________________
त्रयोदशः सर्गः भूपचिं वनजस्येव नेत्रयो रुचिर्यस्याः सा तां कमलदललोचनामित्यर्थः, पुनः स्वपतिगुणविशेषरञ्जिताम् स्वपतेगुणविशेषाः शौर्यादयस्तै रञ्जिता रामस्य गुणैराह्लादितामित्यर्थः, पुनः सती , किं कुर्वन्नुपलेभे ? अभिनिर्भय यथा उपवनं निरूपयन्नवलोकमानः ।
भारतीगः-२ अभिरा श्रेति स बचोदरः श्रीशैलनामा दूतः काचिद्वल्लभां कामिनीम् , उपलभते स्म निरीक्षा चक्रे, कथम्भूताम् ? वनजनेत्ररुचिम् ? वनजमिव नेत्रे वनज नेत्रे तयो निर्यस्यास्ताम् , आकर्णान्तविश्रान्त. नेत्रां पुनः स्वपतिगुणविशेपरञ्जितां चक्रवत्तिगुणविशेषैरानन्दितां, पुनः सतीम् अतिरामीचीनाम् अङ्केयूपानेषु च सम्पूर्णलक्षणोपल्लक्षितापित्यर्थः । किं कुर्वन् ? उपचनं निरूपयन् । अन्यत्तुल्यम् ॥३७॥
पथिपथि परिरक्षतो दिगन्तान्दशमुखरागवतो वनान्तपालान् ।
उपशमफलया स विद्यया तां नयविदवोचन मोहयन्नितीदम् ॥३८॥ पथीति-नयवित् नीतिशः स वचोहरो हनूमान् इदमेतत् इति वक्ष्यमाणप्रकारेण तां सीताम् अयोचत् उक्तवान् , किं कुर्वन् ? वनान्तपालान् वनमाल्यादीन् उद्यानपालकान् उपशमपल्या उपशम एव पलं यस्याः सकाशात्तया विद्यया मोइयन् मोहं नयन् , कथम्भूतान् ? दशमुखरागवतः दशमुखे रागो विद्यते येभ्य (येषां) ते तान् रावणानुरागिणः पुनः पथिपथि दिगन्तान् दिशां सीम्नः परिरक्षतः।
भारतीये-स वचोहरः तां कामिनीम् अवोचत् , कथाभूतः ? नयवित् व्यवहारमार्गप्रवीणः, कथाभूतान वनान्तपालकान् ? दश दशसंख्योपेतान् पुनः मुखरागवतः सुखेष्वारक्तिमानं दधाना नित्यर्थः ॥३८॥
तवैव संदर्शनसंकथाः कथास्त्वयि प्रसक्ताः श्रुतयो दिवानिशम् ।
त्वयैव वाञ्छाः सहवासतत्परा विना त्वदुर्वीपतिरुन्मनायते ॥३९॥ तवेति-तवैव कथाः वार्ताः प्रवर्तन्ते, कथम्भूताः ? सन्दर्शनसंकथाः, सन्दर्शनं संकथयन्तीति ताः भवलोकनसूचिन्य इत्यर्थः तथैव त्वयि प्रसक्ताः स्वत्सम्बन्धविषयाः श्रुतयः आकर्णनानि प्रवर्त्तन्ते । तथा त्वयैव सइवासतत्पराः एकत्रावस्थानसम्बन्धिन्यो वाम्छाः दिनानिशं यथा तथा प्रवर्त्तन्ते स्वद्विना त्वया विना उर्वीपतिः रामः उन्मनायते खेदमनुभवति भारतीये-उर्वीपत्तिर्गरहध्वजः । शेष सुगमम् । ॥३९॥
सुनिचितमपि शून्यमाभासते परिजनविभवोऽपि सेकाकिता।
अरुचिरभवदस्य लक्ष्मीमुखे त्वदनभिगमनेन रिक्तं मनः ॥४०॥ नेत्रवती और अपने पति रामके विशेष गुणोंकी स्मृति में प्रसन्न रामकी प्राणप्यारी सती सीताको देखा था [हे अभिराम श्रेणिक ! राजगृहके घनको देखते हुए उस श्रीशैल दूतने कमलनयनी, सती और द्वारकाधीश कृष्णके गुणोंपर मुग्ध सुन्दरीको देखा था] ॥३७॥
प्रत्येक मार्गपर दशों दिशाओंसे रक्षामें निरत रावणपर अनुरक्त धनके रक्षकोंको निष्क्रिय करनेवाली विद्यासे मूर्छित करके नीतिशास्त्रके पण्डित हनुमानने सीताजीसे यह कहा था [ दशौ दिशाओंसे आगत प्रत्येक वर्गकी रक्षामें नियुक्त ऊपरसे ही जरासंधके भक यनरक्षकोंको शान्त करने में समर्थ अपनी कुशलतासे वशमें करके उस व्यवहारज्ञ श्रीशैलने उस कृष्णपर मुग्ध नायिकासे कहा था ] ॥३८॥
तुम्हारे देखनेका वर्णन करनेवाली ही कथाएँ होती है, दिन-रात तुम्हारे सम्बन्धकी ही चर्चाएँ सुनता है और तुम्हारे सहयासकी ही कामना करता है तथा हे सती ! पृथ्वीपति राम अथवा कृष्ण तुम्हारे विना उदास रहते हैं ॥३९॥
1. चक्रपाणि:-प. ६.१.२. अपरचक्नम् वृत्तम् तल्लक्षण-"अयुजि ननरका गुरुः समेन जमपरषस्त्रमिदं ततो जरौ।" [इ. र. १५] | ३. पुष्पित्ताग्रावृत्तम् । ५. वंशस्थवृत्तम् ।