SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः २५५ वाधीभिरिति-चकाशे शुशुभे किम् ? स्वेदाभी धर्भजलम् , फेषाम् ! हरीणामस्वानाम् , कथम्भूतं सत् ? चिमथितमालोडितं सत् , काभिः ? यीभिः चर्मयष्टिभिः, कथम्भूताभिः ? अध्यपश्चिमाभिः अप्रभवाभिः पश्चाद्भवाभिश्चेत्यर्थः, पुनः कथम्भूतं धर्मजलम् ! सितरुचि श्वेतदीप्ति पुनः फेनिलं संजातफेनम् , किं कुर्वन् चकाचे ? स्फुरदीप्यमानम् , किमिव ? रूप्यस्य रजतस्य मण्ढनमिव, युक्तमेतत् वा श्रमफलं केषाम् उन्नति न धत्ते, अपितु सर्वेक्षमपीति ||१६|| मातङ्गप्रभृतिपदाभिघातधूतः संप्राप्य प्रसरमितस्ततोऽपि पांसुः । आरुक्षन्नृपतिशिरः समुद्धतत्वान्नीचस्य स्थितिरियमद्भुतं न किंचित् ॥१७|| मातङ्गति-पांमु: रेणुः नृपतिशिरः आरक्षत् आरोह, किं कृत्वा ? पूर्वम् इतस्ततोऽपि यत्र तत्रापि प्रदेशे प्रसरं व्याति सम्प्राप्य, कथम् ? मासनप्रभृति पदाभिघातधूतः, मातङ्गप्रभृतीनां गजेन्द्रादीनां चतुरङ्गसैन्यानां पदाभिघातेन धूत: माराङ्गादिचरणक्षोदोरिक्षसः, युक्तमेतद्वयं स्थितिः स्यात् , कस्य ! नीचस्य, कस्मात् ! समुद्धतत्वात्, अतएव किंचिदभुतं न ||१७|| संतप्तस्तपनमरीचिभिः कटाम्यां नागानां मदगुरुणाग्रपल्लवेन । क्षुण्णोऽपि भ्रमरगणः स्थितोऽनुकर्ण छाया यत्पदमपि सा बरं न तूष्णम् ।।१८॥ संतप्तेति-भ्रमरगणः द्विरेफसमूहः, अनुकर्ण श्रवणयोः पश्चात् क्षुण्णोऽपि क्षोभ नीतोऽपि स्थितः, केन ! मदगुरुणा अग्रपल्लवेन कांग्रभागेन कथम्भूतः ? तपनमरीचिमिः दिनकृत्किरणः संतप्तः, काभ्यां क्षोभं नीतः सन् १ नागानां दन्तिनों कटाभ्यां कपोल्टाभ्याम् , युक्तमेतत् , छायापि यत् पदं विद्यते साबरं स्यान्न तूरणमिति॥१८॥ कायस्य त्वचि कठिनस्य कर्कशायां निर्यातुं विकलमपास्य तप्तमनास्यात् । सूत्कार तकरशीकराः कराग्रेरन्तस्थं ववमुरिव द्विपाः श्रमाम्भः ॥१९॥ कायस्येति-द्विपाः हस्तिनः करानैः शुण्डागः श्रमाम्भः श्रमजलं वबमुरिव वन्ति स्मेय, कथम्भूतम् , अन्तःस्थम् , किं कृत्या ? पूर्वमास्याद्वक्त्रात् विकलमसमर्थे तत श्रमाम्भः अपास्य अपाकृत्य किं कत्तुम् ! नियतिम् , कस्याम् १ कायस्य स्वचि शरीरस्य चर्मणि, कथम्भूतस्य ? कठिनस्य कर्कशस्य, कथम्भूतायां त्वचि ! कर्कशायां निष्ठुरायाम् कथम्भूताः सन्तो द्विपाः ? सूत्कारस्तुतकरशीकराः सूत्कारवशात्प्रस्यन्दितशुण्डानिष्ट्यतजलकण। इत्यर्थः ॥ १९ ॥ उच्छवासाद्विविधभरं लघु वहन्तः किं न्यूनं किमधिकमित्यधीश्वराणाम् । सत्कारं निजनियतं च कर्म कार्मा मध्यस्थाः समतुलयन्निवाध्वनीनाः ॥२०॥ आगे तथा पीछे चलती हुई चायुकों के द्वारा मथे गये समान, अत्यन्त धवल तथा झागयुक्त घोड़ोंका बहता पसीना चैसा ही शोभित हुआ था जैसा जगमगाता चाँदीका आभूषण लगता है [ उचित ही है, क्योंकि ] ऐसा कौन है ? परिश्रमके फलस्वरूप जिसकी उन्नति न हुई हो ॥१६॥ हाथी, आदि चाहनोंके चलने (पैर मारने) से उठी धूल पहिले तो इधर, उधर सर्वत्र फैल गयी थी। इसके बाद ऊपर उड़ने (उद्धत होने के कारण राजाके शिरके भी ऊपर पहुँच गयी थी। इसमें आश्चर्य ही क्या है ? क्योंकि नीच की स्थिति ही यही है ॥१७॥ सूर्य की किरणों के द्वारा तपाया गया तथा हाथियों के बहते मदजलसे भीगनेके कारण भारी कानके अगले भागके द्वारा सताया गया भी भौरीका समूह कानके पीछे बैठा हुआ था | उचित ही है--थोड़ी-सी भी छाया भली होती है, गर्मी नहीं ॥१८॥ प्रकृत्या कठोर देहकी अत्यन्त कर्कश चमड़ीसे पसीनेको निकालने में असमर्थ हाथी शरीरके भीतर भरे उष्ण स्वेद जलको मुखसे निकालकर, 'सू' 'सु' करनेमें सूंडसे निकलते जलके बिन्दुओंके बहानेसे सूंडसे ही उगल रहे थे ॥१९॥ Animal
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy