SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २३० द्विसन्धानमहाकाव्यम् कथम् ? इत्युक्तप्रकारेण तद्यथा किलेतिशब्द 'ऽप्याश्चर्ये खेदे वा, कैनेति शब्दोऽनुयोगा'र्थो ग्राह्यः वा अथवा केन लिखितं किम् ? नाम, केषु द्वीपाम्बुराशिकुलपर्वतदेवलोकलोकान्तरेषु द्वीपं समुद्रसमृद्धनगरपुरपत्तनादि, अम्बुराशयः समुद्राः, कुलपर्वताः उदयास्तमयभूधरादयः देवलोक : अमरावतीपुरी, लोकान्तरं मनुष्यलोकः, इतरेतराश्रयो द्वन्द्वः, तानि तथोक्तानि तेषु सुरगणानां प्रहासवचनमिदमिति ॥ ५१ ॥ इत्थं हिरण्यकशिपूद्यपक्षपाती नारायणः पथि बभूव निवर्तमान : I सिद्धाभिपूजन विशेष विवृद्धतेजाः श्रीवर्धनं जयकरं विनयं निराहुः ||५२ || इति श्रीधनञ्जयकविविरचिते राघवपाण्डवीयापरनाम्नि द्विसंधानकाव्ये लक्ष्मणचासुदेवयोः कोटिशिल्टोद्धरणकथनो नाम द्वादशः सर्गः ॥१२॥ इत्थमिति - बभूव जज्ञे, कोऽसौ ? नारायणो विष्णुर्लक्ष्मणः कथम्भूतः १ निवर्त्तमानो व्याघुटन के ? पथि मार्गे, पुनः कथम्भूतः ! हिरण्यकशिपूदयपक्षपाती हिरण्यं काञ्चनम्, कशिपू ग्रासाच्छादने, उदयः अभ्युदयः, हिरण्यं च कशिपू च उदयश्च हिरण्यकशिपूयाः तेषां पक्षपातोऽस्यास्तीति सः तथोक्तः, बन्दिभ्यो . वंशस्तुतिकरणेन कनकप्रासाच्छादन विभूतीनां दातेति भावः । पुनः कथम्भूतः १ सिद्धाभिपूजन विशेषविवृद्धतेजा आदावेव तेजस्वी सिद्धाभिपूजनाद्विशेषेण वृद्धं तेजो यस्य स तथेति कथम् ? इत्युक्तप्रकारेण युक्तमेतनिराहुदन्ति के ? विद्वज्जनाः, कम् १ विनयं प्रश्रयम्, कथग्भूतम् ? जयकरम् पुनः श्रीवर्द्धनमिति । J भारतीये - इत्थमुक्तप्रकारेण, सिद्धाभिपूजन विशेषविवृद्धतेजा भूत्वा नारायणो निवर्त्तमानः, पथि बभूव, कथम्भूतः सन् ! हिरण्यकशिपदयपचपातां हिरण्यकशिपुर्नाम दैत्यराजस्तस्योदवपक्षं पातयतीत्येवंशीलः स तक्तः, हिरण्यकशिपोः प्राणहर्तेत्यर्थः । अन्वत्समम् ॥ ५२ ॥ इति श्रीनिरवद्यविद्यामण्डनमण्डित पण्डित मण्डली मण्डितस्य पट्तर्कचक्रवर्त्तिनः श्रीमद्विजयचन्द्रपण्डितस्य गुरोरन्तेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोवचारुचातुरीचन्द्रिका. ahir नेमिचन्द्रेण विरचितायां पदकौमुदी नाम दधानायां टीकायां लक्ष्मणवासुदेव कोटिशिलो रणकथनं द्वादशः सर्गः ॥१२॥ शिलापर नाम लिखते हुए देवोंके द्वारा देखे गये थे । आश्चर्य है ? क्योंकि द्वीप, जलनिधि, कुलाचल, अमरपुरी, अथवा लोकान्तर में कब किसने अपना नाम लिखा है |॥५१॥ सम्पत्ति ( हिरण्य ) सुख सामग्री ( कशिपू ) तथा समृद्धि ( उदय ) के पक्षका समर्थक लक्ष्मण अथवा हिरण्यकशिपु नामके दैत्यके उत्कर्षका लमाशिकर्ता कृष्ण सिद्धशिला पर सांगोपांग सिद्ध परमेष्ठी की पूजाके कारण लौटता हुआ मार्ग में अद्भुत रूपसे बढ़े तेजके स्वामी नरनायक हुये थे । क्योंकि विद्वज्जन भगवान्‌ की विनयको लक्ष्मीका पोषक तथा विजयका कर्ता कहते हैं ॥५२॥ निर्दोष विद्याभूषणभूषित पण्डित मण्डली के पूज्य, पतर्कचक्रवर्ती श्रीमान् पण्डित विनयचन्द गुरुके प्रशिष्य, देवनन्दिके शिष्य, सकलकलाचातुर्य चन्द्रिका के चकोर नेमिचन्द्र द्वारा विरचित कवि धनञ्जयके राघवपाण्डवीय नामसे ख्यात हिसन्धान काव्यकी पदकौमुदी टीका में लक्ष्मण वासुदेव कोटिशिलोद्धरण कथन नामक द्वादश सर्गः समाप्त | १. प्रश्नार्थी - प० द० । २. घसन्ततिलकावृतम् ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy