SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः एवं नानाक्षत्रियवगैः पृतनाग्रे सालङ्कान्तं रौप्यमिवैतैः सह सालम् । वेलापातश्वेततरङ्गं जलराशिं तं सारम्भोगाङ्गमवापन्नृपतिश्च ||२६|| एवमिति सा पृतना सेना लङ्कान्तं लङ्कासमीपवर्तिनं सालं प्राकारम् अवापत् प्राप्तवती, कमिव ? रौप्यं रजतनिर्माणमिव, कथम् ? अग्रे प्रथमं कथम् ? एतैः नाना क्षत्रियवगैः सह कथम् ! एवमुक्तप्रकारेण, तथा अथापत् प्राप्तवान् कः ? नृपतिरत्र रामः, कम् ? तं जलराशिं समुद्रम्, कथम्भूतम् ? वेलापातश्वेततरङ्गम्, सुगममेतत्, तथावापत् कः ? नृपतिः किम् ? भोगाङ्गं भोगः सकृद्भुज्यते इति भोगः भोगस्याङ्गमिति भोगाङ्गं ताम्बूलकुसुमचन्दनादि, कथम्भूतम् ? सारं प्रधानमिति । अग्रे प्रथगम्, अग्रे भारतीयः पक्षः- अवापत् का ? पृतना सेना, कम् १ जलराशिभू, कथम् इति विभक्तिप्रतिरूपक मध्ययपदम् कैः सह ? एतैः नानाक्षत्रियवर्गः, कथम् ? अलमत्यर्थम्, कथम्भूतं जलराशिम् ? गाङ्गं गङ्गाया अर्थ गाङ्गस्तम्, पुनः कथम्भूतम् ? वेलापातश्वेततरङ्गम्, कभिव १ रौप्यं रजतमयं सालमिव पुनः कान्तं मनोहरं तथा चावापत् नृपतिर्जनार्दनः, कम् ? जलराशिम् कथम् ? अलमत्यर्थमू, कथम्भूतः जनार्दनः ? सारम्भः साटोप: ॥२६॥ २५९ चिरानवस्थाननियोगखिन्नमेकस्थमस्यायतमापगौधम् । यथाम्बुराशिं ध्वजिनीरजोभिः श्यामायमानं ददृशुर्बलानि ||२७|| चिरेति - बलानि सैन्यानि अम्बुराशिं समुद्रं ददृशुः निरीक्षाञ्चक्रिरे, कथम्भूतम् ? ध्वजिनीरजोभिः सेनारेणूत्करैः श्यामायमानम्, कमिवोत्प्रेक्षितम् १ यथापगौधं सरित्समूहमिव, कथम्भूतम् १ एकस्थमेकत्रविश्रान्तम्, पुनः चिरानवस्थाननियोगखिन्नं बहुतरकालपर्यटन व्यापारेण श्रान्तं पुनः अत्यायतं दीर्घतरम् । भारतीये - दहशुः कानि ? बलानि, कम् ? अम्बुराशिं जलसमूहम्, कथम्भूतम् ! आपगोवम् आपगानामोघः आपगौवः आपगौघस्यायमा पगोधस्तम्, कथम्भूतं ददृशुः ? ध्वजिनीरजोभिः श्यामायमानं पुनः अत्यायतम्, कमिवोचितम् ? एकस्थं यथा एकत्र विश्रान्तमिव । शेषं सुगमम् ॥२७॥ दिक्षुराद्यन्तमिव प्रमाणं पूर्वापरं वा प्रथमाभिषङ्गा । समुद्रतीरञ्जितसर्वलोका सेनापगां व्याप्तवती बलेन ॥ २८ ॥ द्विः । दिक्षुरिति- आप प्राप्तवती का ? सेना, किम् ? समुद्रतीर जलवितटम्, कथम्भूता ? व्याप्तवती, काम् ! गां पृथिवीम्, केन कृत्वा ९ बलेन रामचन्द्रेण कथम्भूता सती १ जितसर्वलोका, सुगममेतत्, केवो " विविध वंशके क्षत्रिय राजाओंसे परिपूर्ण यह रामकी सेना उक्त प्रकारसे, किनारेपर अपनी श्वेत तरंगोंको फेंकते हुए लंकाके पास के अतएव चाँदीके परकोटा के समान समुद्र के पास पहिले पहुँच गयी थी तथा राजा भी भोगके प्रधान साधनको प्राप्त हुआ था [ यह पाण्डव सेना अत्यन्त सुन्दर, किनारे पर धवल लहराते अतपय चाँदीके परकोटाके सहश गंगाकी जलराशिके पास सबसे पहिले पहुँची थी । और इसके बाद सजधजके साथ राजा जनार्दन भी पहुँचे थे ] ॥२६॥ राघव-सेनाने अत्यन्त विस्तृत तथा सेनाके चलनेसे उड़ी धूलके कारण काले-काले समुद्रको देखा था । मानो चिरकालतक घूमते रहने के कारण थकी नदियोंकी विपुल जलराशि ही एक स्थानपर रुक गयी थी [ पाण्डव सेनानेकाले मगधकी नदियों के समूहको देखा था जो चिरकालतक भटकते रहने के कारण खिन्न, अतएव एक जगहपर थमी जलराशिके तुल्य लगता था ] ॥२७॥ पहिले-पहिले पहुँचनेके कारण आदि और अन्त अथवा आगा और पीछा देखनेकी १. मत्तमयूरवृत्तम् । २. उपजातिवृत्तम् ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy