________________
२५८
द्विसन्धानमहाकाव्यम् तन्मध्यं हरिकुलनायकैरनेकैरामोदस्फुटसितचन्दनोचिताङ्गः । दुर्वृत्तं विजहदसज्जनार्दनोऽसौ भूपार्थक्षतशमनोद्यतो जगाहे ॥२४॥
तन्मध्यमिति-गाई गाहते स्म, कोऽसौ १ असौ रामो राघवः, किम् ? अद एतत्तन्मध्यं तस्या ध्वजिन्या मध्यम् , कैः सहः १ हरिकुलनायकैर्वानरसमूहस्वामिभिः । कथम्भूतैः ? अनेकैर्नानाविधैः, किं कुर्वन् ? दुर्वृत्तं दुःशीलत्वं विजहत् । कथम्भूतो रामः ? स्फुटसितचन्दनोचिताङ्गः स्फुटसितः सुग्रीवः चन्दनश्चन्दननामधेयो नृपः तयोचितम् अङ्गं यस्य सः तथोक्तः, अत्र रामशरीरस्य मुग्रीवचन्दनयोः आरक्षकत्वं प्रतिपादितम् , कथम्भूतः ? असजनार्दनः असतो जनानर्दयतीति असजनार्दनः रिपुप्रध्वंसक इत्यर्थः । पुनः भूपार्थक्षतशमनोद्यतः भूपानां यः अर्थः क्षात्रधर्मः तस्य यत् क्षतं लोपः तस्य शमने उद्यतः भुपार्थक्षत्तशमनोद्यतः, अद इत्यत्र विसर्गभूतस्य सकारस्य स्कुटपदराकारस्य लोपो द्रष्टव्यः "झरो झरि स्वे" [जै० सू० ५।४।१३९ ] इत्यनेन सूत्रेण सकारलोपप्रतिपादितत्वात्।
भारतीये-जनार्दनी नारायणः तन्मध्यं तस्या ध्वजिन्या मध्यं जगाहे, की सहः १ हरिकुलनायकैः समुद्रविजयादिभिर्नरेन्दै, किं कुर्वन् ? असौ स्खङ्गे असत् असमीचीनं क्षत्रियकुमारैर्निन्दितं दुर्वृत्तं विजहत् परित्यजन् , कथाभूतो जनार्दनः आमोदस्फुटसितचन्दनोचिताङ्गः, आमोदन स्फुटं यत् सितचन्दनं तस्योचितमङ्गं यस्य स परिमलप्रवक्तव्यश्वेतश्रीखण्डयोग्यशरीर इत्यर्थः, पुनः भूपार्थक्षतशमनोद्यतः भुवः पृथिव्याः पार्थानां पाण्डवानां क्षतशमने उद्यतः ॥२४॥
मदोत्तमाद्रेयबलेभसारे भागेऽपरे सर्पति जाम्बवेऽस्मिन् । द्वीपेन्विते राजभिरप्रसयैः ससर्प वेलेव चमूः पयोधेः ॥२५॥
मदेति-ससर्प जगाम, फा १ चमूः सेना, क ? अस्मिन् द्वीपे, अत्र केव ससर्प चमूः ? पयोधेः वेलेव, अस्मिन् द्वीपे, व सति चमूः ससर्प १ अपरे पश्चिमे पाश्चात्ये भागे, पुनः कथम्भूते १ जाम्बवे जाम्बवस्यायं जाम्बवः तस्मिन् जाम्बवश्वत्रियसम्बन्धिनि पुनः मदोत्तमाद्रेयबलेभसारे मदोत्तमाः मदप्रधानाः आद्रेयाः अद्रिजाताः ये बलेभाः सैन्यगजाः तैः सारे पुनः सर्पति विजृम्भमाणे पुनः राजभिर्नरेन्द्रैः अन्विते युक्ते, कथम्भूतैः राजमिः ! अग्रसौः सोढुमशक्यैः ।
भारतीये-चमूः ससर्प, क ? जाम्बवे जम्न्या इदं जाम्बवं तस्मिन् जम्बूपलक्षिते द्वीपे, केव ! पयोधेः वेलेव क सति चमूः ससर्प । भागे, कथम्भूते ? अपरे पश्चिमे, किं कुर्वति सति ? सर्पति, पुनः कथम्भूते ? मदोत्तमाद्रेयबलेभसारे मदोत्ताः मदलिन्नाः त्रिगण्डैर्मदजलप्रवाहिण इत्यर्थः, ये माद्रेययोर्मद्रीपुत्रयोर्न कुलसहदेवयोलेमाः तैः सारे। अन्यत्समम ॥ २५ ।।
अनेक वानरवंशी राजाओं के साथ उस सेनाके धीचमें श्रीराम जा रहे थे, सुग्रीव (स्फुटसित ) और चन्दन इनके अंग-रक्षक थे, स्वयं ये दुराचारके त्यागी थे और दुओंके विनाशक थे तथा क्षात्र धर्मपर आये प्रहारका वारण करनेके लिए कटिबद्ध थे [अनेक यादववंशी राजाओंसे घिरे, पृथ्वी और पाण्डवोंके साथ हुए अन्यायका प्रतीकार करनेको उद्यघृत जनार्दनने शस्त्रविद्या ( असौ) के प्रतिकूल ( असत्,) निन्ध आचरणको छोड़कर उस सेनाके केन्द्रको सम्हाला था। उनके पूरे शरीरपर श्वेत चन्दनका लेप हो रहा था जिसकी सुगन्ध सर्वत्र फैल रही थी ] ॥२४॥
सामना करने के लिए अशक्य राजाओंसे युक्त, पर्वतोंमें उत्पन्न ( आद्रेय ) मदोन्मत्त उत्तम दाथियोंके कारण सुपुष्ट जामवन्तकी पीछे चलती हुई सेना इस लंकाद्वीपपर उसी तरह चढ़ गयी थी जैसे समुद्रकी लहरें चढ़ जाती है [ सामना मदजलसे गीले (मदोस) माद्रीसुतो ( माद्रेय) की हस्ति-सेनासे सबल पाण्डव सेना इस जम्बूद्वीपके अपर भागमें उसी तरह हैं ] ॥२५॥
१. उपजातिवृत्तम्।