SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४३ त्रयोदशः सर्गः उक्त न पौनःपुनिकेन किं वा वेलामिवोर्वी प्रलयाम्बुराशेः । चमू विकर्षन्तमवेक्षमाणः स्वमे हरिं पश्यसि तं समक्षम् ॥३२॥ उत्तनेति-वा अथवा किं प्रयोजनम् , केन ! पौनापुनिकेन उक्तेन पुनः पुनर्भवेन द्विरुक्तेनेत्यर्थः, पश्यसि, कः १ त्वम् , कम् ? तं हरिं लक्ष्मण समक्षमिति क्रियाविशेषणं प्रत्यक्षं यथा भवतीत्यर्थः, किं कुर्वाणस्त्वम् ? अवेक्षमाणः अवलोकमानः, कम् ? हरि लक्ष्मणं नारायणं च, छ ? स्वग्ने, किं कुर्वन्तम् ? विकर्षन्तम् , काम् ! चमू सेनाम् , कथम्भूताम् ? उनी गरिष्ठाम् , कामिव १ प्रल्याम्बुराशेर्वेलागिव । उभयत्र सममन्यत् ॥३२॥ समातुलानीतनयैः स्वबन्धुभिः प्रभो जयत्येष निहत्य ते बलम् । समेध्यलारचितं परस्तव स्थिरं मनश्चेत्कुरूदेशमीशिता ॥३३॥ ___ समेति-हे प्रभो जयति, कः ? एप लक्ष्मणः, किं कृत्वा ? स्वबन्धुभिः विभीषणादिभिरात्मयान्धवैः सह ते तव बलं सैन्यं निहत्य, कथम्भूतैः ? समातुलानीतनयैः साधारणतया निरुपद्रवतया च सर्चासां प्रजानां प्रतिपालकत्वात्समं यथा भवति तथा शत्रुभिर्न तुल्यत्वेनोपमीयते इत्यनुलं यथा सममतुलम् आनीतो निश्चितो नयो यैस्ते समातुलानीतनयास्तैस्तथोक्तः, हे मेध्य पवित्र ! चेद्यदि ईशिता ऐश्वर्वेणानुभविष्यति, कः ? स लक्ष्मणः, कम् ? देश जनपदम् , कथम् ? पुरोऽमतः, कस्य १ तव, तदा कुरु विधेदि, किम् ? मनश्चेतः, कथम्भूतम् ! स्थिरं निश्चलम् , पुनः कथम्भूतं सत् ! लङ्कारचितं लङ्कायों मन्दमन्दवातवशादोलायमानः शुभ्रांशुकोपलक्षितध्वजै रत्नमयैस्तोरणवद्भिः प्रासादैरनन्यशोमो मासा ममेयं पुरीति कृत्या विहितं मनः स्थिरं कुर्विति भावः । भारतीयः-प्रभोजयति ग्रासयति, कः ? एष नारायणः, किम् ! बलं सैन्यम् , कस्य ! ते तव, कैः कृत्वा ? स्वबन्धुभिर्वलभद्रादिभिरात्मबान्धवैः, कथम्भूतैः १ समातुलानीतनयः मातुलानीपुत्राः युधिष्ठिरादयः तत्सहितः, किं कृत्वा पूर्व प्रभोजयति ? निहत्य प्रध्वंस्य तथा ईशिता, कः ? स चक्रपाणिः, कम् ! कुम्देशं कुरुजाङ्गलनामधेयं जनपदम् , चेदस्ति, किम् ? मनः, कयम्भूतम् ! स्थिरम् , कस्य ? तब भवतः, कथम्भूतं सत् ! कारचितं कारः कामचारः, तेन चितं पुष्टम् , कथम् ? अलमत्यर्थम् , तदा समेधि सम्यक् प्रकारेण भव, पुरः पुरत इति ॥३३॥ नयस्यावद्यस्य व्यपनयमुखेन स्तुतिकृती जनस्यापि शान्तिर्भवति वसतिस्तस्य भविता । कथंकारं ग्रीडा पतसि पतिदेवत्यचरिते सुरापाने मौनव्रतमिव तदेतत्प्रहसनम् ॥३४॥ नेति-भवति जायते, का ? शान्तिः क्षमा, कस्य । जनस्यापि, कत्यां सत्याम् ! स्तुतिकृतौ स्तवन बार-बार कहने से क्या लाभ है ? प्रलयकालके समुद्रकी घेलाके समान विनाशक विशाल सेनाको बढ़ाते हुए हरिको स्वप्नमें देखते हुए तुम अब उनको साक्षात् सामने देखोगे॥३२॥ लक्ष्मणके समान निरुपम तथा नीतिमार्गके प्रतिपालक अपने साथियों के द्वारा यह तुम्हारे ऐसे प्रभुकी सेनाका संहार करके विजय प्राप्त करेगा। यदि वह तुम्हारे सामने ही इस देशका स्वामी होनेवाला है तो हे बलि (मेध्य ) भूत ! लंकामें आसक्त अपने मनको स्थिर करो [बलभद्रादि भाइयों और पाण्डवादि मामाके पुत्रों द्वारा कृष्ण; अपनेको प्रभु मानने वाले तुम्हारी सेनाको काटकर विजय प्राप्त करेगा और कुरुजांगल देशका स्वामी बनेगा। यदि अत्यन्त मनमानी करनेसे ढीठ तुम्हारा मन स्थिर है तो उसके सामने बढ़ो] ॥३३॥ निराकरण करनेके रूपसे पापाचरणमें लीन लोगोंकी चर्चा करनेपर भी सुननेवालोंको १. उपजातिः वृत्तम् । २. शस्थवृत्तम् ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy