________________
द्विसन्धानमहाकाव्यम्
सुनिधानं
सभासते वस्तु वृत्त्या न तु शून्यम्, कथम्भूतमपि १ सुनिचितमपि संभृतमपि, तथा साप्येका किताऽऽमासते यः परिजनविभवः परिवारजनसम्पत्, तथा अभवत् का ? अरुचिरप्रीतिः, क ? लक्ष्मीमुखे, कस्य १ अस्य नरपतेः रिक्तं मनो वर्त्तते, केन ! त्वदनभिगमनेन तवानभिगमनेन त्वया सह सम्भोगव्यापारमन्तरेणेत्यर्थः ॥ ४० ॥
૨૯
अनुरहसमुपैति मन्त्र मुहुः परमपि परिवृत्त्य नाथेत सः ।
असुषु वसुषु च व्ययं व्यश्नुते सपदि तब कृते न किं तत्कृतम् ॥४१॥
अन्विति-उपैति प्राप्नोति कः १ स रामः, कम् १ मन्त्रं गुप्तभाषणम्, कथम् ! अनुरहसम् एकान्ते जनकोलोज्झिते प्रदेशेऽपीत्यर्थः । तथा नाथेत याचेत अनेन मार्गेण गच्छन्ती मत्तमतङ्गजगामिनी मन्मनोहारिणी मैथिली भवद्भिर्हष्श न वेति पृच्छेदित्यर्थः, कम् ? हरं मार्गगामिनं जनम, अपिशब्दात् अत्र भेरुण्डविहङ्गमचकाङ्गचकोरसर्पत्सर्पादीनां ग्रहणम् । किं कृत्वा पूर्व नाथेत ? परिवृत्य, कथम् ? मुहुर्वारंवारम्, तथाचोक्तं- "भो भो भुजङ्ग तरुपल्ल पलोलजिह्न बन्धूकपुष्पदकसन्निभलोहिताक्ष । पृच्छामि ते पवनभोजन कोमलाङ्गी काया शरविन्दुमुखी न दृष्टा ॥" तथा व्यस्नुते कः १ स रामः, कम् ? व्ययम्, केषु ? असुषु प्राणेषु वसुषु च द्रव्येषु कथम् ? सपदि शीघ्रम्, हे सुन्दरि अनेन प्रकारेण तत् किं न कृतम् अपितु सर्वभेव कृतम्, कथम् ? कृते निमित्ते कस्य ? तवेति ।
भारतपश्चे स नरेन्द्रः । परमपि इतरमपि जनम् | शेषं सुगमम् ||४१||
सुहृदयमसुदेयं प्रेम मेऽन्योन्ययोगात्सहजमुपकरिष्यत्यायतं हन्त यस्मिन् । स्वयमुपनयमानं तत्कदाभावितादृग्दिनमनुदिनमेवं ध्यायति त्वां नरेन्द्रः ॥४२॥
सुहृदयमिति-दन्त अहो तद्दिनं कदा कस्मिन् काले भाषि भविष्यति कथम् ? ताहक तादृशं पुनः उपनयनमानं प्रढौकमानम्, कथम् १ स्वयमात्मना यस्मिन् दिने उपकरिष्यति किं कर्म ? सुहृदयं कर्म, किम् ? प्रेम, मे मम, कस्मात् ? अन्योन्ययोगात् परस्पर सम्बम्धात् कथम्भूतं प्रेम ? असुदेवम् असवः प्राणा देया यत्र तत्तथोक्तम्, पुनः कथम्भूतम् ? सहजं नैसर्गिकं पुनः आयतं दीर्घम् एवमुक्तप्रकारेण नरेन्द्रो रामः त्वां ध्यायति स्मरति कथम् ? अनुदिनं प्रतिदिनम्। भारतपश्चे - नरेन्द्रो विष्णुः | शेषं सुगमम् ॥४२॥
af विष्णोरथस्यमय धीरकाकुस्थनादां
नागैर्व्याप्ता मिह समकरैर्दिग्गतैरीक्षितासे । कल्पान्ताधिप्लुतिमिव महाभीममत्स्य ध्वजौघां
संगन्तासे त्वमचिरमतस्तेन पद्मेश्वरेण ॥ ४३ ॥
लोगों से परिपूर्ण भी उसे शून्य-सा लगता है, विभव और परिजनोंसे घिरे रहनेपर भी घ अपनेको एकाकी समझता है, सम्पत्ति और सुखोंसे (लक्ष्मी सहवाससे कृष्णको इसे अरुचि हो गयी है तथा तुम्हारे वियोग से इसका मन खाला हा गया है ||४०||
एकान्त मिलते ही अपने आपसे बोलता है, बारम्बार घूम-फिर कर दूसरोंसे तुम्हारे विषय में पूछता है, क्षण भरमें ही अपनी सम्पत्ति तथा प्राणोंसे भी विरक्त हो जाता है। हे देवि ! वह कौन-सा कार्य है जो राम अथवा कृष्णने तुम्हारे विरह में न किया हो ॥ ४९ ॥
'प्राण देकर भी पालनीय, स्वाभाविक और अपरिमित मेरा प्रेम एक दूसरेके सहबास के द्वारा जिस दिन मेरे हृदयको तृप्त करेगा' हाथ वह दिन किस चेलामें अपने आप आयगा ? इस प्रकार नारायण प्रतिदिन तुम्हारा ही ध्यान करता है ||४२ ॥
1. प्रमुदितवदना वृत्तम् । सलक्षण " प्रमुदितवदना भवेन्नौ ररौ ।" [इ. २.५२ ] | २. मालिनीवृतम् ।