________________
२७
द्वितीयः सर्गः
उपाददे परसुखदुःख चिन्तया विभूतिषु क्वचिदुदसिच्यत स्वयम् ।
प्रमाद्यति स्म न विषसाद योगिवद्दिवानिशं विधिषु विभज्य यः स्थितः || ९ | उपादद इति--परमुखदुःखचिन्तया परेषामात्मविल्क्षणानामाश्रितानामनाथानां च सुखदुःखे हिताहिते तत्र चिन्ता जनोऽयं केनोपायेन दुःस्यादपाक्रियते सुखं च भविताऽस्येति परामर्शतिया स्वयं परोपदेशभनपेक्ष्य कर्तृभूतया चिन्तया उपाददे | कर्मतानो यो राजा तथा विभूतिषु सम्पत्सु कचित्कञ्चित् स्थाने नोदसिच्यत । स्वयं गर्वेण नान्नुभूयते स्म । क इव योगीय औदास्यावलम्वि मुनीन्द्रवत् न प्रमाद्यति स्म न प्रमत्तो वभूव । न faxसाद न विषादेन विषण्णो वभूव । विधिषु धर्मार्थकामलक्षणेषु कार्येषु दिवानिशमहोरात्रं स्वयं विभज्य आत्मानं विभागीकृत्य यो राजा स्थित इति समुचवालङ्कारः ||८||
द्विषो जनद्विलय भयान्न्यपातयत् न्यपेक्त समरमपि सन्ततीच्छया । गृहीतवान् करमपमित्ययाचितुं स्वजन्म यः समगमयत्परार्थताम् ॥ १० ॥
द्विप इति -- जगद्विख्यभवात् सोकविनाशभीला द्विषो रिपून् न्यपातयत् व्यापादयामास । स्मरमपि काममपि सन्ततीच्छया सन्तानामिवेग व्यपेक्षा अनुभव | अमित्ययाचितुं याचित्वा दातुं करें सिद्धायं गृहीतवान् स्वीकृतवान् । अनवा युक्तया यो राजा परार्थतां साफल्यं त्वजन्म आत्मोत्पत्तिं रामगमयत् अनैपीत् । समुच्चयः ||१०||
जिगाय षड्विधमरिमन्तराश्रयं यतः स्मयं त्यजति न पडूविधं बलम् ।
न यस्य यद्रूगसनमदीपि सम्रकं स्थिराऽभवत् प्रकृतिषु सप्तसु स्थितिः ॥ ११ ॥ जिगायेति यतो वरमात् कारणात् अन्तरा यमन्तरङ्गोद्भवं पत्रिमं पप्रकारमरिं रिपुं जिगाय जितवान् अनुचितः प्रणीताः का सहोपलोम (मान) मदः क्षितीशानामन्तरङ्गी हि षड्वर्गः । उक्तञ्च"कामः क्रोधश्च मानश्च लोभो हर्षस्तथा मदः ।
अन्तरङ्गोऽरिषड्वर्गः क्षितीशानां भवत्ययम् ॥ १॥ [ का. नी. १५७]
अत एव यं नृपतिं बलं सैन्यं न त्यजति स्म न मुमोच हिरण्यदानसम्भाषणाभ्यामरा विनिवारणेन व स्वामिनं सतीष्ववस्थासु चलते संवृणोति दुस्तरं तारयति इति वलं तच्च मौलभृतक श्रेण्यारण्यदुर्ग मित्रभेदम् | मीलं पट्टसाधनम्, भृत ं पदातिवलम् श्रेणयोऽष्टादश; सेनापतिः, गणकः, राजभेष्टी, दण्डाधिपतिः मन्त्री, महत्तरः, तलवरः, चत्वारो वर्णाः चतुरङ्गबलं, पुरोहितः, अमात्यो, महामात्यः । आरण्यमाटविकम्, दुर्गे धूलिकोट पर्वतादि, मित्र सौहृदम् । उक्तञ्च
3
जो दूसरोंकी सुखकी प्राप्ति तथा दुखहानिकी चिन्ताले प्रेरित होकर स्वयं ही लोकोपकारक कार्यों में लगा रहता था, अपने वैभव और सम्पत्तिके कारण कभी उसके मनमें अहंकार नहीं आया था। वह न कभी प्रमाद में पड़ता था और न खेदखिन्न ही होता था तथा अपने दिन-रातको धर्म-अर्थ तथा कामके कार्योंका विभाग करके जीवन व्यतीत करता था ॥९॥
यह राजा संसारके विनाशके भयसे शत्रुओंका संहार करता था । सन्तानकी इच्छा से काम सेवन करता था, राजस्वको भी लेकर दूसरोंको देनेके लिए प्रजासे लेता था इस प्रकार उसने अपने जन्मको ही परार्थ कर रखा था ॥ १०॥ .
·
यतः इसने काम, क्रोधादि छहों प्रकार के अन्तरंग शत्रुओं को जीत लिया था अतः मौल, भूत, आदि छह प्रकारकी सेना इसे नहीं छोड़ती थी । मथ, स्त्री, द्यूत, आदि सातो सन इसके मनमें नहीं आये थे अतपत्र स्वामी, अमात्य, सुहृद, कोश आदि सातों प्रकृतियों की दृष्टिले उसकी स्थिति दृढ़ थी ॥११॥
१. 'गोऽरिषड्व-द०, प० । २. वलवर - प० । ३. कोटि- प०, कोट-द० ।