________________
चतुर्दशः सर्गः
२५७
पुनः आशंसुः श्लाघमानः, किम् ? बीभत्सं रौद्रं स्वरूपम्, कथं स्वरूपम् ? जितपरभूमि जिता परेषां शत्रूणां भूमिर्येन तत् पुनः अघस्थिति अवस्य स्थितिर्येषु अधेनोपलक्षिता स्थितिर्येषां वा ते अवस्थितयः से च ते रिपवच अवस्थिति रिपवस्तेषां दुर्द्धरं पापस्थितिमनुष्याणां दुःखेन धत्तु" शक्यमिति, अथवा भीमोघस्थितिदुर्धरं थिया भयेन मोघा निष्फला स्थितिर्येषां ते मीमोघस्थितयः भीमोघस्थितयश्च ते तथोक्तास्तेषां दुर्द्धरस्तम् ।
भारतीये - आप प्राप्तवान् कः ? भीमो वृकोदरः, काम् ? तां गतिम् कथम्भूताम् ? पौरस्त्याम्, कस्याम् १ धुरि, कथम्भूतः १ गदोर्जितश्रीः गदया ऊर्जिता श्रीर्येन सः पुनः जितपर भूमिपावनिः जितापरभूमिपानां शत्रुनृपाणाम् अवनिः पृथ्वी येन अभिभूतेतरनरेश्वरभूमिरित्यर्थः । पुनः बीभत्समर्जुनं श्लाघमानः कथम्भूतमर्जुनम् १ रणरुचिरं रणः रुचिरः प्रीत्युत्पादको यस्य सः तम् अथवा रणे रुचि प्रीति राति गृह्णातीति तं पुनः अवस्थितिरिपुहुर्द्धरं पापस्थितीनां रितॄणां दुःखेन धत्तुं शक्यम्, पुनः कथम्भूतम् ? स्वरूपं स्वस्य आत्मनो रूपं यस्य स तम् कस्याम् १ ध्वजिन्यां धुरि इति ॥ २२ ॥
तत्पार्श्वे गतधृतिमत्स्यदेशमाढ्यं भुञ्जानोऽनलसहितः सुखं प्रतस्थे । पञ्चालोचितविषयप्रभुश्च सैन्यं विभ्राणः सवसुयशोविलासिनीलः ||२३||
तत्पार्श्व इति स लोकविख्यातो नीलः नीलनामधेयो विद्याधरचक्रवतीं प्रतस्थे किं कुर्वाणः १ तत्पार्श्वे तस्या ध्वजिन्याः पार्श्वे हनुमदङ्गपार्श्वे वा सैन्यं विभ्राणो धरन्, कथम्भूते तत्पार्थे ! गतधृतिमत्स्य देंगतधृतिरस्यास्तीति गतधृतिमान् गतधृतिमान् स्वदो यस्य तस्मिन् गमनधरणवद्वेगे इत्यर्थः कथम्भूतं सैन्यम् १ सुयशोविलासि सुयशोभ्यां द्रव्यश्लोकाभ्यां विशेषेण लसतीत्येवंशीलं तत् किं कुर्वाणः १ शमाढ्यम् उपशमप्रधानं सुखं भुञ्जानोऽनुभवन् कथम्भृतो नीलः १ नलसहितः नलनामधेयेन राज्ञा संयुतः, पुनः पश्वालोचित - विषयः पञ्चात्यः क्षत्रियाः तेषाम् उचिता ये विषया भोगास्तेषां प्रभुः स्वामीः अथवा पाञ्चाल्ये देशः, पञ्चाल एवं उचितो योग्यो विषयो येषां चितविषयाः पादेोवाः क्षत्रियास्तेषां प्रभुः ।
भारतीये प्रतस्थे कः १ राजा, किं कुर्वाणः १ मत्स्यदेशं वैगरदेशं भुञ्जानः कथम्भूतम् १ आं किं कुर्वाणः १ तत्पार्श्वे समृद्धम् कथं यथा भवति । सुखं यथा; एतेन विराटनामधेयो नरेन्द्रश्वचालेति लब्धम्, तस्याः पार्श्वे सैन्यं विभ्राणः, कथम्भूते तत्पार्श्वे १ गतधृति गतं चरति गतधृत् तस्मिन् कथम्भूतो विराटः ! अनलसहितः अलसाः मन्दाः न अलसाः अनलसाः उद्योगिनस्तेषां हितः, अथवा अनलसाः सकलकलाकुशलाः हिता: अमात्यादयः पुरुषा यस्य सः पुनः पञ्चालेोचितविषयप्रभुः आलोचिताः सकललोक प्रतीताः विषयाः इष्टस्रग्वनिता चन्दनादयः, आलोचिताश्च ते विप्रयाश्व, आलोचितविपयाः, पञ्च च वे आलोचितविषयाश्च पञ्चालोचितविषयास्तेषां प्रभुः शृङ्गाररसरसिक इत्यर्थः तथा चोक्तं "रससङ्गेन यो रीतेर्विदधाति सुबर्णताम्, स कविः स नरेन्द्रश्य धन्द्यः कस्य न जायते", पुनः कथम्भूतः १ सवसुयशोविलासिनील: वसु द्रव्यम्, यशो वर्णः, विलासिन्यः सुन्दर्यः, इला मेदिनी एतैः सह वर्त्तते सः तथोक्तः ॥ २३॥
और पनसुत रामकी सेना के आगे-आगे चले जा रहे थे [ अपनी गदा के कारण अधिक शोभायमान, शत्रु पक्ष से मिले राजाओं की भूमिका विजेता, पापके गर्त में पड़े शत्रुओं कौरवों के द्वारा रोके जानेके लिए अत्यन्त कठिन और युद्धके लिए आतुर अर्जुन ( बीभत्स ) की प्रशंसा लीन भीम कृष्णकी सेनाके आगे चल रहा था ] ॥ २२ ॥
शान्तिकालके विशाल सुखका भोक्ता, सम्पत्ति और कीर्ति के द्वारा शोभित, सबकी चर्चा विषय पाँचों इन्द्रियोंके भोगोंका स्वामी (पञ्च-आलोचित-विषय-प्रभुः ) तथा विशाल सेनाका नेता वह नील भी यात्राके आयासको सहने में समर्थ रथपर ( गतधृति मत्स्यदे ) चढ़कर नलके साथ उन अङ्गद और हनुमानके पार्श्व में चल रहा था [ धन, कीर्ति, कामिनी और भूमिकी अपेक्षा परिपूर्ण, आलससे दूर और हितैषी, सम्पन्न मत्स्य देशका सुखसे भोग करता तथा पाञ्चाल और संलग्न देशोंका भी राजा विराट सेना लेकर आक्रमण सहनेमें समर्थ पाण्डव सेनाके पार्श्व में चल रहा था ] ॥२३॥
३३