SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १९ प्रथमः सर्गः धनुर्गुणग्राहिषु नप्रवृत्तिषु प्रशुद्धवंशेषु परस्य पीडकम् | ऋजुप्रकारेषु कृतायतिष्वस मिनसि यस्वा हृदयानि वाणः ॥४०॥ धनुरिति यस्यां नगर्यां गुणग्राहिषु गुणो मौवा तं गृह्णन्तीत्येवंशीयः तेषु नम्रवृत्तिषु नम्रा नमनशी वृत्तिर्येषां तेषु प्रशुद्धदोषु प्रशुद्धो गुणै रञ्जितो' वंशो वेणुर्येषां तेषु पदार्थेषु मध्ये धनुरेव पीडकं कस्य १ परस्यान्यस्व हृदयानि भिनत्ति | पक्षे गुणग्राहिषु गुणः शास्त्रचातुरीलक्षणः तस्य ग्राहिपुर नमनस्वभावेषु * (प्र) शुद्धयंशेषु "शुद्धान्वयेषु जनेषु मध्ये इति शेषः । ऋजुप्रकारेषु सरलवृत्तिषु कृतावतिषु विहितदैर्येषु पदार्थ मध्ये भिनति असो मार्गणो वाण एव परं नान्यो जनः प्राञ्जलवृत्तिषु कृतोत्तरकालेषु इत्थंभूतेषु मध्य इति सम्बन्धः ||४०|| बिलोलनेत्रेषु कुशाग्रवृत्तिषु प्रगीतरतेषु मृगेषु चापलम् । न यत्र तीक्ष्णाः परदारवृत्तयः परे कृपाणात्कलहप्रवेशिनः ॥४१॥ विलोलेति-यत्र यस्यां नगर्यां विलोलनेत्रेषु चञ्चललोचनेषु कुशात्रवृत्तिषु' दर्भा प्रतिषु प्रगीतरक्तषु प्रगीतं नामोत्कटगानं (तंत्र) सक्तषु मृगेषु हरिणेषु चापलं चञ्चलत्वं नेतरेषु जनेषु कथम्भूतेषु सत्सु चपलनयनेषु कुशामबुद्धि तीक्ष्णधिपणेषु प्रगीतरतेषु ( प्रकृष्ट) गीततत्परेषु तीक्ष्णास्तीवाः परदारवृत्तयः परेषां दारो विदारणं तस्मिन् वृत्तिर्येषां ते । कलहप्रवेशिनः कलहं शोकं प्रविशन्तीत्येवंशील इत्थंभूताः कृपाणासरेऽन्ये जनाः न सन्ति जना अपि कथम्भूताः तीक्ष्णहिंसाः तथा परदारवृत्तयः परदारेषु वृत्तिर्येपां ते अन्यस्त्रीसंगसक्ताः तथा कल्हप्रवेशिनः कलहप्रिया" इति ||४१|| प्रकोपनिर्मीलितरक्तलोचनं तलप्रहाराहतकीर्णशेखरम् । रतेषु दष्टाधरमाहृतांशुकं परं न यस्यां कदनं कचाकचि ॥४२॥ प्रकोपेति यत्र यस्यां नगर्यो प्रकोपेन निर्मीलितानि विस्फुरितानि रक्तलोचनानि लोहितनेत्राणि " यत्र तत् | तलप्रहारेण पूर्वमाहताः पश्चात्कीर्णाः शेखराः केशबन्धनानि यत्र तत् । दष्टा "अधरा यत्र तत् । "आहृतानि अंशुकानि" यत्र ( तत् ) "कचैः कचैः प्रवृत्तं युद्धं कचाकचि इत्थम्भूतं कदनं ( युद्धं ) रतेषु परं केवलं वर्त्तते नान्यत्रेति ॥४२॥ प्रत्यचा युक्त, पर्याप्त नमनशील तथा उत्तम बांससे बना धनुष ही दूसरोंको पीड़ा देता था [गुणों को सीखनेमें चतुर, विनम्र प्रकृति तथा शुद्ध उत्तम कुलमें उत्पन्न कोई भी व्यक्ति दूसरे को कष्ट नहीं देता था ] । सरल वृति तथा भविष्यमें होनहार पुरुषोंमें [ अत्यन्त सीधा तथा तीक्ष्ण और खूब लम्बा ] वाण ही दूसरोंके हृदयों को भेदत्ता था |॥४०॥ जहां चञ्चल नेत्र, कुशकी कोंपल खाकर जीवित तथा गानेपर मूच्छित हिरणोंमें ही चपलता थी [ कटाक्षमय नेत्रधारी अत्यन्त तीक्ष्णबुद्धि तथा संगीतादिके प्रेमी मनुष्योंका चरित्र अस्थिर नहीं था ] | दूसरोंको काटना, संघर्ष में पड़नेकी प्रकृति तथा तीखापन तलवारके सिवा [ परस्त्री सेधन, झगड़ा करना तथा उग्रता] किसी भी मनुष्यमें नहीं थी ॥ ४१ ॥ जिस हस्तिनापुरीमें अत्यन्त उद्दीप्त रागसे निमीलित और लाल पञ्जलिसे खींच कर बिखेरी गयी जूटकी माला, ओष्ठ दंशन तथा परस्परका वस्त्र तथा केश खींचना केवल सुरत लीलामें होता था [क्रोध से अन्ध तथा रक्त नेत्र, ताल ठोककर चार करना और मुकुट १. प्रत्यचा दु०, प० । २. रचितः ६०, रन्वितः - प० । ३. स्व ग्राहोऽङ्गीकारोऽस्ति येषां तेषु न -०, प० । ४ पु नम्रा मार्दवा वृत्तिः प्रवर्तनं येषां तेषु न दु०, प० । ५ - पु प्रशुद्धं वंदामन्वयो येषां तेषु ज -- दु०, प० । ६. दृष्टो हृदयानि स्वान्तानि भि-६०, प० । ७. बुद्धिषु द०, प० । ८ बुद्धिषु ०९. मतिपु०, प०1१० कोश - द०, प० । ११ -नः कटकप्रवेशिनः क -० । १२. कलित्रियाः-६०, प० । १३. नयनानि प० । १४ रा दन्तच्छदा - ३०, प० । १५ नि अपाकृतानि अं- द० । १९. निचनानि य - ६०, प० । १७. कचेषु कचेषु गृहीत्वा प्रवृत्तमिति विग्रहो न्याय्यः । 13
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy