SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४४ निरधानाधाममा क्रियायाम् , केन कृत्वा स्तुतिकृतिः स्यात् ! व्यपनयमुखेन निराकरणद्वारेण, करय व्यपनयमुखेन ? नयस्य, कथम्भूतस्य ? अवद्यस्यावद्यबहुलत्यादवद्यस्तस्यावद्यस्य प्रचुरपापोत्पत्तिकारणस्येत्यर्थः । भविता भविष्यति, पतिदेवत्यचरिते ब्रीडां विहाय [पतिदेवत्यचरिते] पतसि चेत्तदेतत्प्रइसनं स्यात् तब, किमिव ? सुरापाने सुरास्वादने मौनिव्रतमिव इति ॥३४॥ अन्तर्बहिः संप्रति कालरात्रौं तवोद्यतायां हरिशस्त्रपातः । लब्धश्चिरस्येति तनोतु तिर्यग् ज्योत्स्नामकालेऽपि यमाट्टहासः ॥३५॥ अन्तरिति-तनोतु, कोऽसौ ? यमाहासः, काम् ? ज्योत्स्नाम् , छ ? अकालेऽपि अप्रस्तावेऽपि, कयम् ? तिरीक्, कथम्भूतः सन् ! लल्धः, कथम् ? चिरस्येति चिरेणेतिकालेन, कैः कृत्वा लब्धः । हरिशस्त्रपातैः लक्ष्मणमुक्तमार्गणगणैः, कस्यां सत्याम् ? कालरात्री, कथम्भूतायाम् ? उग्रताया गुत्पन्नायाम् , कस्व १ तब, कथम् ? अन्तर्बहिः, कथम् ? संप्रति साम्प्रतमेव ।। भारते-हरिशब्देन नारायणः ॥३५।। । इत्युक्त्वासौ तस्य विरागं प्रकृतीनां नानाभापावेषलिपिज्ञैरवसपैः । ज्ञात्वा हस्तकृत्य समस्तं पुरिकृत्यं तस्याः पारं प्राप्य च रम्यं वनमागात् ॥३६॥ इतीति नानाभाषावषलिपिः नानाभाषाः करपल्लव्यादयः, मानायेषाः कौलिकभौतिकाद्याकाराः; नामालिपयः कार्णाटकद्रमिलान्धागवङ्गदेशोद्भववर्णानां पङ्क्तया विन्यासाः ; नानावेयाश्च भाषाश्च लिपयश्च नानाभाषाघेपलिपयः ताः जानन्ति तैः, तस्य रावणस्य प्रकृतीनां स्वाम्यमात्यादीनां सङ्घानां विरागं च विशिष्टमनुरागं ज्ञात्वा इति पूर्वोक्तप्रकारेण उक्त्वा च पुरि लङ्कायां समस्तं निखिलं कृत्यं करणीयं हस्तकृत्य स्वाधीनं विधाय तस्या लङ्कायाः पारं पर्यन्तं प्राप्य असौ इनूमान् रम्यं पल्लवितकुसुमितफलितविविधवनस्पतिशाखान्तरोपविष्टमत्तमयूरकोकिलालापसुन्दरं वनमागादागतवान् ।। भारतीये-असौ दतः । तस्य जरासन्धस्य । तस्याः राजगृहनगर्याः। शेष समम ॥३६॥ उपवनयभिरामवल्लभां स वनजनेत्ररुचि निरूपयन् । स्वपतिगुणविशेषरञ्जितामुपलभते स्म सतीं वचोहरः ॥३७॥ उपवनमिति-स वचोहरो हनूमान् रामवल्लभां नानकीम् उपलभते स्म ददर्श, कथम्भूताम् ? वनजने. शान्ति हो जाती है तथा अनीतिमान्का निर्वाह हो जाता है किन्तु लोकलाज छोड़कर यदि देवता स्वरूप नृपति ही अनाचरण करने लगें तो फैसे चलेगा । उस अवस्थामें तुम्हारा यह हँसना मदिरा पीकर मौनत्रत धारण करनेके समान है ॥३४॥ हरि लक्ष्मण अथवा कृष्णजीके सतत शस्त्र प्रहारके द्वारा अब तुम्हारे अन्तरंग और बाहर, दोनों में ही कालरात्रि फैल जानेपर बहुत समय बाद आया यमका अट्टहास ही असमयमें बिजलीका प्रकाश करे ॥३५॥ इस प्रकारसे रावण अथवा जरासंधको कहकर तथा विविध भाषाओं, वेषों और लिपियोंके शाता गुप्तचरों द्वारा उसकी प्रजाकी उदासीनता अनवा विमुखताको भांपकर अपने पूरे कर्तव्यको मुट्ठी में करके उस दूतने लंका अथवा राजगृह नगरके एक किनारे जाकर सुन्दर घनमें प्रवेश किया था ॥३६॥ इस वनके आसपास सर्वत्र देखते हुए उस निर्भय दूत हनुमानने कमलके समान सुन्दर १. शिखरिणीवृत्तम् । २. वंशस्थवृत्तम् । ३. मत्तमयूरवृत्तम् ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy