SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ द्विसन्धानमहाकाव्यम् सममिति-द्विषन्तः शत्रवः शुकसारिकाभिः सम सार्द्ध विपाशिताः विमोचिताः सन्तः वल्गु मधुरं यथा शिशु बालं शशंसुः प्रशंसयामासुः । गृहे गृहे निर्मोक्षमाणमात्मानं मोक्तुमिच्छन्तं वात्सकं सर्णकसमूहं नागरो जनः धेनुकेन गोसमूहेन सह सार्द्धमभ्यमुञ्चत् समन्तात् मुक्तवान् ॥१८॥ पुरोहितावर्तितजातकमो नीरञ्जित रत्नमिवाकरस्थम् । पुत्र प्रकाशोऽय मञ्चन क्रिया दि नियुति संस्करोति ॥१९॥ पुरोहितेति-पुरोहितेन पुरोधसा आवर्तितं जातकर्म यस्य स तथोक्तः सन् अयं पुत्रः तनयः प्रकाशहेतुत्वात् प्रकाशः तेजस्वी अभूत् अजनि | किमिव आकरस्थं खनिसमुत्पन्न रत्नमिव भणिरिव कथम्भूतं नीरजितमुत्तेजितम् । हि स्फुटं निसृष्टद्युति अविनष्टकान्ति द्रव्यं क्रिया की संस्करोति विनयति । अर्थान्तरन्यासः ॥१९॥ पूर्व परं ज्योतिरुपाय॑ देवं स्थेयान् प्रकृत्या विशदो गरीयान् । मनोऽभिरामोऽयमजातशत्रुरित्यर्थयुक्तं जुहुवे नृपेण ॥२०॥ पूर्वमिति-नृपेण दशरथेन राज्ञा अर्थयुक्तं सार्थकमयं पुत्रः राम इति जुहुचे आहूतः । कथम्भूतः प्रकृत्या स्वभावेन स्थेयान स्थिरः । किं कृत्वा परं ज्योतिदेवं उपाय॑ अर्चयित्वा । कथम्भूतः रागः विशदः स्वच्छः स्वच्छाशयः कथं 'मनोभिः मनसा पुनः कथम्भूतः गरीयान् गरिष्ठः पुनः अजातशत्रुः न जाताः शत्रवो यस्य सः अथवा यमात् मृत्योर्जातं मरणलक्षणं कर्म यत् तत् यमजं यमजं अतन्ति गच्छन्ति प्राप्नुवन्ति ये ते यमजाताः नन्द्यादिनेति सूत्रेणा प्रत्ययः इत्थम्भूताः शत्रयो यस्मात् सः । अथवा-यमाय यावजीवव्रताय जाताः शत्रवी यस्मिन्नुत्पाने सति स्वीयं स्वीयराज्यमपहाय पराभवभवात् वैरिणो प्रतिनो बभूवुरित्यर्थः । भारतीयः-नृपेण पाण्डुना राशा अर्थयुक्तमयं पुत्रः अजातशत्रुयुधिष्टिर इति जुहुवे आहूतः । कथम्भूतः मनोभिरामः कमनीयः अथवा आमः सा कैः मनोभिः चित्तैः मनसः कौटिल्यरहितत्वात् बहुवचनमत्र । शेषं पूर्ववत् । श्लेषः ॥२०॥ शत्रुओंके साथ-साथ बन्धनसे मुक्त किये गये, तोता और मैना आदि अपनी मधुर ध्वनियोंसे नवजात राजपुत्रकी प्रशंसा करते थे। मुक्त करनेकी लोगोंको ऐसी धुन बँध गयी थी कि घर-घरसे गायोंके साथ बछड़े भी छोड़ दिये थे ॥१८॥ पुरोहितके द्वारा जन्मके संस्कार कर दिये जानेपर खानसे निकले किन्तु खरादपर चढ़ाकर चमकाये गये रत्नके समान यह राजपुत्र भी तेजस्वी दिखने लगा था। स्वभायसे कान्तिमान पदार्थको भी संस्कार अधिक कान्तिमान बना देते हैं ॥१९॥ अन्वय-नृपेण पूर्व परं ज्योतिदेवं उपाय॑ स्थेयान् , प्रकृल्या विशदो गरीयान् मनोभिः अजातशत्रुः भयम् अर्थयुक्त रामः इति जहुवे। राजाने सबसे पहिले परम ज्ञानी भगवान्की सविधि पूजा करके पुत्रको सार्थक नाम रामसे पुकारा था क्योंकि यह वह राजपुत्र स्थिर, स्वभावसे निर्मल और गम्भीर था तथा मनसे भी कोई इसमः शत्रु नहीं था। अथवा स्वभावले स्थिर, मनसे स्वच्छ तथा गम्भीर और इसके शत्रु आजीवन व्रत ( यम) लेकर चले गये थे अथवा यमलोक (मृत्यु) चले गये थे। अन्वय-..... 'मनोभिराम इति अर्थयुक्तं अजातशत्रुः जुहुवे.... । सर्वप्रथम केवलशानी भगवान की पूजा करके राजा पाण्डुने राजपुत्रको सार्थक नाम अजातशत्रु (युधिष्टिर) से पुकारा था क्योंकि वह अत्यन्त दृढ़ भावसे निष्कपट, परम गम्भीर तथा सबके मनको मोह लेता था ॥२०॥ १. समुखयालङ्कारः-५०, द० । २. देव देवानामिदं दैवम्-प०, २० । ३. उपाय अर्जयित्वा-१०, द०। ४. अन्न राघवीयपक्ष टीकोक्तदिशा मनोभिः रामाः इति छेदः । अन्न दलोपदीर्वाप्रवृत्तिरूपः संधिदोपश्चिन्त्यः। भारतीयपक्षे तु मनोभिरामः मनोभिः मामः आई इतिच्छेदो युक्त एव ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy