SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ द्विसन्धानमहाकाव्यम् नेति - बटेन सामर्थ्येन कृत्वा स्वयमात्मना यो राजा अनिलोऽपि वायुरपि स कथं नानिल इति विरोधः । नैवं न विद्यते इला भूमिर्यस्यासी अनिलः न अभवत् भूमिपरित्यक्तो नाभूदित्यर्थः । सनीतिरपि सह नीत्या वर्त्तमानोऽऽपि अनीतिगोचरोऽभवदिति विरोधः । नैवं न ईतयो गोचरा लोचनविषया यस्यासौ अनी तिगोचरः । ईसयः सप्त । तदुक्तम् ३४ "अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । स्वच परवकं च सप्तैता इतयः स्मृताः ॥ १ ॥ शशिशिशिरः शशीव चन्द्र इव शिशिरः शीतलः स कथमशीतक इति विरोधः । न शीतको मन्दः कार्ये ध्वनल्स इत्यर्थः । समे खलस्त्विति । यः समे औदासीन्यावलम्बिनि पुरुषे खलो दुर्जनः । इत्थमपि दूषितो न जनेन विरोधोऽयम् । परिहियते । मेलल्या कटिसूत्रेण सह वर्त्तमानः यद्वा समे साधी अखलः प्रतिपालकः शिष्टानां प्रतिपालनं दुष्टानां निग्रहः राज्ञां धर्म इति वचनात् । उक्त "दुष्टानां निग्रहो नीत्या शिष्टानां प्रतिपालनम् । राज्ञां धर्मोऽयमेवासी नान्यः कचिच विद्यते ॥ १॥ इति' ||२९|| न्याय्यं सुखावहम भुवि धर्मराज्य मित्यात्मनः प्रथयतः प्रजयानुभावम् । तस्याभवत् प्रियतमा गुणपक्षपातालक्ष्म्याः स्वयंवरकृता प्रथमा सपत्नी ॥ ३० ॥ न्याय्यमिति — अहो आश्चर्य भुवि पृथिव्यां सुखावहं सुखमावहतीति तथोक्तं धर्मराज्यं धर्मात् प्राप्तं धर्मेोपलक्षितं वा राज्यं न्याय्यं न्यायादनपेतं यथोक्तप्रजापालन लक्षणमात्मनः स्वस्थ प्रजायाः अष्टादश प्रकृत्या कृत्वा अनुभाव माहात्म्यं प्रथयतः प्रख्यापयतः समस्तस्य दशरथस्य प्रियतमा भार्या लक्ष्म्याः प्रथमा सपत्नी अभवत् बभूव । किंविशिष्टा सती स्वयंवरकुता स्वयं परोपदेशमन्तरेण नियते परिणीयते राजपुत्र्या राजपुत्रो यत्रासौ स्वयंवरः । स्वयंवरो कृतो यया सा करमात् गुणपक्षपातात् गुणा औदार्यादयः तेषां पक्षपातोऽङ्गीकारः तस्मात् समान गुणशीलत्वमुपदर्शितम् । इदानीं भारतीय : – अहो भुवि न्याय्यं सुखावहं धर्मराज्यं धर्मस्य पाण्डोर्नराधिपत्य राज्यं तथोक्तमिति आत्मनः अनुभावं प्रजया कृत्वा प्रथयत्तः तस्य पाण्डो राज्ञः प्रियतमायाः लक्ष्म्याः प्रथमा सपत्नी अभवत् गुणपक्षपातात् स्वयंचरकृता सती । श्लेषः ॥३०॥ कलागमानामधिदेवतेव वेलेव लावण्यरसाम्बुराशेः ! अन्तर्निधिर्भूरिव वीरभूमिर्या वन्द्यतेऽद्यापि सती सतीभिः ॥३१ ॥ कलेति - अद्यापि साम्प्रतमपि या सती पतिमता सतीभिः पतिव्रताभिः भामिनीभिर्वन्वते नमस्क्रियते वह बलमें साक्षात् अनिल (वायु) था। तो भी अनिल (भूमि-राज्य-हीन ) न था, नीतिका प्रतिपालक था अनीति (अतिवृष्टि आदि छः इतियोंसे रहित ) के लिए ख्यात था । चन्द्रमाके समान शीतल था तो भी अ-शीतल ( ढीला अकर्मण्य नहीं ) था तथा करधनीको धारण करता था तो भी लोगोंके द्वारा उसपर समे-खल (साधु पुरुषोंके साथ दुष्टता करनेवाला) लाञ्छन नहीं लगाया गया था ||२९|| न्यायमार्गपर लीन, सबको सुखकर धार्मिक राज्य द्वारा अपना तथा प्रजाका माहात्म्य प्रकट करते हुए भी उस दशरथकी राज्यलक्ष्मीकी प्रथम सौत वह प्रियतमा रानी हुई थी जिसने गुणोंपर रीझकर स्वयंवर में उसका वरण किया था । धर्म ( पाण्डु ) का राज्य न्यायप्रधान, सुखकर तथा राजा प्रजाके पुण्यका फल था तथापि आश्चर्य था कि स्वयंवर में गुणोंपर मोहित उसकी प्रियतमा रानी राज्यलक्ष्मीकी प्रमुख सपत्नी थी ॥ ३०॥ सती स्त्रियां शिक्षा संगीतादि कलाओं तथा आगमोंकी मुख्य देवीके समान, लावण्य१. विरोधालंकारः प०, दु० । २. कामिनीभिः प०, ६० ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy