SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२८ द्विसन्धानमहाकाव्यम् किम् ? द्विपदानसौरभ द्विरदमदामोदम् अपिशब्दः समुच्चयं सूचयति तथा मृगनाभिगन्धं कस्तूरी परिमलम्, के इव १ वनेचर इत्र मिल्ल इव, यथा वनेचरस्तं विष्णुम् अभियाति । अन्यत्समम् ||४६ || उत्खातरोपणमिदं निजमेव पुंसा न्याय्यं व्रतं तदनुपालय पालनीयम् । इत्यग्रजस्य वचनं प्रतिमान्य तुष्टस्तुष्टाव सिद्धपदपंक्तिमावुपेन्द्रः ||४७|| उत्खावेति- उपेन्द्रो लक्ष्मणोऽजस्य रामस्य वचनं प्रतिमान्य अङ्गीकृत्य तुष्टो हृएः सन् सिद्धपदपंक्ति सिद्धं पदं येश तें सिद्धपदाः तेषां पंक्ति मुक्तश्रेणी तुष्टाव स्तौति स्म । कथं वचनम् ? इति उत्खातरोपणम् उन्मूलितप्रत्यवस्थापनमेव तं पालनीयम् कथम्भूतम् १ निजगात्मीयम् केषाम् ? पुंसां पुरुषाणाम् पुनः कथम्भूतम् ? न्याय्यं न्यायादनपेतं तत् अनुपालय । भारतपक्षे-उपेन्द्र विष्णुः, अग्रजस्य बलभद्रस्येति ॥ ४७ ॥ योsधः स्थितोऽशोकतरोरभासीत्तद्वृक्षमूली यमहाव्रतस्य । फलं यतिभ्यः प्रथयन्निवार्हन्वन्यः सुराणां स पुनः पुनातु ॥४८॥ य इति सः अर्हन्, पुनातु पवित्रीकरोतु कथम्भूतः ! सुराणां देवानां पुनः वारं वारं वन्द्यः स्तुत्यः । पुनः कथम्भूतः १ अशोकतरोः पिण्डीद्रुमस्य अधः अधोभागे स्थितः, किं कुर्वन्निव ? यतिभ्यः फलं प्रथयन्निव या अमासीत् रेजे | कस्य फलम् १ तद्वृक्षमूलीय महाव्रतस्प, वृक्षस्य मूलं हितं यस्य स वृक्षमूदीयः, स चा वृक्षमूलीयश्च तद्वृक्षमूलीयः तस्य महात्रतं तस्य लोकप्रसिद्धस्य वृक्षमूल्य निवासिनो मुनिगणस्य महाव्रत मित्यर्थः ॥४८॥ बोधाम्भोधी यः समाधीन्दुवृद्धे सिद्धेरुच्यं कर्तुमिच्छन्निवर्द्धिम् । निन्ये मान्यं साधु रत्नत्रयं नः सिद्धः सिद्धां कार्यसिद्धिं करोतु ||४९|| बोधेति-करोतु विदधातु स सिद्धो मुक्तात्मा, काभ् ? कार्यसिद्धि कार्य मोक्षलक्षणम्, सिद्धिः प्राप्तिः तिर्वा कार्यस्य सिद्धिः कार्यसिद्धिस्ताम् केषाम् १ नोऽस्माकम् कथम्भूतां कार्यसिद्धिम् ! सिद्धां पूर्वापरप्रमाणबाधापरित्यागाद्युक्तियुक्तचेतसां पुंसां प्रतीतिशिखरिशिखरमारूढाम् । यो निन्ये नीतवान् किम् ? रत्नत्रयं सम्यग्दर्शनज्ञानचारित्रस्वभावम् काम् ? ऋद्धि वृद्धिम्, क ? बोधाम्भोधौ, बोधः अवगमविगमसजन्माज्ञानातिशयः स बोधाम्भोधिः तस्मिन् केवलज्ञानसमुद्र, कथम्भूते ? समाधीन्दुवृद्धे क्रोधादिचतुष्टयजनितचित्तकालुष्यपरित्यागाद्यदात्मनः प्रसन्नता स समाधिः, स एवेन्दुः तेन वृद्धे, कथम्भूतं रत्नत्रयम् ? साधु साधूनां मोमिनो योग्यत्वात्साध्वित्यभिधीयते । अथवा आत्मीयदोषैः परित्यक्तत्वात्साधु ! पुनः कथम्भूतम् ! मान्य 1 व्याप्त तथा कस्तूरी मृगकी नाभिके गन्धसे सुगन्धित पवन उस लक्ष्मण अथवा कृष्णके सामने भय के कारण भीलके समान धीरे-धीरे चल रहा था ॥ ४६ ॥ आदर्श पुरुषों का यह अपना न्यायोचित तथा सब प्रकारसे पालने योग्य व्रत है कि जिसे उखाड़ दिया है उसकी पुनः स्थापना कर दें अतएव आप भी इसका पालन करिये। ज्येष्ठ भाई राम या बलरामकी इस सम्मतिको उपेन्द्र ने स्वीकार कर लिया था और बड़े संतोष के साथ सपरमेष्ठी चरणपंक्तिकी स्तुति की थी ॥४७॥ समवशरण में अशोक वृक्ष के नीचे विराजमान होनेसे दर्शनीय तथा अनन्त सुख रूपी मोक्षके मूलभूत महाव्रतोंके सुफलको यतियोंको देता हुआ. सदृश वह अर्हन्त परमेष्ठी हमारा चन्द्य है । वही देवोंको भी पवित्र करें ||४८॥ कषाप परित्यागसे उत्पन्न चिसकी निर्मलतामय समाधि रूपी चन्द्रमाके द्वारा ज्वारको प्राप्त केवलशानरूपी समुद्र में जिसने अमूल्य सम्यग् दर्शन-ज्ञान-चरितमय रत्नत्रयकी १. वसन्ततिलकावृत्तम् । २. उपजातिवृत्तम् ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy