SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ । त्रयोदशः सर्गः २३९ सभ्रयुग्मं वैरविरुद्धं घटयन्नु स्विद्यन्क्रोधकाथितलावण्यरसो नु । रुद्धः स्थित्वाधोरणमुख्यैर्द्विरदो नु प्रोचे विष्णोरित्यरिरग्निं विवमन्नु ॥२२॥युग्मम् । द्विः। इत्युक्त सभ्रूभङ्गमिति-प्रोचे प्रकर्षणोक्तवान् , कः ? अरी रिपुः, कस्य ! विष्णोः लक्ष्मणस्य, रावण इत्यर्थः, कथम् ! इति वक्ष्यमाणापेक्षया, क सति ? अस्मिन्नुक्ते, कथम् ? इति उक्तप्रकारेण, किं कृत्वा ? पूर्व प्रापथ्य नीत्वा, कम् ? पादं चरणम् , के नीत्वा ? अहम् , कथं पादम् ? अपात्तम् आकृष्टम् , कस्मात् ? मणिपीठात् रत्नमयपादविष्टगत् , कथम्भूतः ? सव्यगतासिस्थितदृष्टिः सव्ये दक्षिणपावें गतः प्राप्तो योऽसिः खङ्गः तत्र स्थिता दृष्टिलोचनं यस्य सः, किं कुर्चन् ! न्यस्यन्नु आरोपयन इव, कम् ? इन्द्रियवर्ग पर्शगरसनप्राणश्रोत्रसंदोहम् , कयोबस्यन ! अक्षणोलोचनयोः, कथम्भृतमिन्द्रियवर्गम् ? सकलं समस्तम् , सकलशब्दात् मनसोऽपि ग्रहणम् , न शब्दोऽत्र इवार्थः । किं कुर्वन् ? गमयन्नु प्रापयन्निव, कम् ! कायं दारीरम् , काम् ! कोपविवृत्तिम् , कस्मात् ? क्षोभात् , नुशब्दोऽत्र विताभिधायकः, कि कुर्वन्नु ? घटयानु विरचयन्निव, किम् ? वैरविरुद्धं भ्रयुग्मम् , अत्र चैरवशाद् भ्रयुगलं ललाटशिखरं नयन्निति भावः । पुनः किं कुर्वन् ? स्विद्यन् स्वेदजलं मुञ्चन् , पुनः कथम्भूतः ? कोधकाथितलावण्यरसः कोपरिकलितलावपरसः, किं कृत्वा पूर्व प्रोचे ! स्थित्वा स्थितो भूत्वा, कथम्भूतः सन् १ अनुरुद्धः, कैः ? रणमुख्यैः मुभटैः क्षत्रियकुमारैः, कथम् ? अधः, किं कुर्वन् ? विवमन्नु उद्लिनिव, कम् ? अग्निम् , क इव अनुरुद्धः १ द्विरदो नु यथा गजेन्द्रोऽनुरुध्यते, कैः ? आधोरण मुख्यैः पस्तिपकाग्रणीभिः । भारतीये-प्रोचे, कः ? अरिः वासुदेवस्य जरासन्ध इत्यर्थः । इतिशब्दोऽत्र वक्ष्यमाणार्थसूचका, क सति प्रोचे ? अस्मिन्नुक्ते, कथम् ? इति उक्तप्रकारेण 1 दोपं पूर्ववत् ।।२२।। प्राणान्कृत्वान्यत्र कथंचित्तव कायं केनाप्यन्येनाविशतैतद्यदि वोक्तम् । भाषा नैषा ते ननु मत्तस्य विलापं श्रुत्वा मद्यस्यैष न तस्येत्यविचार्यम् ॥२३॥ प्राणानिति-न स्यात् , का ! एपा भाषा, कस्य ? ते तव । यदि चेदुक्तम्, किम् ? एतत् , केन ! त्वया । वा अथवा उत्तम् , किम् ? एतत्, केन ? केनाप्यन्येन, केनचित्तवापरेण स्वामिना, किं कुर्वता सता ? आविशता प्रविशता, कम् ? कायं दारीरम् , कस्य ? तव, कथम् ? कथञ्चिन्महता कष्टेन, किं कृत्वा ? पूर्व कृत्या विधाय, कान् ! प्राणान् , क ! अन्यत्र, असून्विहायेत्यर्थः, युक्तमेतत् , सोपस्कारतया व्याख्यायते । ननु अहो अविचार्य स्यात् वचः, कस्य ? तस्य पुंसः यो व्रते, कथम् ? इति, न स्यात्, कः ? एष प्रलापः, कस्य ? मद्यस्येति, किं कृत्वा गूर्व ब्रूते ? श्रुत्वा आकर्य, कम् ? विलापं प्रलापम् , कस्य ? मत्तस्येति । अत्र तावत्तव स्वामी मदिरायते तदनुशीलनान्मत्तो भूत्वा त्वं यदृच्छया प्रब्रवीधीति भावः ॥२३॥ यद्यप्युक्तं दूतमवध्यं हृदि कृत्वा पत्युः पातश्चेतसि चिन्त्यः स तथापि । काकोलूकं क्रीडदरण्ये भयमुक्तं मत्वा गच्छेत्कस्तदजस्र शववित्रम् ॥२४॥ इस प्रकारसे दूत के द्वारा कहे जानेपर मणिमय चौकीपरसे उठाये गये पैरफो जाँघके ऊपर रखते हुए, दाँयी तरफ लटकती तलवारके ऊपर दृष्टि डालते हुए, समस्त इन्द्रियोंके समूहको केवल दोनों आँस्त्रों में ढालते हुए, क्षोभके कारण पूरे शरीरमें क्रोधका पूर फैलाते हुए, दोनों भृकुटियोंको वैरके कारण वक्र करते हुए, क्रोधकी अग्निमें पके लावण्यके रसके समान पसीनेसे युक्त, प्रधानांके द्वारा शुद्धसे रोके गये अतएव आवेशमें नीची गर्दन किये बैठे (प्रधान महावतोंके द्वारा वशमें किये गये) हाथीके समान राम तथा कृष्णके शत्रु रावण-जरासंधने आगको उगलनेके समान कठोर वचन कहे थे ॥२१-२२॥ किसी प्रकार अपने प्राणोंको कहीं छिपाकर तुम्हारे शरीरमें प्रवेश पाये किसी दूसरे ने यह सब कहा है यह तुम्हारी भाषा नहीं है। यदि उस मत्तकी बोली सुनकर यह कहा गया है तो मदिराका विकार होनेके कारण यह अविचारणीय ही है ।।२३।।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy