SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ द्विसन्धानमहाकाव्यम् ] इति वचनात् । यो पङ्कयः स्फुरन्तीति टीकाकृतः "मृदुभाषिणो हि सन्तः " [ 'शुचिरत्नपीटिकाः स्फटिकमणिपीठिकाः पुनः हरिन्मणीनां फल्दकैः पट्टिकाभिः कृतस्थस्याः विहितास्पदाः का इवोत्प्रेक्षिताः मायूरपताकिका इव मायूरवैजयन्त्य इत्र स्फुरन्तीति सुस्वमत्रोपमा ||२५|| सितासिताम्भोरुहसारितान्तराः प्रवृत्तपाठीनविवर्त्तनक्रियाः । समायता यत्र विभान्ति दीर्घिकाः कटाक्षलीता नारोषिताम् ||२६| सितेति यत्र यस्यां नगर्यो समायताः समाः समकोणाः आयताः दीर्घाः दीर्घिकाः क्रीडावायो विभान्ति | कथम्भूताः ? सितेत्यादि श्वेतनीलपद्मपूरितमध्याः । पुनः प्रवृत्तपाठीनविवर्तनक्रियाः प्रवृत्ताः सञ्जाताः पाठीनानां मीनानां त्रिवर्त्तनक्रियाः ' यासु ताः । इव यथा वास्योषितां कटाक्षलीलाः, अपाङ्गपातशोभाः विभान्ति । कथम्भूताः १ सितासिताम्भोरुहसारितान्तराः शुक्तश्यामलाम्बुजैरिव 'संचलितमभ्याः प्रवृत्तपाटी नविन क्रियाः प्रवृत्ताः पाटीनानामिव विवर्त्तनक्रिया यासां तास्तथोक्ताः ॥ २६ ॥ अदृश्ययारापतनाभिहेतुषु स्थिरान्धकारेषु जलावगाहिषु । अधोगतिं सम्प्रतिपन्नवत्सु या न कूपदेशेष्वषि सत्सु दूषिताः ||२७|| अदृश्येति-अधोगतिं निन्द्याचरणं सम्प्रतिपन्नत्रत्सु सम्प्राप्तवत्सु पुनः पतनाभिहेतुषु गृहीतव्रतप्रच्यवनाभिकारणेषु पुनः स्थिरान्धकारेषु स्थिरपापेषु पुनः जलावगाहिषु "डब्योरमेदात् जल कडा "मूदास्तानवगाहन्ते व्याप्नुवन्त्येवंशील्त्रः तेषु कूपदेशेषु सत्सु अदृश्यपारापि अनिरीक्ष्यपर्यन्तापि या नगरी न दूषिता न दूषणविषवीकृता३ | नैवम् अन्यस्यार्थस्व" प्रतिपाद्यमानत्वात् । तथाहि अधोगतिमधस्तात् विवरमार्गे सम्प्रतिपन्नवत्सु पुनः अवारा पतनाभिहेतु अस्याः पारापताः कन्दर्पचतुराः पक्षिणो यत्र सा अय्यपारापता सा चास नाभिश्र मध्यं सा तथोका, हिनोति निर्णयवृद्धिं नयति वस्तुतस्त्वभिति हेतुः इति निर्वचनात् । तस्या नाभेर्हेतवो वृद्धापकास्तेषु तथषु पुनः स्थिरान्धकारेषु स्तिमित्तमस्तोमेषु पुनः जल्यवगाहिषु जल्मवगाहिव्यापि येषु तेषु तथोक्तेष्वपि कृपदेशेषु प्रहिप्रदेशेषु अपि सत्सु या न दूषितेति" ॥२७॥ १४ स्फटिक मणियों के आसन, हरित मणियों के फर्शयुक्त सोने से बने अथवा सुन्दर रंगों से चित्रित मधुरभाषियों ( सज्जनों) के गृहों की पंक्ति मोरोंसे बनी पताकाके समान शोभित होती थी ||२५|| जिस नगर में समकोण आयताकार बावडियां श्वेत तथा नील कमलोंसे पूर्ण होनेके कारण तथा मछलियोंकी उछल-कूदकी क्रियाके आधार होनेसे वेश्याओंके समान सुशोभित होती थीं। एकत्रित श्वेत तथा कृष्ण कमलोंकी कान्तियुक्त तथा चलती मछली के समान चंचल गतियुक्त वेदवाओंके विशाल कटाक्ष जिस नगरीमें वावड़ियोंके समान शोभित होते थे ॥ २६ ॥ नीच गतिकी ओर उन्मुख, पतन के समर्थ कारण, दृढ़ पापी तथा मूखों के लिए प्रभा मिथ्या उपदेशकों के रहते हुए भी वह विशाल नगरी दूषित नहीं हुई थी । खूब नीचे चले गये, मध्य भागमें कबूतरोंसे रहित, अथवा गुप्त जलस्रोतोंसे युक्त, सदैव अन्धकारपूर्ण और अथाह जलसे पूर्ण कुँओंसे व्याप्त वह हस्तिना अथवा अयोध्यापुरी निर्दोष नगर थे ||२७| १. न्यः हर्म्यं परम्पराः स्फु- द०, प० । २ कीदृइयस्ताः ६०, प० । ३ -नां मरकतमणीनां क - द०, प० । ४ न्ति शोभन्तेतराम् क- ६०, प० । ५. कमल - ६०, प० । ६. याः परिवर्तिनि क्रिया या द० । ७. तां पण्याङ्गनानां कप० द० । ८ सञ्चालित - दु० । ९. उपमा प० द० । १०, यमकश्लेषचित्रेषु वबयोलबोर्न भिदिति वचनात् द०, प० । ११. मूर्खा द०, प० । १२ पु कुत्सितोपदेशेषु स - दु० । १३. तेति विरुद्धम् द०, प० । १४ – स्यार्थस्य - द० । १५. विरोधालङ्कारः ५०, प० ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy