SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ૨૨૮ द्विसन्धानमहाकाव्यम् कारणात् बज गच्छ, कः १ त्वम् , काम् ? गुणवत्ताम् , केन कृत्वा ? सीतोपनयेन जानकीसमर्पणेन, कथम्भूतां गुणवत्ताम् ? स्थावरभूतां स्थिरस्थितिकारणम् , कयोः ! श्रीसंपत्त्योः श्रीः हिरण्यमण्यादिस्वभावा, संपत्तिगोमहिप्यादिस्वभावा श्रीश्च सम्पत्तिश्च श्रीसंपत्ती तयोः । भारतीये-सीतोपनयेन भूमिप्रदानेन । शेषं समम्||१८|| मृत्वा जीवित्वैव च यस्मिन्गुणमेयात्तस्मिन्पर्तुं जीवितुमिच्छेद्गुणगृह्यम् । प्राहुः संपद्व्यापदमस्माद्वनमुच्चैरामो ही नो नायत पाण्डुप्रभवोर्यः ॥१९॥ मृत्वेति-एयान प्राप्नुयात् , कः ? प्राणी, कम् ? गुणम् , किं कृत्वा ? पूर्व मृत्वा जीवित्वा च, कस्मिन् ? यस्मिन्नेव कार्ये, इच्छेत् वाञ्छेत्, कः ? प्राणी, कि कत्तुम् ? मत्त जीवितुं च, कस्मिन् ? तस्मिन्नेव कार्थे, प्राहुर्वदन्ति, के ? नीतिभन्तो जनाः, किम् ? संपद्वयापदम् सम्पच व्यापच्च अत्र सन्तिः प्रत्ययः, के माहुः १ गुणगृह्यं गुणग्राहकं जनम , अस्मात् कारणात् ही कष्टं नोऽस्माकम् अर्यः स्वामी रागः उच्चैरतिशयेन वनं नायत नायासीत् , कशम्भूतः ? पाण्टुप्रभवः प्रशस्तजन्मा । इदं व्याख्यानं काका ध्याख्येयम् । भारतीय नायत, कः ? पाण्डुप्रभवः युधिष्ठिरः, कथम्भूतः ? नोऽस्माकम् अर्यः पुनः आमः आर्द्रहृदयः, उच्चरत्यर्थ ही वाष्टम् । अत्र पूर्वार्द्धगतं व्याख्याने बोध्यम् ||१९| मन्दोदर्यामिच्छसि चित्तव्यतिपात न्याय्यं त्वं वैभीषणमुक्तं न शृणोषि । नावाप्युच्चैः किश्चिदतीतं तव कार्य गत्वा विष्णु तं प्रभविष्णु वरिवस्य ।।२०।। मन्दोदयांमिति-इच्छसि, कः ? स्वम् , कम् ? चित्तव्यतिपातम् अप्रेमतया चेतोऽन्यत्र नेतुम् , कत्याम् १ मन्दोदयों मन्दोदरीनामधेयायां पट्टमहिष्याम् । अत्रान्यायप्रवृत्त्या परकलत्रासक्ततया प्रगलितप्रेम. परम्परां मन्दोदरी कर्त मिच्छीति भावः । तथा न्याय्य न्यायादनपेतं विभीषणस्येदं वैभीषणम् उक्तं वचनं न शृपोषि नाकर्णयसि । अद्यापि सांप्रतमपि उच्चैः महत् तव कार्य नातीतं न गतम् , कथम्भूतम् । किञ्चिदपि, अतः कारणात् त्वं प्रभविष्णु प्रभवनशीलं तं विष्णुं लक्ष्मणं गत्वा वरिवस्य नमस्कुल । भारतीयः-इच्छसि, कः ? त्वम् , कम् ? चित्तव्यतिपातं चित्तं प्रपातयितुम् , कस्याम् ! दो गुहायाम् , कथम्भूतस्त्वम् ? मन्दः हेयोपादेयविकलः, तथा न शृणोषि, कः ? त्वम् , किम् ? उक्तम् , कथम्भूतम् ? भीषणं भयावहम् , कथम्भूतं सत् ? न्याय्यम् , कथम् १ वै स्फुटम् , अद्याप्युच्चैः कार्य किञ्चित् नातीतम् , कस्य ? तव भवतः, अतस्त्वं गत्वा प्रभविष्णुं तं विष्णु वासुदेवं वरिवस्य ॥२०॥ इत्युक्तेऽस्मिन्पादमुपात्तं मणिपीठात् प्रापय्योरुं सव्यगतासिस्थित दृष्टिः। न्यस्यन्नक्ष्णोरिन्द्रियवर्ग सकल तु क्षोभात्कार्य कोपविवृत्तिं गमयन्नु ॥२१॥ जो सीताको वापस करके [पाँच प्राम भूमि पाण्डवोंको दिलाकर ] चिरस्थायी लक्ष्मी और वैभव संयुक्त गुणीपनेको प्राप्त हो ॥१८॥ जिस कार्यके करनेपर मरके अथवा जीवित रहकर गुणों की प्राप्ति होती हो, गुणोंका लोभी उसकी पूर्ति में मरने वा जीनेकी अभिलाषा करता है क्यों कि नीतिमान् गुणों की प्राप्तिको सम्पत् और विपरीतको विपत्ति कहते हैं । इसी कारणसे हमारा पूज्य विमल घंशमें उत्पन्न राम वनमें आया है [पाण्डुराजसे उत्पन्न और अत्यन्त सहृदय युधिष्ठिर उनमें आया है] ॥१९॥ हे रावण ! तुम पटरानी मन्दोदरीसे अपने चित्तको हटाना चाहते हो। और भाई विभीषणके द्वारा कहे गये न्यायपूर्ण वचनोंको नहीं सुनते हो । आज भी तुम्हारा कोई कर्म पूर्ण रूपसे नहीं बिगड़ा है। जा करके अत्यन्त प्रभावशाली रामकी शरण ग्रहण करो [हे मन्द बुद्धि जरासंध ! क्या गुफामें जाकर दिन बितानेकी मनमें है? जो तुम न्यायोचित भीषण सत्य पर कान नहीं देते हो । आज भी.........."कृष्णको प्रणाम करो] ॥२०॥
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy