SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः स्तनजघनभरेण भूरिणा दयिततनौ दयिता ममौ गुरुः । पृथुनि निजचले बहुच्छले मनसि हि माति कियत्यसौ तनुः ||६६ ॥ स्तनेति — दयिता वल्लभा दयिततनो वल्लभमूर्ती ममी अवकाशं लेभे कथम्भूता ? भूरिणा गुरुणा स्तन जघन भरेण कुचनितम्बभारेण गुरुः, युक्तमेतत् हि यतः कियती तनुरसो माति क्व मनसि कथम्भूते ? पृथुनि विस्तीर्णे पुनः निजचले स्वतश्चपले, पुन: बहुच्छले प्रचुरप्रपञ्चे इति ॥ ६६ ॥ क्षेपयन्निव मुखामुखमानं मानसीं कलुषतां कुसुमेषोः । संविभाषिषुरिवासच मत्तश्चुम्बनेषु रमणः कणति स्म ||६७॥ क्षेपर्यान्नति – रमणो वल्लभः क्वणति स्म कूजति स्म किं कुर्वन्निव ? मानं क्षेपयन्निव त्याजयनिव चुम्बितुमहं कुशली भवामीत्यहङ्कारं क्षेपयन्निवेत्यर्थः केषु ? चुम्बनेषु कथं यथा भवति ? मुखामुखि भुखेन मुखेन आश्रित्य इदं प्रवृत्तं मानक्षेपणकर्म, किं कुर्वन्निव ? संबिभाषिषुरिव संभाषितुमिच्छति, काम ? कुसुमेपोः स्मरस्य मानसीं चित्तोद्भवां कलुषताम् कथम्भूतो रमण: ? आसवमत्तः ॥६७॥ कोपाश्रुभिः कालवणैः परीतः स्याद्वा स लावण्यमयः प्रियोष्ठः । कुतोऽन्यथा तं पितामुदन्या माधुर्यवत्प्रत्युत हन्ति तृष्णाम् ||६८ || कोपैति यः पूर्वं मधुरमधुरमिति कृत्वा स्वादितः स प्रियोष्ठ, अत्र प्रियोष्ठयोविकास्यत्वादेकवद्भावः । लावण्यमयो वा लावण्यनिर्मित इव स्यात् कथम्भूतः ? कोपाशुभिः कोपवशात् प्रवृत्तनेत्रजलैः परीतो व्याप्तः सिक्त इत्यर्थः कथम्भूतैः सद्भिः ? कालवणैः ईषत्क्षारैरत्र कोपासिकत्वाची पल्लवणत्वममृतमयत्वात् प्रचुरमाधुयं चास्ति "प्रियोष्ठोऽमृत" इति श्रुतेः, ईषल्लवण ( ेन) संस्कृतो मधुररसोऽमृतमेव स्यात् चिरंतनस्यास्वाद्यमानत्वात्केवलो हि मधुररसो विरसतां रसनायामुत्पादयति सचिरमास्वादने तस्य विरस्यमानत्वादितिभावः अन्यथा यद्येवं विधो न स्वरूपेण स्यात्तदा कुतः कस्नादुदन्या पिपासा तृष्णामभिलाषं हन्ति केषाम् ? कामुकानां, कि कुर्वतां सताम् ? माधुर्यवत् माधुर्यमिव प्रत्युत विशेषतः प्रियोष्ठ पिबताम् ।।६८।। प्रथममधरे कृत्वा श्लेषं व्रणं निदधे वधू रतिविनिमयः प्रीतेनायं कुतोऽप्यनुशय्यते । स्वयमिति भयात्सत्यंकारं प्रदातुमिवोद्यता ३३७ ननु च सबलाः कृत्ये नाम्ना भवन्त्यबलाः स्त्रियः ॥ ६६ ॥ प्रसव पीनेके कारण मत्त प्रेमी अपने मुखसे प्रियाके मुखपर चुम्बन करते-करते कूंज उठा था । मानो वह कामदेव के मनकी कालिमाको फेंकने की दृष्टिसे वार्तालाप ही करनेको तैयार था ॥ ६७ ॥ बहुत थोड़े नमकीन प्रेम-कोपके सुग्रोंसे भोगा प्रेमिकाका ओठ प्रत्यन्त सुन्दर ( हलका नमकीन होनेसे सुस्वादु ) हो गया था। यदि ऐसा न होता तो उसे पीनेवाले प्रेमियोंको ( प्रेमको) प्यास उसी प्रकार क्यों शान्त होती जैसी मधुर पानसे होती है ॥ ६८ ॥ प्रसन्न पतिदेव किसी कारण से प्रेम-क्रीड़ाके अपरिवर्तनको लेकर पश्चात्ताप न करें इस भयसे तथा ठीक तौरसे प्रतिफल देनेकी इच्छासे ही प्रेमिकाने स्वयं पतिका आलिंगन १. स्वागता वृत्तम् । २. उपजातिश्छन्दः । ४३
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy