्वस्य प्रियायाश्च सुतेऽवतीर्णमास्वादयन् स्नेहमिवैकरूपम् ॥२२॥
कपोलयोरिति-निमीलिताक्षं संकुचितलोचनमिति क्रियाविशेषणम् । कपोलयोः गल्योः । मूर्द्धनि मस्तके । पादयोश्चरणयोः । एतेषु स्थानेषु तं पुत्रं नृपतिः राजा चुचुम्ब चुम्बितवान् । किं कुर्वन्निव सुतेऽवतीर्ण स्वत्यात्मनः प्रियायाश्च एकरूपं स्नेहमास्वादयन्निव ! उत्प्रेक्षा ॥२२॥
स प्राज्ञमाहाकुलशूरसङ्ग चकार पोतुः प्रथमं नरेन्द्रः । पृक्तं नवं भाजनमत्र' येन तद्न्ध रूपं हि भवत्यवश्यम् ।।२३।।
स इति-स नरेन्द्रः नृपः प्रथम पातुः पुत्रस्त नाशमाहाकुलशूरसङ्गं प्राज्ञाः कुशाग्रबुद्धयः महाकुले जाता माहाकुलाः महान्यये जाताः सूर्यसोमादिवंशसमुद्भवाः शूरा वीरास्तेषां राङ्गं संसर्ग चकार कृतवान् हि यस्मात्कारणात् येन वस्तुना पृक्त वासितं नवं भाजनममत्रमत्र लोकेऽवश्यं नियमेन तद्गन्धरूपं तद्गन्ध एव रूपं यत्य तादृशं भवति जायते । उक्तं च- "नवान्यमत्राणि शुभोऽशुभो वा धासोऽपि लग्नोऽनयदात्मभावम् । थान्येव तानीतरथा विधातुं शक्नोति नूनं न चतुर्मुखोऽपि ॥" अर्थान्तरन्यासः ॥२३॥
लिपि स संख्यामपि वृत्तचौलः समाप्य वृत्तोपनयः क्रमेण ।
ब्रह्माचरन् षोडशवर्षवद्धमादत्त विद्याः कृतवृद्धसेवः ।।२४|| लिपिमिति-स पुत्रः कृतवृद्धसेवः कृता वृद्धानां गुणवता सेवा येन सः । विद्या आन्वीक्षिक्याद्याः आदत्त गृहीतवान् । किं कुर्वन् षोडशवर्षबद्ध (ब्रह्म) ब्रह्मचर्यमाचरन् । षोडशवर्षाणि यावदित्यर्थः । कथम्भूतः वृत्तोपनयः शिष्यत्वमुपनीयते येनासौ उपनयः मौसीव्रतबन्ध इत्यर्थः । वृत्तो निष्पन्न उपनयो यस्य सः । क्रमेण इत्यस्यायमर्थः पूर्व प्रथमं दृत्तचौल: वृत्तं चौलं चूसकर्म यस्य सः पश्चाद्वृत्तोपनयः । किं कृत्वा समाप्य अभ्यस्य समाप्तिं नील्वा । काम् ? लिपि पङ्क्तया वर्णविन्यासं संख्या गणितमपि चेति । समुच्चयः ॥२४॥
___ ज्यों-ज्यों दिन बीतते थे त्यों-त्यों राजपुत्र चन्द्रमाके समान बढ़ते जाते थे। कुबड़ोंको पकड़कर चलते भी थे तथा कुछ कुछ बोलते थे। अपनी समान वयके लोगोंके साथ जब थोड़ा भी चलते थे तो ऐसा लगता था कि जनताको जीवनयात्राकी शिक्षा दे रहे हैं ॥२१॥
राजा दशरथ अथवा पाण्डु आँखें मूंदकर राम अथवा युधिष्ठिरके गालों, मस्तक अथवा पैरोंको चूमते थे । प्रतीत होता था कि अपने और पट्टरानीके मिले हुए और पुत्रमें उतरे स्नेहका स्वाद ही ले रहे हैं ॥२२॥
उन नरपतिने प्रारम्भसे ही अपने पुत्रको अत्यन्त बुद्धिमान् , उत्तम कुलमें उत्पन्न पीर पुरुषों के साथ कर दिया था। क्योंकि नूतन पाश्रमें जिस वस्तुका संसर्ग हो जाता है उसकी गन्ध निश्चयसे बनी रहती है ॥२३॥
- पहिले चूडाकरण उसके बाद यज्ञोपवीत संस्कारको प्राप्त उस राजपुत्रने क्रमशः वर्णमाला तथा अंकगणितकी शिक्षाको प्राप्त करके सोलह वर्षकी चयतक ब्रह्मचर्यका पालन किया था और वृद्धजनोंकी सेवा करते हुए समस्त विद्याओंको सीखा था ॥२४॥