________________
द्विसन्धानमहाकाव्यम्
अध्वान्त इति संप्रति असौ श्रीशैलः अञ्जनासू नुः हनूमान् ऐयः गतवान् किं कुर्वन् ? तत् जगविख्यातं रिपुजातं शत्रुसमूह स्वामिनि रामे सर्व सह सर्व सहत इति सर्वसहम् आज्ञासहिष्णुं कुर्वन् विदधत् किं कृत्वा १ पूर्वम् आयोज्य सम्बध्य, केन सह ? साम्ना सान्त्वेन प्रयोगेण, कथम्भूतं सत् ? अवजितम्, केन कृत्वा ? धैर्येण पौरुषेण तथा कुर्वन् मातामद्दतापं महेन्द्रराजस्य अञ्जनासुन्दरीतातस्य पश्चात्तापम्, क ? अनामो मार्गमध्ये, कथम्भूतः ? नीतेः ज्ञाता, किं कुर्वन् ? वैरं प्रतिबन्धन् मम माता गर्मिणी सती निर्दयेनानेन शन्दिरायसीति ।
भारतीय पक्ष:- ऐयः प्राप्तवान् कः ? असौ श्रीोलनामधेयो दूतः कम् ? आपम् आपोऽस्मिन्देशे सन्तीत्यापः तं सजलप्रदेशम् केन १ महता गरिष्टेन धैर्येण किं कुर्वन् ? तद्रिपुजातम् अवजित संतर्जित सत्साम्ना पूर्वम् आयोग्य स्वामिनि विष्णी सर्व सह कुर्वन् कथम्भूतः श्रीशैली दूतः ! संप्रतिमाता वर्तमानकारपरिच्छेदकः निश्वयवानित्यर्थः पुनः नीतशांता, पुनः किं कुर्वन १ अध्वान्तं निर्मले चेतसि वैर प्रतिबध्नन् ॥३॥
२३२
अव्यालोलङ्कायमानो यश ओजो वाञ्छन्मुद्यनीतिविदार्य प्रियवेषः ।
सुः शालं राजगृहं तं समतीतश्वके लङ्कामाकुलवृत्ति परमाजी ||४||
अत्यालोलमिति - स हनुमान् लङ्कां लङ्कामुन्दरीनामधेयां वनमालिनः पुत्र परम् अत्यर्थम् आकुलवृ तिम आज संग्रामे चक्रे नकार, कथम्भूतः १ शालं प्राकारं समतीतः अतिक्रान्तः, किं कृत्वा १ पूर्व विदार्य भक्त्वा, कथम्भूतः सन् ? तत् विख्यातं राजगृहं राजमन्दिरं प्रेप्सुः प्राप्तुमिच्छुः पुनः कथम्भूतः १ भियवेषः सतामाकारभृतः, पुनः अव्यालोऽदुष्टः सुहृदय इत्यर्थः, किं कुर्वन्, अयमानो गच्छन्, काम् ? लङ्कां लङ्का नामधेयां नगरीम्, किं कुर्वन् ? वाञ्छन्, किम् १ यशः तथा ओजः क्षात्रं तेजः तथा उद्यन् प्राप्नुवन् काम् ? नीति स्वं स्वमाचारम् लोका नीयन्ते प्राप्यन्ते यया सा नीतिः ताम् ।
"
भारतीयः - हे विदार्यं विदाम् आर्य हे विद्वज्जनानां मध्ये गुणगणसमाश्रय श्रेणिक चक्रे कृतवान्, कः १ स श्रीशैल दूतः, कम् ? परं शत्रुम् कथम्भूतम् ? कामाकुलवृत्तिम् अभिलाषेणाकुलवृत्तिम्, का ? आजी प्रागे, कथम्भूतः १ समतीती रचितवान् कम् ? तं सजलप्रदेशम् पुनः शालं प्रेसुः, किं कुर्वन् ! राजगृहम् उद्यन् गच्छन् पुनः कामयमानोऽभिलषन् किम् ? अभ्यालीले स्थिरतरं यशः तथा ओनः तथा नीतिम् अहं वाञ्छन् ॥४॥
}
,
दारुप्राकारोऽयमुताहो रथकट्या किंवाश्वीयं वारिधित्रेला परिखाश्वित् ।
सौधा जालोल्लासितधूमाः किमु मेघाः श्वेता नीलान्कि सवमन्तीतीति शशङ्कते ॥५॥
मार्ग में आये मातामह महेन्द्र राजके प्रति मन ही मन वैर भावको पुष्ट करता हुआ नीतिशास्त्र का पंडित वह हनुमान दृढ़ता के द्वारा ही पराजित शत्रुराजा समूह को साम के प्रयोग करने के पश्चात् अपने स्वामी रामके प्रति सर्वधा आज्ञाकारी बनाता हुआ चला जारहा था [ निर्मल चित्तमें वैरकी गांड बाधता हुआ, नीतिश, सर्वोत्तम अनुमान कर्ता, अपने असीमित धैर्यके द्वारा ही पराजित शत्रुओं को साम नीति द्वारा स्वामी कृष्णका पूर्ण अनुयायी बनाता हुआ उस प्रदेशमें पहुँचा था जो जलबहुल हैं ॥३॥
के
लंकापुरीको जाते हुये निष्कपट शिष्ट, कीर्ति और प्रताप के इच्छुक, उत्कृष्ट नीतिज्ञाता, शिष्ट तथा प्रिय वेषधारी तथा युद्ध में परकोटोको लांघ कर सर्वविदित राजभवन में घुसने के लिए उद्यत उस हनुमानने वनमालीकी पुत्री लंकासुन्दरीको अत्यन्त चंचल चित्त कर दिया था [ अत्यन्त स्थायी ( अभ्यालोल ) यश और तेजकी अभिलाश करता हुआ, समर्थ नीति व्यवहारका इच्छुक, प्रिय वेष श्रीशैल इस जलमय प्रदेशको पार करके परकोटे को लांघकर राजगृहमें प्रवेश कर रहा था । तथा उसने शत्रुको युद्धके लिए अत्यन्त लालापित कर दिया था ॥४॥