SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः . . सती पतियता पुनः गतारिपुत्रा गता विनष्टा अरिवत्पुत्रा यस्याः सा यस्या अरिवत् पुत्रा नोत्पन्ना पुनः सगुणा राशीलौदार्यादिका पुनः यशोधिका कीर्तिबहुला पुनः समाऽव्यभिचारिणी पितृमातृकुलेन तुल्या अथवा मया लक्ष्म्या राह वर्तमाना समा पीवरनिम्ननाभिका अपि समन्तात् ईः लक्ष्मी, शोभा तया वरा मनोज्ञा निम्ना नाभियंत्याः सा अपि शब्दस्याकारस्यापादरादिना तोपोऽत्रेति सम्बन्धः । (पुरी) नगरी कथम्भूता गतारिपुत्रासगुणा गता नष्टा था समन्तात् रिपवः त्रासगुणेन यस्याः सा यशोऽधिका सर्वदिवप्रसिद्धा पुनः समानवापी वरनिम्ननाभिकाः स्वच्छगम्भीरगन्यजला यस्यां सा पन:-वरं निर्मलं निम्नम् अतरपशि नाभौ मध्ये के जलं यासां तास्तथोक्ताः समानाः समचतुरना पाप्यो दीर्घिका वरनिम्ननामिका की स्थानमा यः दैत्यैः सह वर्तमाना दानवैः कृतोपद्रदत्वात् तत्रत्यानां जनानां सती समीचीना सुखहेतुः कथं स्यादिति विरुद्धं नैवं सदा सर्वकालं नवा नूतना फायतामनवरतमपूर्ववन्दातीति भावः । अत्र श्लेघोपमा विरोधश्च ॥४९॥ को वा कविः पुरमिमा परमार्थवृत्त्या शक्रोति वर्णयितुमत्र विनिर्णयेन । नित्यं विधिः सततसनिहितो विभूतिमन्यादृशं सृजति यत्र धनंजयाय ॥५०॥ क इति-यत्र नगर्या नित्यं सर्वकालं सततसन्निहितः अत्यन्तनिकटवती विधिश्चतुर्मुखो विभूति सम्पदमन्यादृशमपूर्व धनं विनिर्णयेन विहितप्रतिशाततया सृजति विदधाति कस्मै जवाय रामाय ! अत एवात्र जगत्यां कः कविः कवयिता' वेति प्रकारान्तरे दैत्यगुरुर्वा पुरी नगरीमिमां वर्णयितुमुपलोकयितु शमोति समर्थो भवति अपि तु न भवति कया परमार्थवृत्या तत्त्वत इति । भारतीयपक्षे-धनलयाय अर्जुनाय आक्षेपालङ्कारः ॥५०॥ इति निरयद्यविद्यामण्डनमण्डितपण्डितमण्डलीमण्डितस्य घट्तकंचक्रवर्तिनः श्रीमविनयचन्द्रपण्डितस्य गुरोरन्तेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोद्भवचारुचातुरीचन्द्रिकाचकोरेण विरचितायां द्विसन्धानकर्धनञ्जयस्य राघवपाण्डवीयापरनाम्नः काव्यस्य कौमुदीनामदधानायां टीकायामयोध्याहास्तिनपुरल्याणनो नाम प्रथमः सर्गः ॥१॥ अन्वय-तारिघुनासगुणा, यशोऽधिका, समानवापीघरनिम्ननाभिका सदा नधा इर्य सती नगरी कथं कुलस्त्री इव न स्यात् । शत्रुओंके भयसे परे, अयोध्यतादि गुणवत्ती, विशाल कीर्ति के कारण सर्वविदित, चौकोर सुन्दर गम्भीर जलपूर्ण धावड़ियोंसे पूर्ण, दर्शकोंके लिए सर्वदा नूतन यह प्रशस्त नगरी कुलवधूके समान क्यों न होगी अपितु होगी ही ॥४९॥ कौन ऐसा कवि है जो प्रतिक्षा पूर्वक इस नगरका वास्तविक वर्णन कर सके, जहांपर सर्वदा उपस्थित भाग्य ही रामचन्द्रजी (जयाय)के लिए प्रतिदिन अन्यत्र अनुपलब्ध सम्पत्ति और धनकी सृष्टि करता है अथवा अर्जुनके (धनंजयके) लिए लोकोत्तर वैभवकी सृष्टि करता है ॥५०॥ निरवविद्याभूषणभूषित पण्डितसमाजसे शोभित, पदर्शनचक्रवर्ती, श्रीविनयचन्द्र गुरुके शिष्य, समस्त कलाओंमें निपुणता रूपी चन्द्रिकाके चकोर, देवनन्दि द्वारा विरचित, राघवपाण्डवीय नामसे ख्यात धनञ्जयकविकेद्विसंधान महाकाव्यकी कौमुदी टीकामें अयोध्या हास्तिनपुर वर्णन नामक प्रथम सर्ग समाप्त । १. रतं मराणां सपूर्वाऽप्यपूर्वध-द०, ५०। २. कविता-२०, ५०। ३. लीडितस्य प० । ५. रेण नेमिचन्द्रेण वि-प..५। ५.गः समाप्तिमगमत् -द।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy