SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ द्विसन्धानमहाकाव्यम् उदति । समन्ततः सामस्त्येन । यत्र यस्याम् । सजनं सत्पुरुषम् । विलङ्घयातिक्रम्य । उपवनमुधानम् । विजात्या युतमपि विशिष्टया जात्या युतमपि । विभातीति विरुद्धम् । परिहयते वीनां पश्चिणां जातिस्तया युक्तम् । कीदृशम् ? उदर्कसङ्केशभरम्, अर्व गतोऽर्क: ऊर्ध्वं स्थितो रविरुदर्कस्तस्माद्यः संक्लेशभरः सन्तापभारस्तम् । बहत धरत । कथम् ! स्वयमात्मना । परस्य जनस्य सन्तापहरे सन्ताएं हरतीति तत्तथाभूतम् । कीदृशं पुनः ? फलप्रदं फलं प्रददातीति तत्तथा । अर्थवशाद्विभक्तिविपरिणामो दरीदृश्यते । सजनोऽप्येवं शोभतेतराम् । कीदृशोऽपि ? युतोऽपि । कन्या ? विजात्या, विशिष्टा मातृपक्षलाञ्छन्रहिता जातिस्तया । उक्तञ्चः- "मातुः पक्षो भवेजातिः पितुः पक्षो भवेत्कुलम्" { म. पु. प. ३९-८५ ] इति । उदकसंक्लेशभरम् , उदकः फलमुत्तर तसिन् संक्लेशभरस्तं वहन् विभ्रत् । परस्य सन्तापहरः फलपदश्च विरोधाभासः ||१४|| दशां दधानाः खलु गन्धधारिणी महाद्रमस्कन्धनिबद्धकन्धराः । स्वरन्धवैरोद्धटयेव सिन्धुराः शिरांसि यस्यां धुनतेऽरुणेक्षणाः ।।१५।। दशामिति । यस्यां नगर्याम् । अरुणेक्षणाः लोहितलोचनाः । सिन्धुरा गजाः । शिरांसि शीर्षाणि धुनते कम्पयन्ते । कयेवोत्येक्षिताः । स्वबन्धवैरोट्या इव स्वबन्धबैरमुद्घाटयितुमिव । कीदृशाः १ गन्धधारिणीमतन्नाम्नी दशा मदावन्या म्बल निश्चयेन दधाना दधतः । पुनः कथम्भूताः ? महाद्रुमरकन्धनिबद्धकन्धराः, महाद्रुमा उच्चवृक्षाः, स्कन्धाः शाखोत्पत्तिस्थानानि, महाद्रुमाणां स्कन्धाः महाद्रुमरकन्धाराषु नियद्धा नियन्त्रिताः कन्धरा ग्रीवा येषां ते । उक्तञ्च-"सनाततिलका पूर्वा, द्विधीया कपोलिका । तृप्तीमार्द्धनिबद्धा तु चतुर्थी गन्धधारिणी ॥१॥ पन्चमी क्रोधिनी झंथा षष्ठी चैव प्रवर्तिका । सम्भि(म्पभिन्नकपोलाऽथ सप्तमी सार्वकालिका" ॥२॥ उत्प्रेक्षालंकारः ||१५|| कुशासनोदीरितचेतसश्चला मनोजवा मेघपथेतिवर्तिनः । प्रसह्य नीता गुरुभिर्महापथं नरोऽतिदाम्यन्त्यपि यत्र वाजिनः ॥१६॥ कुशासनेति । यत्र यस्यां नगर्या नरः नराः, अतिदाम्यन्ति सुशिक्षिता भवन्ति । कीदृशाः, गुरुभिः सूरिभिः, उपाध्यायैः कर्तृभिः महापथं सन्मार्ग प्रसह्य 'बलान्नीताः प्रापिताः । कथम्भूताः ? अतिवर्तिनः । बचानेवाला, फलीका दाता तथा कोने कोने में विशेष प्रकारको वृक्ष-श्रेणियोंसे पूर्ण उपवन सज्जनोंसे भी बढ़कर शोभित होता है। पूर्वोपार्जित कमौके दुःखद परिणामोको स्वयं सहकर भी दूसरोंको शान्ति मार्गके उपदेष्टा, पुण्यके प्रेरक तथा सर्वथा पधिष मातृकुलसे सम्बद्ध सजन भी पवनोंको पछाड़ कर उन नगरियोंकी शोभा बढ़ाते थे। ॥१४॥ जिस अयोध्या अथवा हस्तिना नगरी में गन्धधारिणी (जिसमें हाथी माथेसे मदजलकी धार लग जाती है) अवस्थाको प्राप्त अतएव बड़े-बड़े वृक्षोंके तनोंसे गलेमें भी बंधे, उन्मादसूचक लाल-लाल नेत्रोंवाले बड़े-बड़े हाथी अपने धन्धनका विरोध करनेके लिए ही माथा धुनते थे ॥१५॥ अन्यय-यत्र कुशासनोदीरितचेतसः चलाः मनोजचामे अघपथेतिवर्तिनः नराः गुरुभिः प्रसह्य महापर्थ नीता अतिदाम्यन्ति ॥१६॥ जिन नगरों में कुशिक्षित दुष्ट लोगोंकी प्रेरणासे श्रान्त चित्त, नीति मार्गसे भ्रष्ट कामदेव मय विपरीत मार्गपर चले जानेके कारण शिष्टताकी सीमाओंके परे गये लोग भी गुरुओंकी सबल प्रेरणासे साधुमार्गमें लाये जानेपर अत्यन्त संयमी हो जाते हैं । 1. -पं संस्तक्लेशं ह-प०, ६० । २. धरन्- ५०, ६० ॥ ३. हात् प०, द० ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy